श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुश्चत्वारिंशः सर्गः
तथा तु तं समादिश्य भ्रातरं रघुनन्दनः ।
बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् ॥ 3.44.1 ॥
अजानन्निव यो मायामृगं कार्यान्तरैकदृक् । अनुसृत्य जघानाशु तं लीलामानुषं भजे ॥ अथ मारीचवधः तथा त्वित्यादिना । त्सरुः खड्गमुष्टिः । “त्सरुः खङ्गादिमुष्टिः स्यात्” इत्यमरः ॥ 3.44.1 ॥
ततस्त्र्यवनतं चापमादायात्मविभूषणम् ।
आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः ॥ 3.44.2 ॥
त्र्यवनतं त्रिषु स्थलेष्ववतम्, शार्ङ्गमित्यर्थः । आत्मविभूषणम् आत्मालङ्कारम् । कलापौ द्वौ द्वौ तूणीरौ “कलापो भूषणे बर्हे तूणीरे संहते ऽपि च” इत्यमरः ॥ 3.44.2 ॥
तं व़ञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्य वै ।
बभूवान्तर्हितस्त्रासात्पुनः सन्दर्शने ऽभवत् ।
बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः ॥ 3.44.3 ॥
वञ्चयानः व़ञ्चयमानः । अनित्यो मुमागमः । सन्दर्शने दृष्टिविषये अभवत् स्थितः । बद्धेति । यतः यस्मिन् प्रदेशे मृगो वर्तते तत्र प्रदुद्राव ॥ 3.44.3 ॥
तं स्म पश्यति रूपेण द्योतमानमिवाग्रतः ।
अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिं महावने ॥ 3.44.4 ॥
अतिवृत्तमिषोः पाताल्लोभयानं कदाचन ।
शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरे ॥ 3.44.5 ॥
दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित् ।
छिन्नाभ्रौरिव संवीतं शारदं चन्द्रमण्डलम् ॥ 3.44.6 ॥
तमित्यादिश्लोकत्रयमेकं वाक्यम् । रूपेण कान्त्या । अग्रे द्योतमानमिव स्थितम् इषोः पातात् अतिवृत्तम् अतिक्रान्तं शङ्कितमिवेत्यन्वयः । धनुष्पाणिं दृष्ट्वा शङ्कितमिवेत्यनेन धनुष्पाणिदर्शनादन्यमृगाणामिवास्य शोको न भवतीतीवशब्दः प्रयुज्यते । यद्वा रामाद्भयं शङ्कमानं सन्तम् उत्पतन्तमिव स्थितं वस्तुतस्तत्राप्यदर्शनादिति भावः । लोभयानं हस्तप्राप्तमिव दृश्यमानमित्यर्थः । दृश्यमानमिति केषुचिद्दृश्यमानं केषुचिददृश्यम् अत एव छिन्नाभ्रैः संवीतं व्याप्तं चन्द्रमण्डलमिव स्थितम् । शारदमिति मेघशकलसम्भावनार्थमुक्तम् ॥ 3.44.46 ॥
मुहर्तादेव ददृशे मुहुर्दूरात्प्रकाशते ।
दर्शनादर्शनादेवं सो ऽपाकर्षत राघवम् ॥ 3.44.7 ॥
सुदूरमाश्रमस्यास्य मारीचो मृगतां गतः ॥ 3.44.8 ॥
समीपे मुहूर्तात् मुरूर्तं ददृशे दूरात् दूरं मुहुः प्रकाशते अतः एवम् उक्तरीत्या दर्शनादर्शनात् दर्शनादर्शनाभ्यां सुदूरमपाकर्षत आकृष्टवान् ॥ 3.44.7,8 ॥
आसीत्क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः ।
अथावतस्थे सम्भ्रान्तश्छायामाश्रित्य शाद्वले ॥ 3.44.9 ॥
विवशः कुतूहलपरवशः । मोहितः वञ्चितः ॥ 3.44.9 ॥
स तमुन्मादयामास मृगरूपो निशाचरः ।
मृगैः परिवृतो वन्यैरदूरात् प्रत्यदृश्यत ॥ 3.44.10 ॥
ग्रहीतुकामं दृष्ट्वैनं पुनरेवाभ्यधावत ।
तत्क्षणादेव सन्त्रासात्पुनरन्तर्हितो ऽभावत् ॥ 3.44.11 ॥
उन्मादयामासेति । उन्मादश्चित्तविभ्रमः, बहुदूराकर्षणेन चित्तमोहं चकारेत्यर्थः ॥ 3.44.10,11 ॥
पुनरेव ततो दूराद्वृक्षषण्डाद्विनिःसृतम् ।
दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः ।
