श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकत्रिंशः सर्गः
त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः ।
प्रविश्य लङ्कां वेगेने रावणं वाक्यमब्रवीत् ॥ 3.31.1 ॥
एवं शरणागतिमन्त्रविवरणरूपे श्रीरामायणे इयता गन्थसन्दर्भेण उत्तरखण्डार्थो विवृतः । अनुष्ठानदशायां हि प्रथमखण्डार्थस्य प्राथम्यम्, व्युत्पत्तिदशायां तु उत्तरखण्डार्थस्य फलानुसारेणोपायप्रवृत्तेः, अतो द्वितीयखण्डार्थः प्रथमं विवृतः । तत्र बालकाण्डे प्रथमपदार्थभूतपुरुषकारयोगो दर्शितः, अयोध्याकाण्डे द्वितीयपदार्थभूतसौलभ्यादिगुणयोगः, आरण्यकाण्डे शूर्पणखागमनात्पूर्वभाविवृत्तान्तेन चतुर्थ्यर्थभूता किङ्खरवृत्तिरुक्ता, ततः खरवधान्तवृत्तान्तेन चरमपदार्थभूता विरोधिनिवृत्तिरिति । अथ पूर्वखण्डार्थ उच्यते शास्त्रशेषेण । तत्र चारण्यकाण्डशेषेण विभीषणस्य पुरुषकारसान्निध्यमुच्यते, किष्किन्धाकाण्डेन नारायणपदार्थभूतं वात्सल्यम्, सुन्दरकाण्डेन चरमशब्दोक्तदिव्यमङ्गलविग्रहवैशिष्ट्यम् “रामः कमलपत्त्राक्षः” इत्यादिना तथोक्तेः । युद्धकाण्डे शरणगतिः, उत्तरकाण्डे प्रपन्नचर्येति बोध्यम् । एवमानुषङ्गिकमुनिजनशरणागतिफलं देवशरणागतिकार्यरावणवधाङ्गत्वेनोक्त्वा अथ तन्निमित्तभूतसीतापहाररूपबीजमुपक्षिपति त्वरमाण इत्यादिना । संहृत्य सकलं लोकं पुनः स्रष्टुं च यः क्षमः । तमहं शिरसा वन्दे जानकीप्राणनायकम् ॥ त्वरमाणः शूर्पणखागमनापेक्षयेति शेषः । अकम्पनो रावणचारः त्वरमाणो गत्वा वेगेनाब्रवीदित्यन्वयः ॥ 3.31.1 ॥
जनस्थानस्थिता राजन् राक्षसा बहवो हताः ।
खरश्च निहतः सङ्ख्ये कथञ्चिदहमागतः ॥ 3.31.2 ॥
जनस्थानेति । कथञ्चिदिति स्त्रीवेषधारणेनेति भावः । अत एव शूर्पणखा वक्ष्यति “एका कथञ्चिन्मुक्ताहं परिभूय महात्मना । स्त्रीवधं शङ्कमानेन राघवेण महात्मना ॥” इति ॥ 3.31.2 ॥
एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः ।
अकम्पनमुवाचेदं निर्दहन्निव चक्षुषा ॥ 3.31.3 ॥
एवमिति । क्रुद्धत्वं नारोपितमिति ज्ञापयितुं संरक्तलोचन इत्युक्तम् । कोपातिरेकं दृष्टान्तमुखेनाह निर्दहन्निवेति ॥ 3.31.3 ॥
केन रम्यं जनस्थानं हतं मम परासुना ।
को हि सर्वेषु लोकेषु गतिं चाधिगमिष्यति ॥ 3.31.4 ॥
न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम् ।
प्राप्तुं वैश्रवणेना ऽपि न यमेन न विष्णुना ॥ 3.31.5 ॥
केनेति । परा गताः असवः प्राणाः यस्य तेन परासुनेति परुषभाषणमात्रम् । गम्यत इति गतिः स्थानम् ॥ 3.31.4,5 ॥
कालस्य चाप्यहं कालो दहेयमपि पावकम् ।
मृत्युं मरणधर्मेण संयोजयितुमुत्सहे ॥ 3.31.6 ॥
कालस्यापि काल इत्यत्रोपपत्तिमाह मृत्युमिति ॥ 3.31.6 ॥
दहेयमपि सङ्क्रुद्धस्तेजसादित्यपावकौ ।
वातस्य तरसा वेगं निहन्तुमहमुत्सहे ॥ 3.31.7 ॥
आदित्यपावकौ परस्परसाहाय्येन संयुक्तावपीत्यर्थः । अतो न पुनरुक्तिः ॥ 3.31.7 ॥
तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः ।
भयात् सन्दिग्धया वाचा रावणं याचते ऽभयम् ॥ 3.31.8 ॥
दशग्रीवो ऽभयं तस्मै प्रददौ रक्षसां वरः ।
स विश्रब्धो ऽब्रवीद्वाक्यमसन्दिग्धमकम्पनः ॥ 3.31.9 ॥
पुत्रो दशरथस्या ऽस्ति सिंहसंहननो युवा ।
रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः ॥ 3.31.10 ॥
वीरः पृथुयशाः श्रीमानतुल्यबलविक्रमः ।
हतं तेन जनस्थानं खरश्च सहदूषणः ॥ 3.31.11 ॥
सन्दिग्धया सन्दिग्धाक्षरया । याचते अयाचत । अभयमिति च्छेदः ॥ 3.31.811 ॥
अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः ।
नागेन्द्र इव निःश्वस्य वचनं चेदमब्रवीत् ॥ 3.31.12 ॥
नागेन्द्रः सर्पेन्द्रः ॥ 3.31.12 ॥
स सुरेन्द्रेण सुंयुक्तो रामः सर्वामरैः सह ।
उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन ॥ 3.31.13 ॥
रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः ।
आचचक्षे बलं तस्य विक्रमं च महात्मनः ॥ 3.31.14 ॥
स रामः सुरेन्द्रेणामरैश्च युक्ताः सन् जनस्थानमुपयातः कच्चित्? अन्यथा तस्यैतादृशसामर्थ्यं न युज्यत इति भावः ॥ 3.31.13,14 ॥
रामो नाम महातेजाः श्रेष्ठः सर्वधनुष्मताम् ।
दिव्यास्त्रगुणसम्पन्नः पुरन्दरसमो युधि ॥ 3.31.15 ॥
इन्द्रादिसहायानपेक्षो राम इत्याशयेनाह रामो नामेत्यादिना । दिव्यास्त्रगुणसम्पन्नः दिव्यास्त्रकृतातिशययुक्तः ॥ 3.31.15 ॥
तस्यानुरूपो बलवान् रक्ताक्षो दुन्दुभिस्वनः ।
कनीयान् लक्ष्मणो नाम भ्राता शशिनिभाननः ॥ 3.31.16 ॥
स तेन सह संयुक्तः पावकेनानिलो यथा ।
श्रीमान् राजवरस्तेन जनस्थानं निपातितम् ॥ 3.31.17 ॥
तस्येति । रक्ताक्षः रक्तरेखाञ्चितनयनः । दुन्दुभिस्वनः दुन्दुभिवत् गम्भीरस्वनः । संयुक्त इति वर्तत इति शेषः ॥ 3.31.16,17 ॥
नैव देवा महात्मानो नात्र कार्या विचारणा ॥ 3.31.18 ॥
नैव देवा इति सहायार्थमागता इति शेषः ॥ 3.31.18 ॥
शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्ित्रणः ।
सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान् ॥ 3.31.19 ॥
पञ्चाननाः विस्तृतानना भूत्वा भक्षयन्ति स्मेत्युत्प्रेक्षा ॥ 3.31.19 ॥
येन येन च गच्छन्ति राक्षसा भयकर्शिताः ।
तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम् ।
इत्थं विनाशितं तेन जनस्थानं तवानघ ॥ 3.31.20 ॥
अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत् ।
जनस्थानं गमिष्यामि हन्तुं रामं सलक्ष्मणम् ॥ 3.31.21 ॥
राक्षसाः भयकर्शिताः भयपीडिताः सन्तो येन येन मार्गेण गच्छन्ति तेन तेन मार्गेणाग्रतः स्थितं राममेव पश्यन्ति स्म । अत्र विशेषणसामर्थ्याद्रामदर्शनं भयकृतमिति व्यज्यते ॥ 3.31.20,21 ॥
अथैवमुक्ते वचने प्रोवाचेदमकम्पनः ।
शृणु राजन् यथावृत्तं रामस्य बलपौरुषम् ॥ 3.31.22 ॥
अथेति । यथावृत्तं परमार्थभूतमित्यर्थः ॥ 3.31.22 ॥
असाध्यः कुपितो रामो विक्रमेण महायशाः ।
