०५१ जटायु-रावणयुद्धम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकपञ्चाशः सर्गः

इत्युक्तस्य यथान्यायं रावणस्य जटायुषा ।

क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः ॥ 3.51.1 ॥

अथ स्वामिकार्याय प्राणत्यागमकरोज्जटायुरित्याह इतीत्यादि ॥ 3.51.1 ॥

संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः ।

राक्षसेन्द्रो ऽभिदुद्राव पतगेन्द्रममर्षणः ॥ 3.51.2 ॥

अमर्षणः असहनः ॥ 3.51.2 ॥

स सम्प्रहारस्तुमुलस्तयोस्तस्मिन् महावने ।

बभूव वातोद्धतयोर्मेघयोर्गगने यथा ॥ 3.51.3 ॥

सः युद्ध्यस्वेति पूर्वं प्रवर्तितः । सम्प्रहारः युद्धम् । वाताभ्यां प्रतिकूलवायुभ्याम् । उद्धतयोः प्रेरितयोः । मेघपक्षे सम्प्रहारः सङ्घट्टनमात्रम् ॥ 3.51.3 ॥

तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा ।

सपक्षयोर्माल्यवतोर्महापर्वतयोरिव ॥ 3.51.4 ॥

सपक्षयोः पक्षसहितयोः माल्यवतोः माल्यवन्नामानौ द्वौ पर्वतौ । एको दण्डकारण्ये पूर्वमुक्तः माल्यवन्तं शिखरिणमिति । अन्यः किष्किन्धासमीपे वक्ष्यति वर्षावर्णने ॥ 3.51.4 ॥

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।

अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः ॥ 3.51.5 ॥

नालीकैः नालमात्रशरैः । नाराचैः आयसशरैः । विकर्णिभिः अङ्कुशाग्रशरैः ॥ 3.51.5 ॥

स तानि शरजालानि गृघ्रः पत्त्ररथेश्वरः ।

जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे ॥ 3.51.6 ॥

पत्त्ररथेश्वरः पक्षीश्वरः । प्रतिजग्राह सेहे । रावणास्त्राणि रावणप्रयुक्तास्त्राणि ॥ 3.51.6 ॥

तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः ।

चकार बहुधा गात्रे व्रणान् पतगसत्तमः ॥ 3.51.7 ॥

तस्य रावणस्य गात्रे ॥ 3.51.7 ॥

अथ क्रोधाद्दशग्रीवो जग्राह दश मार्गणान् ।

मृत्युदण्डनिभान् घोरान् शत्रुमर्दनकाङ्क्षया ॥ 3.51.8 ॥

मार्गणान् बाणान् ॥ 3.51.8 ॥

स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः ।

बिभेद निशितैस्तीक्ष्णैर्गृधं घोरैः शिलीमुखैः ॥ 3.51.9 ॥

पूर्णम् आकर्णाकृष्टं यथ तथा मुक्तैः । अजिह्मगैः ऋजुगामिभिः । निशितैः शाणोल्लीढैः । अत एव तीक्ष्णैः घोरैः भयङ्करैः । शिलीमुखैः शिली मुख यषां तैः बाणैः गृध्रं बिभेद ॥ 3.51.9 ॥