भूयस्तु शऱमुद्धृत्य कुपितस्तत्र राघवः ॥ 3.44.12 ॥
भूयः अत्यर्थं कुपुतो ऽभूत् ॥ 3.44.12 ॥
सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनः ।
सन्धाय सुदृढे चापे विकृष्य बलवद्बली ॥ 3.44.13 ॥
तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम् ।
मुमोच ज्वलितं दीप्तमस्त्रं बह्मविनिर्मितम् ॥ 3.44.14 ॥
सूर्येत्यादिश्लोकद्वयमेकं वाक्यम् ॥ 3.44.13,14 ॥
शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः ।
मारीचस्यैव हृदयं बिभेदाशनिसन्निभः ॥ 3.44.15 ॥
प्रथमं मृगरूपस्य शरीरं विनिर्भिद्य ततः मारीचस्य हृदयं तदन्तर्वर्तिस्वशरीरं बिभेद ॥ 3.44.15 ॥
तालमात्रमथोत्प्लुत्य न्यपतत्स शरातुरः ।
विनदन् भैरवं नादं धरण्यामल्पजीवितः ॥ 3.44.16 ॥
तालमात्रं तालप्रमाणम् । “प्रमाणे द्वयसच्” इत्यादिना प्रमाणे मात्रच् ॥ 3.44.16 ॥
म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम् ।
स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम् ।
इह प्रस्थापयेत्सीता शून्ये तां रावणो हरेत् ॥ 3.44.17 ॥
सीता केनोपायेन लक्ष्मणमिह प्रस्थापयेत् केनोपायेन रावणस्तां हरेदिति दध्यौ चिन्तयामास ॥ 3.44.17 ॥
स प्राप्तकालमाज्ञाय चकार च ततः स्वरम् ।
सदृशं राघवस्यैव हा सीते लक्ष्मणेति च ॥ 3.44.18 ॥
तेन मर्मणि निर्विद्धः शरेणानुपमेन च ।
मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमात्मनः ॥ 3.44.19 ॥
चक्रे स सुमहाकायो मारीचो जीवितं त्यजन् ॥ 3.44.20 ॥
ततो विचित्रकेयूरः सर्वाभरणभूषितः ।
हेममाली महादंष्ट्रो राक्षसो ऽभूच्छराहतः ॥ 3.44.21 ॥
तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् ।
रामो रुधिरसिक्ताङ्गं वेष्टमानं महीतले ।
जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ॥ 3.44.22 ॥
स इति । प्राप्तकालं कालप्राप्तं कालोचितमर्थम् । आज्ञाय निश्चित्य ॥ 3.44.1822 ॥
मारीचस्यैव मायैषा पूर्वोक्तं लक्ष्णेन तु ।
तत्तथा ह्यभवच्चाद्य मारीचो ऽयं मया हतः ॥ 3.44.23 ॥
मारीचस्यैवेति । मायैषेत्यत्र इतिकरणं बोध्यम् ॥ 3.44.23 ॥
हा सीते लक्ष्मणेत्येवमाक्रुश्य च महास्वनम् ।
ममार राक्षसः सो ऽयं श्रुत्वा सीता कथं भवेत् ॥ 3.44.24 ॥
लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति ।
इति सञ्चिन्त्य धर्मात्मा रामो हृष्टतनूरुहः ॥ 3.44.25 ॥
हा सीत इत्यादि । हृष्टतनूरुहः भयात्पुलकितः, अभूदिति शेषः ॥ 3.44.24,25 ॥
तत्र रामं भयं तीव्रमाविवेश विषादजम् ॥ 3.44.26 ॥
तत्रेति । विषादजं विषादोत्थम्, विषादो भविष्यतीत्युत्पन्नम् ॥ 3.44.26 ॥
राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वरम् ।
निहत्य पृषतं चान्यं मांसमादाय राघवः ।
त्वरमाणो जनस्थानं ससाराभिमुखस्तदा ॥ 3.44.27 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुश्चत्वारिंशः सर्गः ॥ 44 ॥
राक्षसमित्यादि । हत्वा मरणानुकूलव्यापारं कृत्वा ततस्तदुक्तं स्वरं श्रुत्वा त्वरमाणो रामः जनस्थानं जनस्थानस्थस्वाश्रममुद्दिश्याभिमुखः सन् ससार ययौ । अत्र सार्धसप्तविंशतिश्लोकाः ॥ 3.44.27 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥ 44 ॥