आपगायाः सुपूर्णाया वेगं परिहरेच्छरैः ॥ 3.31.23 ॥
असाध्यः अनिग्राह्यः ॥ 3.31.23 ॥
सताराग्रहनक्षत्रं नभश्चाप्यवसादयेत् ।
असौ रामस्तु मज्जन्तीं श्रीमानभ्युद्धरेन्महीम् ॥ 3.31.24 ॥
सतारेति । ग्रहा नवग्रहाः । नक्षत्राणि सप्तविंशतिनक्षत्राणि । तारास्तदन्यज्योतींषि । अवसादयेत् विशीर्णं कुर्यात् । मज्जन्तीं समुद्र इति शेषः ॥ 3.31.24 ॥
भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद्विभुः ।
वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः ॥ 3.31.25 ॥
भित्त्वेति । विप्लावयेत् सिञ्चेत् । विधमेत् दहेत् । “घ्मा शब्दाग्निसंयोगयोः” इति धातोर्लिङि धमादेशः ॥ 3.31.25 ॥
संहृत्य वा पुनर्लोकान् विक्रमेण महायशाः ।
शक्तः स पुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः ॥ 3.31.26 ॥
सहृंत्येति । लोकान् भूरादीन् संहृत्य पुनः स्रष्टुं इमाः प्रजाश्च संहृत्य पुनः स्रष्टुं शक्त इत्यर्थः ॥ 3.31.26 ॥
न हि रामो दशग्रीव शक्यो चेतुं त्वया युधि ।
रक्षसां वापि लोकेन स्वर्गः पापजनैरिव ॥ 3.31.27 ॥
लोकेन समूहेन ॥ 3.31.27 ॥
न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि ।
अयं तस्य वधोपायस्तं ममैकमनाः शृणु ॥ 3.31.28 ॥
न तमिति । मम मत्तः । एकमनाः सावधानः ॥ 3.31.28 ॥
भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा ।
श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता ॥ 3.31.29 ॥
भार्येति । “श्यामा यौवनमध्यस्था” इत्युत्पलः । समं यथा तथा विभक्तानि नेत्रकर्णाद्यङ्गानि यस्याः सा तथोक्ता । स्त्रीरत्नं स्त्रीश्रेष्ठा, अस्तीति शेषः ॥ 3.31.29 ॥
नैव देवी न गन्धर्वी नाप्सरा नापि दानवी ।
तुल्या सीमन्तिनी तस्या मानुषीषु कुतो भवेत् ॥ 3.31.30 ॥
देवी देवस्त्री । “पुंयोगादाख्यायाम्” इति ङीष् । एवमुत्तरत्रापि । अप्सरः शब्दः
एकवचनान्तोप्यस्ति । सीमन्तिनी स्त्री ॥ 3.31.30 ॥
तस्यापहर भार्यां त्वं प्रमथ्य तु महावने ।
सीतया रहितः कामी रामो हास्यति जीवितम् ॥ 3.31.31 ॥
महावने प्रमथ्य विलोड्य येन केनाप्युपायेन रामं वञ्चयेत्यर्थः ॥ 3.31.31 ॥
अरोचयत तद्वाक्यं रावणो राक्षसाधिपः ।
चिन्तयित्वा महाबाहुरकम्पनमुवाच ह ॥ 3.31.32 ॥
चिन्तयित्वा रामोच्चाटनोपायमिति शेषः ॥ 3.31.32 ॥
बाढं काल्यं गमिष्यामि ह्येकः सारथिना सह ।
आनयिष्यामि वैदेहीमिमां हृष्टो महापुरीम् ॥ 3.31.33 ॥
बाढमित्यङ्गीकारे । काल्यं प्रातः ॥ 3.31.33 ॥
अथैवमुक्त्वा प्रययौ खरयुक्तेन रावणः ।
रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन् ॥ 3.31.34 ॥
खराः अश्वतराः । तत्स्वरूपमुक्तमश्वशास्त्रे “अश्वसृग्भ्यः समुत्पन्नास्तस्मादश्वतराः खराः । खररूक्षस्वरास्तीक्ष्णाः खरशीलाः खराङ्घ्रयः ॥” इति ॥ 3.31.34 ॥
स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान् ।
सञ्चार्यमाणः शुशुभे जलदे चन्द्रमा इव ॥ 3.31.35 ॥
