श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्ततितमः सर्गः
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।
बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ॥ 3.70.1 ॥
अथ कबन्धस्य बाहुच्छेदेन पूर्वजन्मस्मृतिरुच्यते सप्ततितमे तौ त्वित्यादि । परिक्षिप्तौ परिवेष्टितौ ॥ 3.70.1 ॥
तिष्ठतः किन्नु मां दृष्ट्वा क्षुधार्तं क्षत्ित्रयर्षभौ ।
आहारार्थं तु सन्दिष्टौ दैवेन गतचेतसौ ॥ 3.70.2 ॥
तिष्ठत इति । क्षुधार्तं मां दृष्ट्वा भीतौ किन्नु तिष्ठतः व्यर्थमेव न तु जीवितापत्परिहार इत्यर्थः । यतो गतचेतसौ युवां मे दैवेनाहारार्थं सन्दिष्टौ ॥ 3.70.2 ॥
तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा ।
उवाचार्तिं समापन्नो विक्रमे कृतलक्षणः ॥ 3.70.3 ॥
तच्छ्रुत्वेति । कृतलक्षणः कृतोद्योगः ॥ 3.70.3 ॥
त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः ।
तस्मादसिभ्यामस्याशु बाहू छिन्दावहै गुरू ॥ 3.70.4 ॥
त्वां चेति । पुरा आदत्ते आदास्यतीत्यर्थः ॥ 3.70.4 ॥
भीषणो ऽयं महाकायो राक्षसो भुजविक्रमः ।
लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति ॥ 3.70.5 ॥
भीषण इति । भुजयोरेव विक्रमो यस्य स तथा । लोकं जनम् । अतिजितम् अत्यन्तजितम् ॥ 3.70.5 ॥
निश्चेष्टानां वधो राजन् कुत्सितो जगतीपतेः ।
क्रतुमध्योपनीतानां पशूनामिव राघव ॥ 3.70.6 ॥
भुजच्छेदनमात्रं कर्तव्यं न तु मारणमित्याह निश्चेष्टानामिति । निश्चेष्टानां प्रतीकाराशक्तानाम् । जगतीपतेः क्षत्ित्रयस्य । क्रतुमध्योपनीतानां निश्चेष्टानामित्यस्मिन्नर्थे प्रयुक्तम् । “पर्यग्निकृतानारण्यानुत्सृजन्त्यहिंसायै” इत्युक्तरीत्या अश्वमेधक्रतावुपनीतानामारण्यपशूनां वधः कुत्सित एव ॥ 3.70.6 ॥
एतत्सञ्जल्पितं श्रुत्वा तयोः क्रद्धस्तु राक्षसः ।
विदार्यास्यं तदा रौद्रस्तौ भक्षयितुमारभत् ॥ 3.70.7 ॥
तयोरेतत् सञ्जल्पितं श्रुत्वा भक्षयितुमारभत्, हस्ताभ्यामाकृष्टवानित्यर्थः ॥ 3.70.7 ॥
ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ ।
अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशतः ॥ 3.70.8 ॥
सुसंहृष्टौ कदलीकाण्डवत् सुखच्छेदनादिति भावः ॥ 3.70.8 ॥
दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः ।
चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः ॥ 3.70.9 ॥
दक्षिणः समर्थः । असक्तम् अप्रतिबन्धं यथा भवति तथा । रामस्य दक्षिणपार्श्वे गमनं लक्ष्मणस्य, अत उभयोर्दक्षिणसव्यपार्श्वप्राप्तिः ॥ 3.70.9 ॥
स पपात महाबाहुश्छिन्नबाहुर्महास्वनः ।
खं च गां च दिशश्चैव नादयन् जलदो यथा ॥ 3.70.10 ॥
गां भूमिम् ॥ 3.70.10 ॥
स निकृत्तौ भूजौ दृष्ट्वा शोणितौघपरिप्लुतः ।
दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः ॥ 3.70.11 ॥
निकृत्ताविति । पूर्वमदत्तोत्तरत्वात् पुनः प्रश्नः ॥ 3.70.11 ॥
इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः ।
शशंस राघवं तस्य कबन्धस्य महात्मनः ॥ 3.70.12 ॥
इतीति । क्रियाभेदात् पुनस्तच्छब्दः ॥ 3.70.12 ॥
अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः ।
अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् ॥ 3.70.13 ॥
इक्ष्वाकुदायादः दशरथपुत्रः । “दायादौ सुतबान्धवौ” इत्यमरः ॥ 3.70.13 ॥
[ मात्रा प्रतिहृते राज्ये रामः प्रव्राजितो वनम् ।
मया सह चरत्येष भार्यया च महद्वनम् ॥ ]
अस्य देवप्रभावस्य वसतो विजने वने ।
रक्षसा ऽपहृता पत्नी यामिच्छन्ताविहागतौ ॥ 3.70.14 ॥
इच्छन्तौ अन्वेषमाणावित्यर्थः ॥ 3.70.14 ॥
त्वं तु को वा किमर्थं वा कबन्धसदृशो वने ।
आस्येनोरसि दीप्तेन भग्नजङ्घो विवेष्टसे ॥ 3.70.15 ॥
त्वं त्विति । विवेष्टसे लुठसीति यावत् ॥ 3.70.15 ॥
एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः ।
उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन् ॥ 3.70.16 ॥
प्रीतः शापमोक्षकालप्रत्यभिज्ञानात् । तदिन्द्रवचनम् उत्तरसर्गप्रतिपाद्यम् ॥ 3.70.16 ॥
स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम् ।
दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ ॥ 3.70.17 ॥
बाह्वोर्बन्धनं ययोस्तौ बाहुबन्धनौ अंसावित्यर्थः ॥ 3.70.17 ॥
विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा ।
तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव ॥ 3.70.18 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्ततितमः सर्गः ॥ 70 ॥
विरूपं विषमरूपं यथा येन प्रकारेण प्राप्तं तत्कारणं तत्त्वतस्तव शंसतो मे सकाशाच्छृणु । अस्मिन् सर्गे अष्टादश श्लोकाः ॥ 3.70.18 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्ततितमः सर्गः ॥ 70 ॥