स राक्षसरथे पश्यन् जानकीं बाष्पलोचनाम् ।

अचिन्तयित्वा तान् बाणान् राक्षसं समभिद्रवत् ॥ 3.51.10 ॥

समभिद्रवत् समभ्यद्रवत् ॥ 3.51.10 ॥

ततो ऽस्य सशरं चापं मुक्तामणिविभूषितम् ।

चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः ॥ 3.51.11 ॥

सशरं संहितशरम् ॥ 3.51.11 ॥

ततो ऽन्यद्धनुरादाय रावणः क्रोधमूर्च्छितः ।

ववर्ष शरवर्षाणि शतशो ऽथ सहस्रशः ॥ 3.51.12 ॥

क्रोधमूर्च्छितः क्रोधेन व्याप्तः ॥ 3.51.12 ॥

शरैरावारितस्तस्य संयुगे पतगेश्वरः ।

कुलायमुपसम्प्राप्तः पक्षीव प्रबभौ तदा ॥ 3.51.13 ॥

आवारितः आ समन्ताद्व्याप्तः । कुलायं नीडं प्राप्तः पक्षीव बभौ ॥ 3.51.13 ॥

स तानि शरवर्षाणि पक्षाभ्यां च विधूय च ।

चरणाभ्यां महातेजा बभञ्जास्य महद्धनुः ॥ 3.51.14 ॥

तानि च पक्षाभ्यां विधूय चरणाभ्यां धनुर्बभञ्ज चेत्यन्वयः ॥ 3.51.14 ॥

तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् ।

पक्षाभ्यां स महावीर्यो व्याधुनोत्पतगेश्वरः ॥ 3.51.15 ॥

शरावरं कवचम् । पक्षाभ्यां पक्षवातेन व्याधुनोत् प्राच्यावयत् ॥ 3.51.15 ॥

काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान् ।

तांश्चास्य जवसम्पन्नान् जघान समरे बली ॥ 3.51.16 ॥

काञ्चनोऱश्छदान् स्वर्णमयकवचयुक्तान् । “उरश्छदः कङ्कटको जागरः कवचो ऽस्त्रियाम्” इत्यमरः । बली जटायुः ॥ 3.51.16 ॥

वरं त्रिवेणुसम्पन्नं कामगं पावकार्चिषम् ।

मणिहेमविचित्राङ्गं बभञ्ज च महारथम् ॥ 3.51.17 ॥

वरमिति । त्रिवेणुः युगन्धरः । कामं यथेच्छं गच्छतीति कामगम् ॥ 3.51.17 ॥

पूर्णचन्द्रप्रतीकाशं छत्त्रं च व्यजनैः सह ।

पातयामास वेगेन ग्राहिभी राक्षसैः सह ॥ 3.51.18 ॥

पूर्णेति । ग्राहिभिः छत्त्रचामरादिग्राहकैः । “नन्दिग्रहि ” इत्यादिना णिनिः ॥ 3.51.18 ॥

सारथेश्चास्य वेगेन तुण्डेनैव महच्छिरः ।

पुनर्व्यपाहरच्छ्रीमान् पक्षिराजो महाबलः ॥ 3.51.19 ॥

सारथेरिति । व्यपाहरत् खण्डितवान् । पुनरित्यनेन छत्त्रादिखण्डनं तुण्डेनेति सूच्यते ॥ 3.51.19 ॥

स भग्नधन्वा विरथो हताश्वो हतसारथिः ।

अङ्केनादाय वैदेहीं पपात भुवि रावणः ॥ 3.51.20 ॥

भग्नधन्वा । “धनुषश्च” इत्यनङ् ॥ 3.51.20 ॥

दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम् ।

साधु साध्विति भूतानि गध्रराजमपूजयन् ॥ 3.51.21 ॥

दृष्ट्वेति । अपूजयन् मनसेति शेषः ॥ 3.51.21 ॥

परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् ।

उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः ॥ 3.51.22 ॥

गृह्य गृहीत्वा ॥ 3.51.22 ॥

तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् ।

गृध्रराजः समुत्पत्य समभिद्रुत्य रावणम् ।

समावार्य महातेजा जटायुरिदमब्रवीत् ॥ 3.51.23 ॥

तमित्यादिसार्धश्लोक एकान्वयः । समुत्पत्य ऊर्ध्वं गत्वा । समभिद्रुत्य अभिमुखं गत्वा । समावार्य सम्यगवरुध्य ॥ 3.51.23 ॥

वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण ।

अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम् ॥ 3.51.24 ॥

वज्रसंस्पर्शाः वज्रसमस्पर्शाः बाणाः यस्य ॥ 3.51.24 ॥

समित्रबन्धुः सामात्यः सबलः सपरिच्छदः ।

विषपानं पिबस्येतत्पिपासित इवोदकम् ॥ 3.51.25 ॥

समित्रेति । पीयते इति पानं पानकरसादि । विषयुक्तं पानमिति मध्यमपदलोपिसमासः । यद्वा विषस्य पानं विषपानम्, एतत्सीताहरणरूपं विषपानं पिबसि करोषि । ओदन पाकं पचतीतिवत् प्रकृतेः प्रत्ययोपस्थानमात्रं प्रयोजनम् ॥ 3.51.25 ॥