नक्षत्रपथगः आकाशगः । सञ्चार्यमाणः प्रेर्यमाणः ॥ 3.31.35 ॥
स मारीचाश्रमं प्राप्य ताटकेयमुपागमत् ।
मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः ॥ 3.31.36 ॥
ताटकेयं ताटकापुत्रम् । भक्ष्यभोज्यैः पेयखाद्यैः । आमानुषैः मनुष्यलोकदुर्लभैः ॥ 3.31.36 ॥
तं स्वयं पूजयित्वा तु आसनेनोदकेन च ।
अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥ 3.31.37 ॥
अर्थोपहितया अर्थेन प्रयोजनेन उपहितया विशिष्टया ॥ 3.31.37 ॥
कच्चित् सुकुशलं राजन् लोकानां राक्षसेश्वर ।
आशङ्के नाथ जाने त्वं यतस्तूर्णमिहागतः ॥ 3.31.38 ॥
हे राजन् लोकानां राक्षसलोकानां राक्षसेश्वरेति समभिव्याहारादयमर्थो लभ्यते । सुकुशलं कच्चिदिति सामान्येन प्रश्नः । अथ अथवा त्वं यस्तूर्णमिहागतः ततः कारणात् किञ्चिदत्याहितमस्तीत्याशङ्के, तद्विशिष्य न जाने महत्कार्यं विना भवतस्तूर्णमागमनं नोपपद्यत इति भावः । यद्वा लोकानां कच्चित् सुकुशलम् अथ अथवा तेषां कुशलं नेत्याशङ्के यतस्त्वं तूर्णमागतः न जाने तद्विशिष्य न जान इत्यर्थः ॥ 3.31.38 ॥
एवमुक्तो महातेजा मारीचेन स रावणः ।
ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ॥ 3.31.39 ॥
एवमुक्त इति । ततः पश्चात् तद्वाक्यादनन्तरम् ॥ 3.31.39 ॥
आरक्षो मे हतस्तात रामेणाक्लिष्टकर्मणा ।
जनस्थानमवध्यं तत् सर्वं युधि निपातितम् ।
तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे ॥ 3.31.40 ॥
राक्षसेन्द्रवचः श्रुत्वा मारीचो वाक्यमब्रवीत् ॥ 3.31.41 ॥
आरक्षः अन्तपालः । उक्तमुपपादयति जनस्थानमित्याद्यर्धेन । जनस्थानशब्देन तत्स्थो रक्षोगणो लक्ष्यते । तत् प्रसिद्धम् । साचिव्यं साहाय्यम् । तस्य मे हृतस्वजनस्य मे ॥ 3.31.40,41 ॥
आख्याता केन सीता सा मित्ररूपेण शत्रुणा ।
त्वया राक्षसशार्दूल को न नन्दति निन्दितः ।
सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे ॥ 3.31.42 ॥
आख्यातेत्याद्यर्धत्रयमेकान्वयम् । यः सीतायाः आख्याता स मित्ररूपः शत्रुः । यश्च तामानयेत्युपदेष्टा सः त्वया निन्दितः सन् तिरस्कृतः सन् त्वदैश्वर्यं न नन्दति तावुभौ ब्रूहीत्यर्थः । ब्रवीहीत्यत्र ईडागमश्छान्दसः ॥ 3.31.42 ॥
रक्षोलोकस्य सर्वस्य कः शृङ्गं छेत्तुमिच्छति ।
प्रोत्साहयति कश्चित्त्वां स हि शत्रुरसंशयः ॥ 3.31.43 ॥
रक्षोलोकस्येत्यादि । शृङ्गं प्राधान्यम् । “शृङ्गं प्राधान्यसान्वोश्च” इत्यमरः । प्रोत्साहयति सीतानयनं प्रतीति शेषः । स च स एव ॥ 3.31.43 ॥
आशीविषमुखाद्दंष्ट्रामुद्धुर्तुं चेच्छति त्वया ।
कर्मणा तेन केना ऽसि कापथं प्रतिपादितः ॥ 3.31.44 ॥
सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि ॥ 3.31.45 ॥
