श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विसप्ततितमः सर्गः
एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ ।
गिरिप्रदरमासाद्य पावकं विससर्जतुः ॥ 3.72.1 ॥
अथ संस्कृतः कबन्धः स्वरूपं प्रत्यापन्नो मित्रमुपदिशति द्विसप्ततितमे एवमुक्तावित्यादि । प्रदरं श्वभ्रम् । आसाद्य प्रापय्य कबन्धमिति शेषः ॥ 3.72.1 ॥
लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः ।
चितामादीपयामास सा प्रजज्वाल सर्वतः ॥ 3.72.2 ॥
महोल्काभिः निर्गतज्वालकाष्ठैः ॥ 3.72.2 ॥
तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत् ।
मेदसा पच्यमानस्य मन्दं दहति पावकः ॥ 3.72.3 ॥
मेदसा मांसेन पच्यमानास्य अभिवृद्धस्य कबन्धस्य शरीरम् ॥ 3.72.3 ॥
स विधूय चितामाशु विधूमो ऽग्निरिवोत्थितः ।
अरजे वाससी बिभ्रन्मालां दिव्यां महाबलः ॥ 3.72.4 ॥
अरजे निर्मले । अदन्तत्वमार्षम् ॥ 3.72.4 ॥
ततश्चिताया वेगेन भास्वरो विमलाम्बरः ।
उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः ॥ 3.72.5 ॥
तत इति । चिताया उत्पपात सर्वेषु प्रत्यङ्गेष्वङ्गुल्यादिष्वपि भूषणानि यस्य स तथा ॥ 3.72.5 ॥
विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे ।
प्रभया च महातेजा दिशो दश विराजयन् ॥ 3.72.6 ॥
हंसयुक्त इत्यनेन रामदग्धतया ब्रह्मलोकप्राप्तिः सूच्यते । विराजयन् अभूदिति शेषः ॥ 3.72.6 ॥
सो ऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत् ।
शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि ॥ 3.72.7 ॥
तत्त्वेन परमार्थतः । शृण्विति वाक्यमब्रवीदिति सम्बन्धः ॥ 3.72.7 ॥
राम षड्युक्तयो लोके याभिः सत्त्वं विमृश्यते ॥ 3.72.8 ॥
हे राम लोके षड्युक्तयः सन्ति । युक्तयः उपायाः । ते च सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः । याभिर्युक्तिभिः सत्त्वं राज्ञां कृत्यं विमृश्यते ताः सन्तीति ॥ 3.72.8 ॥
परिमृष्टो दशान्तेन दशाभागेन सेव्यते ।
दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः ।
यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम् ॥ 3.72.9 ॥
ततः किमित्यपेक्षायां सन्धिविषयं दर्शयति परिमृष्ट इति । दशा नाम दौस्थ्यरूपावस्था तस्याः अन्तः परिपाकः तेन परिमृष्टः संस्पृष्टः पुरुषः दशाभागेन दशायाः भागः परिपाकलक्षणः अंशो यस्य तेन सेव्यते सन्धीयते । अस्तु प्रकृते किमायातं तत्राह दशाभागगत इति । हे राम सलक्ष्मणस्त्वं दशाभागगतः दुर्दशापन्नः अत एव हीनश्च । कुतः? यत्कृते येन कारणेन दारप्रधर्षणं नाम व्यसनं प्राप्तं तेन त्वं दशाभागगगतः ॥ 3.72.9 ॥
तदवश्यं त्वया कार्यः स सुहृत्सुहृदां वर ।
अकृत्वा हि न ते सिद्धिमहं पश्यामि चिन्तयन् ॥ 3.72.10 ॥
ततो ऽपि किमित्यत्राह तदिति । दशाभागेन त्वया सः दशाभागगतः कश्चित् सुहृत्कार्यः । अवश्यमित्यत्र हेतुमाह अकृत्वेति । सुहृदम् अकृत्वा असम्पाद्य सिद्धिं सीतालाभं चिन्तयन्नपि न पश्यामि ॥ 3.72.10 ॥
श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः ।
भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना ॥ 3.72.11 ॥
ऋश्यमूके गिरिवरे पम्पापर्यन्तशोभिते ।
निवसत्यात्मवान् वीरश्चतुर्भिस्सह वानरैः ॥ 3.72.12 ॥
स पुनः क इत्यपेक्षायामाह श्रूयतामित्यादि, श्लोकद्वयमेकान्वयम् ॥ 3.72.11,12 ॥
वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः ।
सत्यसन्धो विनीतश्च धृतिमान्मतिमान्महान् ॥ 3.72.13 ॥
दक्षः प्रगल्भो द्युतिमान्महाबलपराक्रमः ।
