०६७ जटायुषा सीतावृत्तान्तकथनम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तषष्टितमः सर्गः

पूर्वजो ऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् ।

सारग्राही महासारं प्रतिजग्राह राघवः ॥ 3.67.1 ॥

अथ लक्ष्मणवाक्यप्रतिष्ठापितधैर्यो रामो युद्धभूमेर्दक्षिणतः किञ्चिद्दूरे गृध्रराजं दृष्ट्वा रोदिति सप्तषष्टितमे पूर्वजो ऽपीत्यादि । राघवः पूर्वजो ऽपि लक्ष्मणेन कनिष्ठेन सुभाषितं युक्तियुक्ततयोक्तं वाक्यम् उक्तमात्रस्तु उक्तमात्र एव जग्राह । “बालादपि सुभाषितम्” इति स्मृतेः । स्वयमुपदेष्टा कथमन्योक्तं जग्राहेत्यत्राह सारग्राहीति । कथमस्य वाक्यस्य सारवत्त्वं तत्राह महासारमिति ॥ 3.67.1 ॥

सन्निगृह्य महाबाहुः प्रवृत्तं कोपमात्मनः ।

अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् ॥ 3.67.2 ॥

सन्निगृह्येति । स्पष्टम् ॥ 3.67.2 ॥

किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण ।

केनोपायेन पश्येयं सीतामिति विचन्तय ॥ 3.67.3 ॥

पश्येयं पश्येव ॥ 3.67.3 ॥

तं तथा परितापार्तं लक्ष्मणो राममब्रवीत् ।

इदमेव जनस्थानं त्वमन्वेषितुमर्हसि ।

राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम् ॥ 3.67.4 ॥

तमिति सार्धश्लोक एकान्वयः ॥ 3.67.4 ॥

सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि व ।

गुहाश्च विविधा घोरा नानामृगगणाकुलाः ॥ 3.67.5 ॥

आवासाः किन्नराणां च गन्धर्वभवनानि च ।

तानि युक्तो मया सार्धं त्वमन्वेषितुर्महसि ॥ 3.67.6 ॥

इह जनस्थाने । गिरिगतानि दुर्गाणि, गन्तुमशक्यप्रदेशा इत्यर्थः । निर्दराः विदीर्णपाषाणाः । कन्दराणि पाषाणसन्धयः । गुहाः देवखातबिलानि । युक्तः सन्नद्धः ॥ 3.67.5,6 ॥

त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभ ।

आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः ॥ 3.67.7 ॥

न प्रकम्पन्ते न चञ्चलचित्ता भवन्तीत्यर्थः ॥ 3.67.7 ॥

इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः ।

क्रुद्धो रामः शरं घोरं सन्धाय धनुषि क्षुरम् ॥ 3.67.8 ॥

क्षुरं क्षिरप्राख्यं शरम् । सीताया अदर्शनात् क्रोधः ॥ 3.67.8 ॥

ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् ।

ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् ॥ 3.67.9 ॥

कूटः शृङ्गम् । महाभागं महाभाग्यम् । स्वाम्यर्थे त्यक्तशरीरत्वात् । द्विजोत्तमं पक्षिश्रेष्ठम् । “दन्तविप्राण्डजा द्विजाः” इत्यमरः । क्षतजं रुधिरम् ॥ 3.67.9 ॥

तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत् ।

अनेन सीता वैदेही भक्षिता नात्र संशसः ॥ 3.67.10 ॥

भक्षिता रुधिरार्द्रत्वादिति भावः ॥ 3.67.10 ॥

गृध्ररूपमिदं रक्षो व्यक्तं भवति कानने ।

भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् ॥ 3.67.11 ॥

गृध्रस्य रुपमिव रूपं यस्य तत्तथा ॥ 3.67.11 ॥

एनं वधिष्ये दीप्तास्यैर्घोरैर्बाणैरजिह्मगैः ॥ 3.67.12 ॥

एनमित्यर्धमेकं वाक्यम् । अजिह्मम् अकुण्ठम् अवक्रं वा गच्छन्तीत्यजिह्मगाः तैः ॥ 3.67.12 ॥