अनुबन्धमजानन्तः कर्मणामविचक्षणाः ।

शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि ॥ 3.51.26 ॥

अनुबध्यत इत्यनुबन्धः फलम् । अविचक्षणाः असमर्थाः । कर्मणाम् आत्मना क्रियमाणानां फलमजानन्तः शीघ्रं विनश्यन्ति । तत्रोदाहरणं भवानित्याह यथेति ॥ 3.51.26 ॥

बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे ।

वधाय बडिशं गृह्य सामिषं जलजो यथा ॥ 3.51.27 ॥

बद्धेति । कालपाशेन बद्धस्त्वं क्व देशे गतः सन् तस्य तस्मात्कालपाशान्मोक्ष्यसे, सहानुवर्तमानाद्बन्धात्कथं ते मुक्तिर्भविष्यतीत्यर्थः । सामिषं मांससहितम् । ब़डिशं मत्स्यबन्धनम् । “ब़डिशं मत्स्यबन्धनम्” इत्यमरः । आमिषलोभेन गृह्य गृहीत्वा जलजो मत्स्यो यथा देशान्तरं गतो ऽपि न जीवति बडिशामोक्षणात् तद्वत् ॥ 3.51.27 ॥

नहि जातु दुराधर्षो काकुत्स्थौ तव रावण ।

धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ ॥ 3.51.28 ॥

आश्रमकर्मकं त्वत्कर्तृकं धर्षणं परिभवम् । आश्रमशब्देन आश्रमस्था सीतोच्यते । मञ्चाः क्रोशन्तीतिवत् ॥ 3.51.28 ॥

यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् ।

तस्कराचरितो मार्गो नैष वीरनिषेवितः ॥ 3.51.29 ॥

यथेति । लोकगर्हितं कर्म भीरुणा त्वया यथा कृतं तथा तस्कराचरिता मार्गः ।

तस्करकृत्यतुल्यं त्वत्कृत्यमित्यर्थः । तस्मादेष मार्गः वीरनिषेवितो न भवतीत्यर्थः ॥ 3.51.29 ॥

युद्ध्यस्व यदि शूरो ऽसि मुहूर्तं तिष्ठ रावण ।

शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा ॥ 3.51.30 ॥

युद्ध्यस्वेति । पूर्वसर्गान्ते व्याख्यातो ऽयम् ॥ 3.51.30 ॥

परेतकाले पुरुषो यत्कर्म प्रतिपद्यते ।

विनाशायात्मनो ऽधर्म्यं प्रतिपन्नो ऽसि कर्म तत् ॥ 3.51.31 ॥

परेतेति । परेतकाले मृत्युकाल इत्यर्थः । यत्कर्म यादृशं कर्म पुरुषः आत्मविनाशाय प्रतिपद्यते प्राप्नोति । अधर्म्यम् अधर्मादनपेतं तत्कर्म सीताहरण रूपं प्रतिपन्नो ऽसि । एतादृशकर्मकरणादवश्यमविलम्बितं मृत्युं प्राप्नोषीत्यर्थः ॥ 3.51.31 ॥

पापानुबन्धो वै यस्य कर्मणः कर्म को नु तत् ।

कुर्वीत लोकाधिपतिः स्वयम्भूर्भगवानपि ॥ 3.51.32 ॥

यस्य कर्मणः पापानुबन्धः पापफलसम्बन्धो भवति तत्कर्म लोकाधिपतित्वादिविशिष्टो़ ऽपि को नु कुर्वीति ॥ 3.51.32 ॥

एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः ।

निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् ॥ 3.51.33 ॥

एवमिति । पृष्ठ इत्यनेन जटायुषमनादृत्य रावणस्य पलायमानत्वं गम्यते ॥ 3.51.33 ॥

तं गृहीत्वा नखैस्तीक्ष्णैर्विरराद समन्ततः ।

अधिरूढो गजारोहो यथा स्याद्दुष्टवारणम् ॥ 3.51.34 ॥

तमिति । तं गृहीत्वा बलान्निवर्त्याधिरूढः सन् जटायुः गजारोहो यन्ता दुष्टवारणं पलायितम् अङ्कुशैर्निरुध्य यथा विदारयति तथा नखैः विरराद । स्यादिति सम्भावनायाम् ॥ 3.51.34 ॥