भ्रात्रा विवासितो राम राज्यहेतोर्महाबलः ॥ 3.72.14 ॥
स ते सहायो मित्रं च सीतायाः परिमार्गणे ।
भविष्यति हि ते राम मा च शोके मनः कृथाः ॥ 3.72.15 ॥
स च त्वत्सदृशगुणकत्वाद्दशाभागगतत्वाच्च ते मित्रतामर्हतीत्याह त्रिभिः वानरेन्द्र इति । तेजोवान् तेजस्वी । द्युतिमान् कान्तिमान् ॥ 3.72.1315 ॥
भवितव्यं हि यच्चापि न तच्छक्यमिहान्यथा ।
कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः ॥ 3.72.16 ॥
शोकापनोदनाय लोकन्यायमाह भवितव्यमिति श्लोकेन ॥ 3.72.16 ॥
गच्छ शीघ्रमितो राम सुग्रीवं तं महाबलम् ।
वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव ।
अद्रोहाय समागम्य दीप्यमाने विभावसौ ॥ 3.72.17 ॥
गच्छेत्यादिसार्धश्लोक एकान्वयः । इतो गत्वेत्यनुवादः । समागम्य सुग्रीवेण संयुज्य । अद्रोहाय परस्परद्रोहाभावाय । विभावसौ अग्नौ दीप्यमाने सति अग्निसाक्षिकमित्यर्थः । तं सुग्रीवं वयस्यं कुरु ॥ 3.72.17 ॥
स च ते नावमन्तव्यः सुग्रीवो वानराधिपः ।
कृतज्ञः कामरूपी च सहायर्थी च वीर्यवान् ॥ 3.72.18 ॥
स च सुग्रीवः ते त्वया नावमन्तव्यः अयं तिर्यक् किमनेनेति तस्मिन्नावमतिः कार्या । तत्र हेतुमाह कृतज्ञ इति ॥ 3.72.18 ॥
शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम् ।
कृतार्थो वा ऽकृतार्थो वा कृत्यं तव करिष्यति ॥ 3.72.19 ॥
तस्य सुग्रीवस्य । चिकीर्षितं युवां कर्तुं शक्तौ अतः स कृतार्थः कृतस्वप्रयोजनः । अकृतार्थः करिष्यमाणस्वप्रयोजनो वा तव कृत्यं करिष्यति ॥ 3.72.19 ॥
स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः ।
भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः ॥ 3.72.20 ॥
स कस्य पुत्रः कुत्र तिष्ठतीत्यत्राह स इति । सन्धिरार्षः । ऋक्षरजास्तन्मातेत्याहुः । पम्पामटति तत्तीरे पर्यटति । शङ्कितः वालिनिमित्तमिति शेषः । कृतकिल्बिषः कृतवैरः ॥ 3.72.20 ॥
सन्निधायायुधं क्षिप्रमृश्यमूकालयं कपिम् ।
कुरु राघव सत्येन वयस्यं वनचारिणम् ॥ 3.72.21 ॥
सख्यं च न केवलमग्निसाक्षिकं किन्त्वायुधमपि सन्निधाप्य कर्तव्यमित्याह सन्निधायेति । सत्येन शपथेन ॥ 3.72.21 ॥
स हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः ।
नरमांसाशिनां लोके नैपुण्यादधिगच्छति ॥ 3.72.22 ॥
नरमांसाशिनां राक्षसानाम् । अधिगच्छति ज्ञास्यति ॥ 3.72.22 ॥
न तस्याविदितं लोके किञ्चिदस्ति हि राघव ।
यावत्सूर्यः प्रतपति सहस्रांशुररिन्दम ॥ 3.72.23 ॥
नेति । यावत्सूर्यः प्रतपति तावति लोक इत्यन्वयः ॥ 3.72.23 ॥
स नदीर्विपुलाञ्छैलान् गिरिदुर्गाणि कन्दरान् ।
अन्वीक्ष्य वानरैः सार्धं पत्नीं ते ऽधिगमिष्यति ॥ 3.72.24 ॥
स इति । अधिगमिष्यति ज्ञास्यति ॥ 3.72.24 ॥
वानरांश्च महाकायान् प्रेषयिष्यति राघव ।
दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् ॥ 3.72.25 ॥
स ज्ञास्यति वरारोहां निर्मलां रावणालये ॥ 3.72.26 ॥
वानरांश्चेति सार्धश्लोकः । शोचतीं शोचन्तीम् ॥ 3.72.25,26 ॥
स मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतले ऽपि वाश्रिताम् ।
प्लवङ्गमानां प्रवरस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति ॥ 3.72.27 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विसप्ततितमः सर्गः ॥ 72 ॥
स इति । प्रविश्य रक्षांसि निहत्येत्यन्वयः । अनिन्दितामिति सीतायाः शुद्धत्वप्रतिज्ञा ॥ 3.72.27 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्विसप्ततितमः सर्गः ॥ 72 ॥