श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तत्रिंशः सर्गः
तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः ।
प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥ 3.37.1 ॥
सीतापतित्वसम्भूतमप्रमेयं वहन्महः । समस्तापायरहितो रामो जयतु मे धनम् ॥ तच्छ्रुत्वेत्यादि ॥ 3.37.1 ॥
सुलभाः पुरुषा राजन् सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ 3.37.2 ॥
सततम् आपत्प्राप्तावपि । प्रियवादिनः स्वामिहिताहितविमर्शमुपेक्ष्य केवलं स्वप्रयोजनाय यथेच्छावादशीलाः पुरुषाः सुलभाः । राज्ञः अप्रियस्य तु अप्रियस्यापि तत्काले श्रवणकटुतया प्रतीयमानस्यापि । कालान्तरे पथ्यस्य हितस्य शुभोदर्कस्येत्यर्थः । वचनस्य वक्ता भृत्यः तथाविधवचनस्य श्रोता च पथ्यभक्षणवन्ममेदं हितमिति ग्रहीता राजा च दुर्लभः, अतो मयोच्यमानमप्रियमिव स्थितमपि परमहितमिति गृहाणेति भावः ॥ 3.37.2 ॥
न नूनं बुद्ध्यसे रामं महावीर्यं गुणोन्नतम् ।
अयुक्तचारश्चपलो महेन्द्रवरुणोपमम् ॥ 3.37.3 ॥
पथ्यवचनमेवाह न नूनमित्यादिना । अयुक्तचारः अनियोजितचारः चपलतया अयुक्तचारत्वाद्वा तद्वीर्यं सम्यक् न जानासीत्यर्थः ॥ 3.37.3 ॥
अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम् ।
अपि रामो न सङ्क्रुद्धः कुर्याल्लोकमराक्षसम् ॥ 3.37.4 ॥
अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा ।
अपि सीतानिमित्तं च न भवेद्व्यसनं मम ॥ 3.37.5 ॥
अद्यैव निर्गत्य पुनरागमनान्नूनं न मे वचनं श्रोष्यतीति निश्चित्य रावणचापलेन सम्भाविताननर्थानाह अपीत्यादिना । अपिः सम्भावनायां काकुस्वरो ऽपि द्रष्टव्यः । एवमुत्तरवाक्येष्वपि स्वरपर्यवसानेनार्थपरिच्छेदः कार्यः । रक्षसां सजातीयानाम् । स्वस्ति भवेदिति । आर्षी षष्ठी । अकार्यनिवृत्त्यर्थं तातेति सम्बोधनम् ॥ 3.37.4,5 ॥
अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् ।
न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा ॥ 3.37.6 ॥
ईश्वरं स्वामिनम् । कामवृत्तं यथेच्छव्यापारम् । निरङ्कुशम् अमर्यादम् ॥ 3.37.6 ॥
त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः ।
आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः ॥ 3.37.7 ॥
य इत्यध्याहार्यम् । पापं दुष्टं मन्त्रितं विचारो यस्य सः ॥ 3.37.7 ॥
न च पित्रा परित्यक्तो नामर्यादः कथञ्चन ।
न लुब्धो न च दुःशीलो न च क्षत्ित्रपांसनः ॥ 3.37.8 ॥
न च धर्मगुणैर्हीनः कौसल्यानन्दिवर्धनः ।
न तीक्ष्णो न च भूतानां सर्वेषामहिते रतः ॥ 3.37.9 ॥
पित्रा निरस्त इत्यादिना पूर्वं रावणोक्तदूषणानि परिहरति न चेत्यादिना । कौसल्यानन्दिवर्द्धन इति । आनन्दिरानन्दः “सर्वधातुभ्य इन्” इति इन् ॥ 3.37.8,9 ॥
वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् ।
करिष्यामीति धर्मात्मा तात प्रव्रजितो वनम् ॥ 3.37.10 ॥
कैकेय्या वञ्चितं पितरं दृष्ट्वा तं सत्यवादिनं करिष्यामीति स्वयं प्रव्रजितः गतः । तातेति सान्त्वोक्तिः ॥ 3.37.10 ॥
कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च ।
हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम् ॥ 3.37.11 ॥
वनगमने हेत्वन्तरामह कैकेय्या इति । प्रियस्य कामः कामना स एवार्थो यस्मिन् कर्मणि ॥ 3.37.11 ॥
न रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः ।
अनृतं दुःश्रुतं चैव नैव त्वं वक्तुमर्हसि ॥ 3.37.12 ॥
