०३२ बलस्तुतिः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वात्रिशं सर्गः

ततः शूर्पणखी दृष्ट्वा सहस्राणि चतुर्दश ।

हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ॥ 3.32.1 ॥

दूषणं च खरं चैव हतं त्रिशिरसा सह ।

दृष्ट्वा पुनर्महानादं ननाद जलदो यथा ॥ 3.32.2 ॥

तपोबाहुबलोपेतं सर्वभूतभयङ्करम् । यो हनिष्यति दुर्बुद्धिं रावणं सो ऽस्तु मे मुदे ॥ तत इति । शूर्पणखीत्यार्षो ङीषादिः । महानादमिति क्रियाविशेषणम् ॥ 3.32.1,2 ॥

सा दृष्ट्वा कर्म रामस्य कृतमन्यै सुदुष्करम् ।

जगाम परमोद्विग्ना लङ्कां रावणपालिताम् ॥ 3.32.3 ॥

कृतं कर्म पर्याप्तं कर्म । परमोद्विग्ना अत्यन्तभीता ॥ 3.32.3 ॥

सा ददर्श विमानाग्रे रावणं दीप्ततेजसम् ।

उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम् ॥ 3.32.4 ॥

विमानाग्रे पुष्पकविमानाग्रे । उपोपविष्टम् उपोपेत्येकनिपातः । उपनिविष्टमित्यर्थः । मरूद्भिः देवैः ॥ 3.32.4 ॥

आसीनं सूर्यसङ्काशे काञ्चने परमासने ।

रूक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम् ॥ 3.32.5 ॥

देवगन्धर्वभूतानामृषीणां च महात्मनाम् ।

अजेयं समरे शूरं व्यात्ताननमिवान्तकम् ॥ 3.32.6 ॥

रुक्मवेदिगतं हिरण्येष्टकाचितवेदिगतम् । तदुक्तमापस्तम्बेन “सावित्रं स्वर्गकामश्चिन्वीत पञ्चाशीतिशतं हिरण्येष्टकाः” इत्यादिना । प्रभूतमाज्यं यस्य तं प्राज्यम्, प्रभातेनाज्येन वर्धितमित्यर्थः । अत एव ज्वलन्तम् ॥ 3.32.5,6 ॥

देवासुरविमर्देषु वज्राशनिकृतव्रणम् ।

ऐरावतविषाणाग्रैरुद्घृष्टकिणवक्षसम् ॥ 3.32.7 ॥

विमर्देषु युद्धेषु वज्राशनिकृतव्रणमित्यनेन तदवध्यत्वमुक्तम् । उद्घृष्टम् उल्लेखम् । भावे क्तः । तेन जातो यः किणः तदङ्कितवक्षसम् ॥ 3.32.7 ॥

विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् ।

विशालवक्षसं वीरं राजलक्षणशोभितम् ॥ 3.32.8 ॥

विंशद्भुजं विंशतिभुजम् । दर्शनीयपरिच्छदं दर्शनीयच्छत्त्रचामरादिकम् ॥ 3.32.8 ॥

स्निग्धवैडूर्यसङ्काशं तप्तकाञ्जनकुण्डलम् ।

सुभुजं शुक्लदशनं महास्यं पर्वातोपमम् ॥ 3.32.9 ॥

स्निग्धवैडूर्यैः कान्तियुक्तवैडूर्यरत्नैः आभरणस्थैः सङ्काशं भासमानम् । सुभुजं दीर्घवृत्तभुजम् ॥ 3.32.9 ॥

विष्णुचक्रनिपातैश्च शतशो देवसंयुगे ।

अन्यैः शस्त्रप्रहारैश्च महायुद्धेषु ताडितम् ॥ 3.32.10 ॥

विष्णुचक्रनिपातैरित्यत्र ताडितमित्यनुषज्यते ॥ 3.32.10 ॥

आहताङ्गं समस्तैश्च देवप्रहरणैस्तथा ।

अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् ॥ 3.32.11 ॥

क्षेप्तारं पर्वतेन्द्राणां सुराणां च प्रमर्दनम् ।

उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् ॥ 3.32.12 ॥

क्षोभणं क्षोभकर्तारम् । योक्तारं प्रयोक्तारम् । यज्ञेति । उच्छेत्तारमित्यत्र उच्छास्त्रवर्तित्वमुक्तम् । अत्र परयज्ञध्वंसकत्वम् ॥ 3.32.11,12 ॥

सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा ।

पुरीं भोगवतीं प्राप्य पराजित्य च वासुकिम् ॥ 3.32.13 ॥

भोगवतीं सर्पनगरीं पराजित्य बलात्कृत्येति यावत् ॥ 3.32.13 ॥

तक्षकस्य प्रित्यां भार्यां पराजित्य जहार यः ।

कैलासपर्वतं गत्वा विजित्य नरवाहनम् ॥ 3.32.14 ॥

नरवाहनं कुबेरम् ॥ 3.32.14. ॥

विमानं पुष्पकं तस्य कामगं वै जहार यः ।

वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् ॥ 3.32.15 ॥

नलिनीं कुबेरस्य पुष्करिणीम् । नन्दनं वनम् इन्द्रोद्यानं देवोद्यानानि नन्दनवनादन्यानि ॥ 3.32.15 ॥

विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यावान् ।

चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परन्तपौ ॥ 3.32.16 ॥

उत्तिष्ठन्तौ उद्यन्तौ ॥ 3.32.16 ॥

निवारयति बाहुभ्यां यः शैलशिखरोपमः ।

दशवर्षसहस्राणि तपस्तप्त्वा महावने ॥ 3.32.17 ॥

उपजहार पूजोपकरणानि चकार ॥ 3.32.17 ॥

पुरा स्वयम्भुवे धीरः शिरांस्युपजहार यः ।

देवदानवगन्धर्वपिशाचपतगोरगैः ॥ 3.32.18 ॥

अभयं यस्य सङ्ग्रमे मृत्युतो मानुषादृते ।

मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः ॥ 3.32.19 ॥

हविर्धानेषु यः सोममुपहन्ति महाबलः ।

आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम् ॥ 3.32.20 ॥

देवदानवेति देवादिभिः कर्तृभिः । मृत्युतः मृत्योः । षष्ठ्यर्थे तसिः । अभयं भयाभावः अस्तीति गम्यमानत्वादप्रयोगः । मनुष्यादृते मनुष्यं विना, मनुष्यात्तु भयमस्तीत्यर्थः । अध्वरेषु यागेषु हविर्धानेषु सोमाभिषवशालासु । मन्त्रैः प्रातरनुवाकग्रावस्तोत्रादिभिः करणैः । द्विजातिभिः कर्तृभिः । अभिष्टुतं क्षरितं सोमम् उपहन्ति होमकाले नाशयतीत्यर्थः । आप्तयज्ञहरम् आप्तान् दक्षिणाकालं प्राप्तान् यज्ञान् हरतीति तथा ॥ 3.32.1820 ॥

कर्कशं निरनुक्रोशं प्रजानामहिते रतम् ।

रावणं सर्वभूतानां सर्वलोकभयावहम् ।

राक्षसी भ्रातरं शूरं सा ददर्श महाबलम् ॥ 3.32.21 ॥

कर्कशं निर्दाक्षिण्यम् । निरनुक्रोशं निर्दयम् । रावणं रावकं सा ददर्श महाबलमित्युपसंहारः, अतो न सर्गादिस्थेन ददर्शेतिपदेन पौनरुक्त्यम् ॥ 3.32.21 ॥

तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् ।

आसने सूपविष्टं च कालकालमिवोद्यतम् ॥ 3.32.22 ॥

कालकालं मृत्योपरि मृत्युम् । उद्यतम् उद्युक्तम् ॥ 3.32.22 ॥

राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम् ।

रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम् ॥ 3.32.23 ॥

अभिगम्याब्रवीद्वाक्यं राक्षसी भयविह्वला ॥ 3.32.24 ॥

पौलस्त्यानां कुलं नन्दयतीति तथा ॥ 3.32.23,24 ॥

तमब्रवीद्दीप्तविशाललोचनं प्रदर्शयित्वा भयमोहमूर्च्छिता ।

सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता ॥ 3.32.25 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वात्रिशं सर्गः ॥ 32 ॥

पुनः सर्गान्ते सङ्ग्रहश्लोकः तमिति । प्रदर्शयित्वा स्वकं वैरूप्यमिति शेषः । विरूपितेत्युक्तेः अभीततया सर्वपुरुषेषु सर्वलोके चारो ऽस्या अस्तीति सा ॥ 3.32.25 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ 32 ॥