श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयस्त्रिंशः सर्गः
ततः शूर्पणखा दीना रावणं लोकरावणम् ।
आमात्यमध्ये सङ्क्रुद्धा परुषं वाक्यमब्रवीत् ॥ 3.33.1 ॥
अमर्यादो भृशं मूर्खो वध्यो यस्य निशाचरः । तमहं नीतिसम्पन्नं रघुनाथं समाश्रये ॥ तत इति । दीना रामपरिभूतत्वात् । स्वपरिभवदर्शने ऽपि भ्रातुर्निश्चलतया सङ्क्रुद्धा ॥ 3.33.1 ॥
प्रमत्तः कामभोगेषु स्वैरवृतो निरङ्कुशः ।
समुत्पन्नं भयं घोरं बोद्धव्यं नावबुद्ध्यसे ॥ 3.33.2 ॥
कामभोगेषु स्वैरवृत्तः स्वतन्त्रः, सदा कामपरवश इत्यर्थः । निरङ्कुशः कामभोग एव निष्प्रतिबन्धः । घोरं भयं शृण्वतामपि भयङ्करमित्यर्थः । बोद्धव्यं चारमुखेनेति शेषः ॥ 3.33.2 ॥
सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् ।
लुब्धं न बहुमन्यन्ते श्मशानाग्निमिव प्रजाः ॥ 3.33.3 ॥
एवं कामवृत्तस्य सम्भावितां हानिं लोकरीत्या दर्शयति सक्तमित्यादिना । ग्राम्येषु मैथुनादिषु । कामवृत्तं यथेच्छव्यापारम् ॥ 3.33.3 ॥
स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः ।
स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति ॥ 3.33.4 ॥
कार्याणि पालनादीनि ॥ 3.33.4 ॥
अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम् ।
वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः ॥ 3.33.5 ॥
अयुक्तचारम् अनियोजितचारम् । दुर्दर्शम् उचितकाले सभायां प्रजादर्शनप्रदानरहितम् । अस्वाधीनं पत्न्यादिपरतन्त्रं परप्रत्ययनेयबुद्धिं वा । पङ्के ऽपि विशेषणद्वयं योज्यम् । अयुक्तश्चारो यस्मिन् स्वस्य सञ्चारकर्तुरधीनो न भवतीत्यर्थः ॥ 3.33.5 ॥
ये न रक्षन्ति विषयमस्वाधीना नराधिपाः ।
ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ॥ 3.33.6 ॥
विषयं स्वराज्यम् । वृद्ध्या वर्तमानयापीति शेषः ॥ 3.33.6 ॥
आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः ।
अयुक्तचारश्चपलः कथं राजा भविष्यसि ॥ 3.33.7 ॥
आत्मवद्भिः यत्नवद्भिः, त्वत्प्रतीकारदत्तावधानैरित्यर्थः । चपलः विषयचपलः ॥ 3.33.7 ॥
त्वं तु बालस्वभावश्च बुद्धिहीनश्च राक्षस ।
ज्ञातव्यं तु न जानीषे कथं रजा भविष्यसि ॥ 3.33.8 ॥
उक्तमेवार्थं पुनरपि प्रलपति रावणस्याग्रहोत्पादनाय त्वमित्यादिना । बालस्येव स्वभावो विवेकशून्यत्वं यस्य स तथा । बुद्धिहीनः विवेकहेतुर्बुद्धिः तया हीनः ॥ 3.33.8 ॥
येषां चारश्च कोशश्च नयश्च जयतां वर ।
अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः ॥ 3.33.9 ॥
स्वपरराष्ट्रकार्याकार्यज्ञापकश्चारः । कोशो धनसमृद्धिः । नयो नीतिः । प्राकृतैर्जनैः साधारणैर्जनैः ॥ 3.33.9 ॥
यस्मात् पश्यन्ति दूरस्थान् सर्वानर्थान्नराधिपाः ।
चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः ॥ 3.33.10 ॥
चारप्रयोजनमाह यस्मादिति ॥ 3.33.10 ॥
अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम् ।
स्वजनं तु जनस्थानं हतं यो नावबिद्ध्यसे ॥ 3.33.11 ॥
चतुर्दश सहस्राणि रक्षसां क्रूरकर्मणाम् ।
हतान्येकेन रामेण खरश्च सहदूषणः ॥ 3.33.12 ॥
एवं लोकरीत्योक्तं रावणे उपसंहरति अयुक्तेत्यादिना । जनस्थानं जनस्थानस्थम् ॥
