०५४ भूषणप्रक्षेपणम्-लङ्काप्रवेशं च

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःपञ्चाशः सर्गः

ह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती ।

ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान् ॥ 3.54.1 ॥

अथ सीताया अशोकवनिकायां स्थापनमाह ह्रियमाणा त्वित्यादि । नाथं रक्षकम् ॥ 3.54.1 ॥

तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् ।

उत्तरीयं वरारोहा शुभान्याभरणानि च ।

मुमोच यदि रामाय शंसेयुरिति मैथिली ॥ 3.54.2 ॥

तेषामित्यादिसार्धश्लोक एकान्वयः । उत्तरीयम् उत्तरीयभूतं कौशेयम् । बद्धा मुमोचेत्यर्थः । किमर्थं मुमोचेत्यत्राह यदि रामाय शंसेयुरिति । यदृच्छया दृष्टाय रामाय स्वस्य रावणापहरणं कथयेयुरिति प्रत्याशयेत्यर्थः । “आशंसावचने लिङ्” इति लिङ् ॥ 3.54.2 ॥

वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम् ।

सम्भ्रमात्तु दशग्रीवस्तत्कर्म न स बुद्धवान् ॥ 3.54.3 ॥

वस्त्रमिति । सहभूषणं भूषणान्तरितं वस्त्रम् । उत्सृज्य उन्मुच्य । तन्मध्ये सीतया निक्षिप्तमिति यत् तत्कर्म सम्भ्रमात्सीतापहारजनितक्षोभात् न बुद्धवान् । यदि बुद्ध्येत गृह्णीयादेवेति भावः ॥ 3.54.3 ॥

पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव ।

विक्रोशन्तीं तथा सीतां ददृशुर्वानरर्षभाः ॥ 3.54.4 ॥

पिङ्गाक्षाः वानराः, न केवलं वानराः अपितु वानर्रषभाः वानरश्रेष्ठाः । अनिमिषैरिव निमेषरहितैरिव । तथा विक्रोशन्तीं राम रामेति विक्रोशन्तीमित्यर्थः ॥ 3.54.4 ॥

स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् ।

जगाम रुदतीं गृह्य वैदेहीं राक्षसेश्वरः ॥ 3.54.5 ॥

पम्पां पम्पोपर्याकाशम् । लङ्कामभिमुख इत्यनेन एतावत्पर्यन्तं रामाश्रमदत्तदृष्टिर्गतः । ततः स्वच्छन्दं गतवानिति गम्यते । अत एव सुसंहृष्ट इति वक्ष्यते ॥ 3.54.5 ॥

तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः ।

उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् ॥ 3.54.6 ॥

उत्सङ्गेनेत्यस्य उभयत्राप्यन्वयः । मृत्युं मृत्युहेतुभूताम् ॥ 3.54.6 ॥

वनानि सरितः शैलान् सरांसि च विहायसा ।

स क्षिप्रं समतीयाय शरश्चापादिव च्युतः ॥ 3.54.7 ॥

विहायसा आकाशमार्गेण ॥ 3.54.7 ॥

तिमिनक्रनिकेतं तु वरुणालयमक्षयम् ।

सरतां शरणं गत्वा समतीयाय सागरम् ॥ 3.54.8 ॥

तिमयो मत्स्यविशेषाः नक्राः ग्राहाः तेषां निकेतं वासस्थानम् । वरुणस्य आलयं वासः शरणम् । प्राप्य गत्वा । क्रमेण सागरं समतीयाय ॥ 3.54.8 ॥

सम्भ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः ।

वैदेह्यां ह्रियमाणायां बभूव वरुणालयः । 3.54.9 ॥

सम्भ्रमात् रावणदर्शनक्षोभात् । परिवृत्तोर्मिः रुद्धमीनमहोरगः बहिस्सञ्चाररहितमत्स्यसर्पः ॥ 3.54.9 ॥

अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा ।

एतदन्तो दशग्रीव इति सिद्धास्तदा ऽब्रुवन् ॥ 3.54.10 ॥

अन्तरिक्षगताश्चारणाः दशग्रीवः एतदन्तः एतत्सीतापहरणावसान इति वाचः ससृजुः ऊचुरित्यर्थः । अन्तरिक्षगताः सिद्धाश्च एतदन्तो दशग्रीव इत्यब्रुवन् ॥ 3.54.10 ॥

स तु सीतां विवेष्टन्तीमङ्केनादाय रावणः ।

प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः ॥ 3.54.11 ॥

आत्मनः रूपिणीं रूपवतीं मुत्युमिति सीताविशेषणम् ॥ 3.54.11 ॥

सो ऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् ।

संरूढकक्ष्याबहुलं स्वमन्तःपुरमाविशत् ॥ 3.54.12 ॥

संरूढाः जनाकीर्णाः कक्ष्याः द्वारप्रकोष्ठाः ताभिः बहुलं निबिडम् ॥ 3.54.12 ॥

तत्र तामसितापाङ्गां शोकमोहपरायणाम् ।

निदधे रावणः सीतां मयो मायामिव स्त्रियम् ॥ 3.54.13 ॥

तत्र अन्तःपुरे । शोकमोहपरायणां शोकमोहपरतन्त्राम् । निदधे स्थापितवान् । मयस्त्रिपुराधिपतिः । मायां मायामयीम्, आश्चर्यशक्तियुक्तामित्यर्थः । स्त्रियं स्वयम्प्रभां बिले यथा निदधे तथेत्यर्थः ॥ 3.54.13 ॥

अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः ।

यथा नेमां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः ॥ 3.54.14 ॥

अब्रवीदिति । पिशाचीः पिशाच्याकाराः राक्षसीः यथेमां स्त्री वा पुमान्वा असम्मतः अननुज्ञातः न पश्यति तथा ऽब्रवीत् । एनामन्यो न पश्येदित्यब्रवीदित्यर्थः ॥ 3.54.14 ॥

मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च ।

यद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा ॥ 3.54.15 ॥

मुक्तेति । एषा यद्यदिच्छेत्तत्तद्देयं यथा मच्छन्दतः मदिच्छानुसारेण यथा मह्यं दीयते तद्वद्देयमित्यर्थः ॥ 3.54.15 ॥

या च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम् ।

अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् ॥ 3.54.16 ॥

जीवितं न प्रियं मारयेयमित्यर्थः ॥ 3.54.16 ॥

तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् ।

निष्क्रम्यान्तःपुरात्तस्मात्किं कृत्यमिति चिन्तयन् ॥ 3.54.17 ॥

ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान् ॥ 3.54.18 ॥

चिन्तयन् महावीर्यान् राक्षसान् ददर्श अपश्यत् ॥ 3.54.17,18 ॥

स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः ।

उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः ॥ 3.54.19 ॥

वरादानेन ब्रह्मवरदानेन । तानेतानित्यन्वयः । 3.54.19 ॥

नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः ।

जनस्थानं हतस्थानं भूतपूर्वं खरालयम् ॥ 3.54.20 ॥

नानेति “आयुधं तु प्रहरणम्” इत्यमरः । हतस्थानं शून्यसन्निवेशं खरालयं भूतपूर्वं पूर्वं खरालयमित्यर्थः । “भूतपूर्वे चरच्” इति निर्देशात्समासः ॥ 3.54.20 ॥

तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे ।

पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः ॥ 3.54.21 ॥

पौरुषं बलं न केवलं नीतिबलमित्यर्थः ॥ 3.54.21 ॥

बलं हि सुमहद्यन्मे जनस्थाने निवेशितम् ।

सदूषणखरं युद्धे हतं रामेण सायकैः ॥ 3.54.22 ॥

पौरुषबलाश्रयणे हेतुमाह बलं हीति । यत् बलं सैन्यं निवेशितं तद्धतमित्यन्वयः ॥ 3.54.22 ॥

तत्र क्रोधो ममामर्षाद्धैर्यस्योपरि वर्तते ।

वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥ 3.54.23 ॥

तत्र वधनिमित्तम् । अमर्षात् असहनात् ॥ 3.54.23 ॥

निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः ।

नहि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् ॥ 3.54.24 ॥

निर्यातयितुम् अवसितुम् ॥ 3.54.24 ॥

तं त्विदानीमहं हत्वा खरदूषणघातिनम् ।

रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ॥ 3.54.25 ॥

तन्त्विति । शर्म सुखम् । उपलप्स्यामि प्राप्स्यामि । 3.54.25 ॥

जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता ।

प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः ॥ 3.54.26 ॥

प्रवृत्तिर्वार्ता । रामः किं करोतीति तत्त्वतो वार्ता मत्सकाशमुपनेतव्येत्यर्थः ॥ 3.54.26 ॥

अप्रमादाच्च गन्तव्यं सर्वैरपि निशाचरैः ।

कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति ॥ 3.54.27 ॥

अप्रमादादिति अवधानादित्यर्थः ॥ 3.54.27 ॥

युष्माकं च बलज्ञो ऽहं बहुशो रणमूर्धनि ।

अतश्चास्मिन् जनस्थाने मया यूयं नियोजिताः ॥ 3.54.28 ॥

खरादिस्थाने अस्माभिः कथं स्थातुं शक्यं तत्राह युष्माकं चेति ॥ 3.54.28 ॥

ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम् ।

विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः ॥ 3.54.29 ॥

महानर्थो ऽभिधेयो यस्य तं महार्थम् । प्रियं श्लाघारूपं वाक्यम् उपेत्य लब्ध्वा, रावणतः स्तुतिं प्राप्येत्यर्थः । यतो यत्र जनस्थानं तद्वनमुद्दिश्य प्रतस्थिरे । अलक्ष्यदर्शनाः वेगातिशयेन दुष्प्रेक्षस्वरूपाः ॥ 3.54.29 ॥

ततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम् ।

प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितः स राक्षसः ॥ 3.54.30 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःपञ्चाशः सर्गः ॥ 54 ॥

सर्गार्थं सङ्गृह्य दर्शयति ततस्त्विति । उपलभ्य दृष्ट्वा सुसम्प्रहृष्टः कामविकारवान् । परिगृह्य गृहीत्वा । रामेण वैरं प्रसज्य प्राप्यापि मोहान्मुदितो बभूव । अत्र त्रिंशच्छ्लोकाः ॥ 3.54.30 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुःपञ्चाशः सर्गः ॥ 54 ॥