अनृतम् असत्यम् । दुःश्रुतं वैपरीत्येन श्रुतं च । भवान् वक्तुं नार्हसीत्यन्वयः ॥ 3.37.12 ॥
रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः ।
राजा सर्वस्य लोकस्य देवानां मघवानिव ॥ 3.37.13 ॥
रामः विग्रहवान् मूर्तो धर्म एव । तत्र दोषसम्भावना कथञ्चिदपि न कार्येति भावः । यथा
वासवो देवानां नायकस्तथा रामः सर्वेषां लोकानां नायक इत्यर्थः ॥ 3.37.13 ॥
कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा ।
इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः ॥ 3.37.14 ॥
स्वेन तेजसा पातिव्रत्य वैभवेन । प्रसभं बलात्कृत्य ॥ 3.37.14 ॥
शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणे ।
रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि ॥ 3.37.15 ॥
शरार्चिषमिति शरपदं खङ्गधाराया अप्युपलक्षणम् । चापखड्गेन्धनमिति रूपणात् । सहसा साहसेन ॥ 3.37.15 ॥
धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम् ।
चापपाशधरं वीरं शत्रुसैन्यप्रहारिणम् ॥ 3.37.16 ॥
राज्यं सुखं च सन्त्यज्य जीवितं चेष्टमात्मनः ।
नात्यासादयितुं तात रामान्तकमिहार्हसि ॥ 3.37.17 ॥
धनुरित्यादिश्लोकद्वयमेकान्वयम् । धनुरेव व्यादितदीप्तास्यं व्यादितं विवृतम् । अत्यासादयितुम् अत्यन्तमासन्नो भवितुम् ॥ 3.37.16,17 ॥
अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा ।
न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने ॥ 3.37.18 ॥
तस्य सा नरसिंहस्य सिंहोरस्कस्य भामिनी ।
प्राणेभ्यो ऽपि प्रियतरा भार्या नित्यमनुव्रता ॥ 3.37.19 ॥
न सा धर्षयितुं शक्या मैथिल्योजस्विनः प्रिया ।
दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा ॥ 3.37.20 ॥
जनकात्मजा यस्य यत्सम्बन्धिनी । तत्तेजः तस्य तेजः । अप्रमेयम् अपिरच्छेद्यम् । “श्रद्धया देवो देवत्वमश्नुते” इत्युक्तरीत्या सीतासम्बन्धेन रामस्यातिशय उक्तः । वने सावधानतया रक्षणीयप्रदेशे रामचापाश्रयामिति रामवैभवोक्तिः । उभयथापि न हर्तुं शक्येत्यर्थः । जनकात्मजेति कुलप्रभावादपि न हर्तुं शक्येत्यर्थः ॥ 3.37.1820 ॥
किमुद्यममिमं व्यर्थं कृत्वा ते राक्षसाधिप ।
दृष्टश्चेत्त्वं रणे तेन तदन्तं तव जीवितम् ॥ 3.37.21 ॥
किमिति । व्यर्थमिममुद्योगं कृत्वा ते किं फलं प्राप्तव्यमित्यर्थः । तदन्तं दर्शनान्तम् ॥ 3.37.21 ॥
जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् ।
यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम् ॥ 3.37.22 ॥
न केवलं जीवितं सुखादिकं च दुर्लभमित्याह जीवितं चेति ॥ 3.37.22 ॥
स सर्वैः सचिवैः सार्द्धं विभीषणपुरोगमैः ।
मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः ॥ 3.37.23 ॥
दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ।
आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः ।
हिताहितं विनिश्चित्य क्षमं त्वं कर्तुमर्हसि ॥ 3.37.24 ॥
स इत्यादि सार्धश्लोकद्वयमेकान्वयम् । स त्वमित्यन्वयः । क्षमं साधु ॥ 3.37.23,24 ॥
अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना ।
इदं हि भूयः शृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचरेश्वर ॥ 3.37.25 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तत्रिंशः सर्गः ॥ 37 ॥
अधुना स्वबुद्धिं दर्शयति अहं त्विति । युक्तं यक्तिसहितम् ॥ 3.37.25 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ 37 ॥