इत्युक्त्वा ऽभ्यपतद् गृध्रं सन्धाय धनुषि क्षुरम् ।

क्रुद्धो रामः समुद्रान्तां कम्पयन्निव मेदिनीम् ॥ 3.67.13 ॥

अभ्यपतत् अभिमुखं गतः । समुद्रान्तां समुद्रपर्यन्ताम् ॥ 3.67.13 ॥

तं दीनं दीनया वाचा सफेनं रुधिरं वमन् ।

अभ्यभाषत पक्षी तु रामं दशरथात्मजम् ॥ 3.67.14 ॥

दशरथात्मजमिति सम्बन्धोक्तिः ॥ 3.67.14 ॥

यामोषधिमिवायुष्मन्नन्वेषसि महावने ।

सा देवी मम च प्राणा रावणेनोभयं हृतम् ॥ 3.67.15 ॥

यथा महौषध्यन्वेषिणः प्रतिवनमन्वषन्ते तथा यामस्मिन् विस्तीर्णे वने ऽन्वेषसि । “एषृ गतौ” इत्यस्माद्व्यत्ययेन परस्मैपदम् । नित्यं प्राणसमेत्युक्ता सा देवी मम प्राणाश्च उभयं रावणेन हृतम्, मम प्राणान् हृतप्रायान् कृत्वा सीतां रावणो हृतवानित्यर्थः । खरवधादिना रामबलं ज्ञात्वाप्यस्थाने भयशङ्कितया रामस्यायुः प्रार्थयते आयुष्मन्निति ॥ 3.67.15 ॥

त्वया विरहिता देवी लक्ष्मणेन च राघव ।

ह्रियमाणा मया दृष्टा रावणेन बलीयसा ॥ 3.67.16 ॥

त्वयेति स्पष्टम् ॥ 3.67.16 ॥

सीतामभ्यवपन्नोहं रावणश्च रणे मया ।

विध्वंसितरथश्चात्र पातितो धरणीतले ॥ 3.67.17 ॥

अभ्यवपन्नः आभिमुख्येन गतः । ह्रियमाणां सीतामवलोक्य तदभिमुखमागत इत्यर्थः । रावणश्च विध्वंसितरथः सन् अत्र धरणीतले पातितः, रथाद्भ्रंशितः इत्यर्थः ॥ 3.67.17 ॥

एतदस्य धनुर्भग्नमेतदस्य शरावरम् ।

अयमस्य रथो राम भग्नः साङ्ग्रामिको मया ॥ 3.67.18 ॥

भग्नमेतद्धनुः अस्य रावणस्य सम्बन्धि । एवमुत्तरत्रापि योज्यम् । शरावरं वर्म तूर्णीरं वा ॥ 3.67.18 ॥

अयं तु सारथिस्तस्य मत्पक्षनिहतो युधि ॥ 3.67.19 ॥

अयं त्वित्यर्धमेकम् ॥ 3.67.19 ॥

परिश्रान्तस्य मे पक्षौ छित्त्वा खङ्गेन रावणः ।

सीतामादाय वैदेहीमुत्पपात विहायसम् ॥ 3.67.20 ॥

वैदेहीं जनकेन सम्यक् परिपोषिताम् ॥ 3.67.20 ॥

रक्षसा निहतं पूर्वं न मां हन्तुं त्वमर्हसि ॥ 3.67.21 ॥

रक्षसेत्यर्धमेकम् ॥ 3.67.21 ॥

रामस्तस्य तु विज्ञाय बाष्पपूर्णमुखस्तदा ।

द्विगुणीकृततापार्तः सीतासक्तां प्रियां कथाम् ॥ 3.67.22 ॥

तस्य गृध्रस्य सम्बन्धिनीं सीताविषयकथां विज्ञाय श्रुत्वा द्विगुणीकृतेन गृध्रवधेन द्विरावर्तितेन तापेन आर्तः पीडितः, अभूदिति शेषः ॥ 3.67.22 ॥