3.33.11,12 ॥
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ।
धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा ॥ 3.33.13 ॥
स्वजनवधादपि दुःसहं कार्यान्तरमाह ऋषीणामिति ॥ 3.33.13 ॥
त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावण ।
विषये स्वे समुत्पन्नं भयं यो नावबुद्ध्यसे ॥ 3.33.14 ॥
लुब्धः चारादीनामभिमताप्रदाता ॥ 3.33.14 ॥
तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम् ।
व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् ॥ 3.33.15 ॥
तीक्ष्णं क्रूरम् । शठं गूढविप्रियकारिणम् । व्यसने व्यसनकाले । सर्वभूतानि भृत्यामात्यादीनि । नाभिधावन्ति तद्रक्षणाय न प्रवर्तन्ते ॥ 3.33.15 ॥
अतिमानिनमग्राह्यमात्मसम्भावितं नरम् ।
क्रोधिनं व्यसने हन्ति स्वजनो ऽपि महीपतिम् ॥ 3.33.16 ॥
अग्राह्यं सद्भिरिति शेषः । आत्मना स्वेनैव बहुमानं प्राप्तः सोयमात्मसम्भावितः तम् । क्रोधिनम् अस्थाने क्रोधवन्तम् । व्यसने व्यसनकाले । स्वजनो ऽपि अमात्यादिरपि ॥ 3.33.16 ॥
नानुतिष्ठति कार्याणि भयेषु न बिभेति च ।
क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भविष्यति ॥ 3.33.17 ॥
शुष्कैः काष्ठैर्भवेत् कार्यं लोष्ठैरपि च पांसुभिः ।
न तु स्थानात् परिभ्रष्टैः कार्यं स्याद्वसुधाधिपैः ॥ 3.33.18 ॥
भयेषु भयहेतुषु । न बिभेति साशङ्को न वर्तत इत्यर्थः ॥ 3.33.17,18 ॥
उपभुक्तं यथा वासस्स्रजो वा मृदिता यथा ।
एवं राज्यात् परिभ्रष्टः समर्थो ऽपि निरर्थकः ॥ 3.33.19 ॥
उपभुक्तवस्त्रादिदृष्टान्तः परेषामयोग्यत्वप्रदर्शनाय ॥ 3.33.19 ॥
अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः ।
कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ॥ 3.33.20 ॥
चिरं तिष्ठत इत्यत्र आर्षमात्मनेपदम् ॥ 3.33.20 ॥
नयनाभ्यां प्रसुप्तोपि जागर्ति नयचक्षुषा ।
व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः ॥ 3.33.21 ॥
जागार्ति अप्रमत्तो भवतीत्यर्थः ॥ 3.33.21 ॥
त्वं तु रावण दुर्बुद्धिर्गुणैरेतैर्विवर्जितः ।
यस्य ते ऽविदितश्चारै रक्षसां समुहान् वधः ॥ 3.33.22 ॥
यस्य ते येन त्वया । अविदित इति छेदः ॥ 3.33.22 ॥
परावमन्ता विषयेषु सङ्गतो नदेशकालप्रविभागतत्त्ववित् ।
अयुक्तबुद्धिर्गुणदोषनिश्चये विपन्नराज्यो न चिराद्विपत्स्यसे ॥ 3.33.23 ॥
इति स्वदोषान् परिकीर्तितांस्तया समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः ।
धनेन दर्पेण बलेन चान्वितो विचिन्तयामास चिरं स रावणः ॥ 3.33.24 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयस्त्रिंशः सर्गः ॥ 33 ॥
सर्गार्थमेकेन सङ्गृह्णाति परेति । परावमन्ता शत्रुषु उपेक्षावान् । विषयेषु शब्दादिषु । सङ्गतः सङ्गवान् । नदेशकालप्रविभागतत्त्वविदित्येकं पदम् । नगनैकादिवन्न समासः । देशकालभेदातत्त्वज्ञ इत्यर्थः । गुणदोषनिश्चये विषये अयुक्तबुद्धिः अनियोजितबुद्धिः, अप्रवृत्तबुद्धिरित्यर्थः । न चिरात् क्षिप्रम् । विपत्स्यसे आपदं प्राप्स्यसीत्यर्थः । त्वमिति शेषः ॥ 3.33.23,24 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ॥ 33 ॥