विरराद नखैरस्य तुण्डं पृष्ठे समर्पयन् ।

केशांश्चोत्पाटयामास नखपक्षमुखायुधः ॥ 3.51.35 ॥

विररादेति । नखपक्षमुखायुधो गृध्रः । अस्य रावणस्य पृष्ठे नखैः सह तुण्डं समर्पयन् व्यपारयन् सन् विरराद व्यदारयदित्यर्थः । केशांश्चोत्पाटयामास ॥ 3.51.35 ॥

स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः ।

अमर्षस्फुरितोष्ठः सन् प्राकम्पत स रावणः ॥ 3.51.36 ॥

स इति । अमर्षेण क्रोधेन । स्फुरितोष्ठः चलितोष्ठः । प्राकम्पत प्रहारार्थं प्रदक्षिणं प्राचलदित्यर्थः ॥ 3.51.36 ॥

स परिष्वज्य वैदेहीं वामेनाङ्केन रावणः ।

तलेनाभिजघानाशु जटायुं क्रोधमूर्च्छितः ॥ 3.51.37 ॥

स इति । अङ्केन ऊरुभागेन । जटायुं जटायुरित्युकारान्तो ऽप्यस्ति ॥ 3.51.37 ॥

जटायुस्तमभिक्रम्य तुण्डेनास्य खगाधिपः ।

वामबाहून् दश तदा व्यपाहरदरिन्दमः ॥ 3.51.38 ॥

जटायुरिति । अभिक्रम्य अभितो गत्वा, अवसरं प्रतीक्ष्येत्यर्थः । अस्य वामबाहून् यैः सीता परिष्वक्ता तानित्यर्थः । व्यपाहरत् अच्छिनत् ॥ 3. 51.38 ॥

सञ्छिन्नबाहोः सद्यैव बाहवः सहसा ऽभवन् ।

विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः ॥ 3.51.39 ॥

सञ्छिन्नबाहोः रावणादिति शेषः । सद्यैवेत्यार्षे सलोपे वृद्धिः । अभवन् प्रादुरभवन् । विषज्वालेत्युपमानविशेषणाद्वाहूनां सायुधत्वं गम्यते ॥ 3.51.39 ॥

ततः क्रोधाद्दशग्रीवः सीतामुत्सृज्य रावणः ।

मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् ॥ 3.51.40 ॥

तत इति । अपोथयदताडयत् ॥ 3.51.40 ॥

ततो मुहूर्तं सङ्ग्रामो बभूवातुलवीर्ययोः ।

राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च ॥ 3.51.41 ॥

तत इति । सङ्ग्रामो युद्धम् ॥ 3.51.41 ॥

तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः ।

पक्षौ पार्श्वौ च पादौ च खङ्गमुद्धृत्य सो ऽच्छिनत् ॥ 3.51.42 ॥

तस्येति । व्यायच्छमानस्य व्यायामं कुर्वतः । “आङो यमहनः” इत्यात्मनेपदम् । “शरीरायासजनकं कर्म व्यायाम उच्यते” इति वाग्भटः । युद्धं कुर्वतः इत्यर्थः । पार्श्वौ पक्षमूले ॥ 3.51.42 ॥

स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा ।

निपपात हतो गृध्रो धरण्यामल्पजीवितः ॥ 3.51.43 ॥

स इति । अल्पजीवितः द्वित्रिक्षणावस्थानोचितप्राण इत्यर्थः ॥ 3.51.43 ॥

तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् ।

अभ्यधावत वैदही स्वबन्धुमिव दुःखिता ॥ 3.51.44 ॥

क्षतजं शोणितम् ॥ 3.51.44 ॥

तं नीलजीमूतनिकाशकल्पं सुपाण्डुरोरस्कमुदारवीर्यम् ।

ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम् ॥ 3.51.45 ॥

नीलजीमूतनिकाशकल्पं नीलमेघप्रकाशतुल्यम् । अग्निदावं दावाग्निम् ॥ 3.51.45 ॥

ततस्तु तं पत्त्ररथं महीतले निपातितं रावणवेगमर्दितम् ।

पुनः परिष्वज्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा ॥ 3.51.46 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकपञ्चाशः सर्गः ॥ 51 ॥

ततः परिष्वज्य बाहुभ्यामिति शेषः ॥ 3.51.46 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥ 51 ॥