गृध्रराजं परिष्वज्य परित्यज्य महद्धनुः ।

निपपातावशो भूमौ रुरोद सहलक्ष्मणः ॥ 3.67.23 ॥

अवशः मूर्च्छित इत्यर्थः । रुरोद क्रमादिति शेषः ॥ 3.67.23 ॥

एकमेकायने दुर्गे निःश्वसन्तं कथञ्चन ।

समीक्ष्य दुःखिततरो रामः सौमित्रिमब्रवीत् ॥ 3.67.24 ॥

एकम् असहायं सहायरहितं दयया संरक्षकपथिकजनरहितमित्यर्थः । एकायने एकस्य मार्गे । “अयनं वर्म मार्गाध्व” इत्यमरः । एकपद्यामित्यर्थः । दुर्गे इतः परमपि केनचिद्गन्तुमशक्ये इति दुःखहेत्वतिरेकोक्तिः । निःश्वसन्तं गृध्रराजमिति शेषः ॥ 3.67.24 ॥

राज्याद्भ्रंशो वने वासः सीता नष्टा द्विजो हतः ।

ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम् ॥ 3.67.25 ॥

यद्यपि “न चास्य महतीं लक्ष्मीं राज्यनाशो ऽपकर्षति” “वनवासो महोदयः” इति अभिमततमतया प्रोक्तौ राज्यनाशवनवासौ तथापि सम्प्रति सीता विश्लेषकारित्वाज्जटायुवियोगफलकत्वाच्च तावेवानर्थकरौ जातावित्याह राज्यादिति । राज्याद्भ्रंशः हठात् लब्धराज्यस्य विच्युतिः । वने वासः राज्यभ्रंशे ऽपि राज्ये भिक्षुकवृत्तयापि स्थातुं शक्यं तदपि न लब्धम् । सीता नष्टा वनवासेप्यभिमतजनविश्लेषाभावे सुखेनावस्थातुं शक्यं तदपि नास्ति । हतो द्विजः अभिमतजनविश्लेषे ऽपि बन्धुजनसन्निधौ शोको निर्वापयितुं शक्यः स च निवृत्तः । ईदृशी एतादृशदुःखपर्यवसायिनी मम अलक्ष्मीः दौर्भाग्यम् । पावकमपि निर्दहेत् सर्ववस्तुदाहकमपि दहेत्, सदा विश्लेषप्रसक्तिशून्यं लक्ष्मणमपि विश्लेषयेदिति भावः ॥ 3.67.25 ॥

सम्पूर्णमपि चेदद्य प्रतरेयं महोदधिम् ।

सो ऽपि नूनं ममालक्ष्म्या विशुष्येत्सरितां पतिः ॥ 3.67.26 ॥

प्रतरेयं तापशान्तये प्लवेयं चेत् ॥ 3.67.26 ॥

नास्त्यभाग्यतरो लोके मत्तो ऽस्मिन् सचराचरे ।

येनेयं महती प्राप्ता मया व्यसनवागुरा ॥ 3.67.27 ॥

व्यसनं वागुरेव व्यसनवागुरा । “वागुरा मृगबन्धिनी” इत्यमरः ॥ 3.67.27 ॥

अयं पितृवयस्यो मे गृध्रराजो जरान्वितः ।

शेते विनिहतो भूमौ मम भाग्यविपर्ययात् ॥ 3.67.28 ॥

पितुर्वयस्यः सखा ॥ 3.67.28 ॥

इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः ।

जाटयुषं च पस्पर्श पितृस्नेहं विदर्शयन् ॥ 3.67.29 ॥

पितरीव स्नेहः पितृस्नेहः ॥ 3.67.29 ॥

निकृत्तपक्षं रुधिरावसिक्तं स गृध्रराजं परिरभ्य रामः ।

क्व मैथिली प्राणसमा ममेति विमुच्य वाचं निपपात भूमौ ॥ 3.67.30 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तषष्टितमः सर्गः ॥ 67 ॥

रामः वाचं विमुच्य उक्त्वेत्यर्थः । अस्मिन् सर्गे एकोनत्रिंशच्छ्लोकाः ॥ 3.67.30 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तषष्टितमः सर्गः ॥ 67 ॥