आशीविषेति । आशीविषः सर्पविशेषः । उद्धर्तुम् उद्धारयितुं क इति शेषः । तेन कर्मणा सीतापहारलक्षणकर्मणा । कापथं कुमार्गम् । “ऋक्पूरब्धूः पथामानक्षे” इति समासान्तः अप्रत्ययः । प्रतिपादितः उपदिष्टो ऽसि । कर्मणा केनेति पाठे केन पुरुषेण केन कर्मणा केनोपायेन कापथं प्रतिपादितो ऽसीत्यन्वयः । मूर्ध्नि केन प्रहृतं केन प्रहारः कृतः । वृथैव केन दुःखमुत्पादितमित्यर्थः ॥ 3.31.44,45 ॥
विशुद्धवंशाभिजनाग्रहस्तस्तेजोमदः संस्थितदोर्विषाणः ।
उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती ॥ 3.31.46 ॥
रामे कं गुणं दृष्ट्वैवं वदसीत्याशङ्क्याह विशुद्धेति । अनेन रामस्य मत्तगजसमाधिरुच्यते । विशुद्धवंशे अभिजनः अभिजननं तदेवाग्रहस्तो यस्य स तथा । द्वयोरौन्नत्यकरत्वसाम्याद्रूपकं निरूढम् । तेजोमदः तेजः प्रताप एव मदो यस्य सः । तेजोमदयोर्दुर्धर्षताहेतुत्वसाम्याद्रूपकोपपत्तिः ।
उपरितनपदे संस्थितत्वसाम्याद्रूपकम् । संस्थितौ समीचीनसंस्थानवन्तौ दोषौ बाहू एव विषाणे यस्य सः राघव एव गन्धहस्ती मदगजः यस्य गन्धमात्रेणान्ये गजाः पलायन्ते स गन्धहस्तीत्युच्यते । उदीक्षितुमपि इहास्मिन् देशे काले च नयुक्तः ॥ 3.31.46 ॥
असौ रणान्तस्थितिसन्धिवालो विदग्धरक्षोमृगहा नृसिंहः ।
सुप्तस्त्वया बोधयितुं न युक्तः शराङ्गपूर्णो निशितासिदंष्ट्रः ॥ 3.31.47 ॥
पुनरप्यतिशयं वक्तुं रामस्य सिंहसाम्यमाह असाविति । रणान्तो रणाग्रं तत्र स्थितिर्नासीरावस्थानं सैव सन्धिवालो यस्य स तथा सन्दधातीति सन्धिः । “उपसर्गे घोः किः” इति किः । सन्धिभूतः लोमसङ्घभूत इत्यर्थः । वालो लाङ्गूलम् । यद्वा सन्धिर्मध्यः तद्गतो वालो लाङ्गूलं यस्य स तथेति वा । सिंहस्य लाङ्गूलं क्रोधदशायां मध्योपरिप्रदेशे वर्तते इति प्रसिद्धः । तस्य मृगाणां गर्वहेतुत्वेन रणाग्रस्थितिसाम्यम् । विदग्धानि पटूनि रक्षांस्येव मृगाः तान् हन्तीति तथा ब्रह्मादिव्यतिरिक्तेप्युपपदे प्रयोगानुसारात् क्किपि । शराङ्गपूर्णः शरा एवाङ्गानि नखाद्यवयवाः तैः पूर्णः । निशितासिरेव दंष्ट्रे यस्य स तथा नृसिंहो नरश्रेष्ठः सिंह इत्यपि ध्वन्यते । यद्वा नृसिंह एव सिंह इत्येकशेषः । यद्वा विद्वन्मानसहंस इतिवत् श्लिष्टं रूपकम् । यद्वा नृहिंहो रामः पुरुषसिंह इति व्यङ्ग्यम् ॥ 3.31.47 ॥
चापावहारे भुजवेगपङ्के शरोर्मिमाले सुमहाहवौघे ।
न रामपातालमुखे ऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम् ॥ 3.31.48 ॥
सिंहाभिमुखगमने ऽपि दैवादृष्टिवैषम्यान्निवर्तितुं शक्यम् न तु रामाहवगमन इत्याशयेन रामस्य पातालसाम्यमाह चापेति । चाप एवावहारो ग्राहो यस्मिन् स तथा । “ग्राहो ऽवहारः” इत्यमरः । अनेन पतनकाल एव ग्रहणसामग्र्युक्ता । भुजवेगः शरमोक्षणवेगः स एव पङ्को यस्य स तथा अनेन मज्जने निर्गमायोग्यतोक्ता । शरा एवोर्मिमाला तरङ्गपङ्किर्यस्य स तथा । अनेन दुस्तरत्वमुक्तम् । अतिघोरे राम एव पातालं महाबिलं तस्य मुखे मध्ये प्रस्कन्दितुं युक्तम् ॥ 3.31.48 ॥
प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां प्रसन्नो भव साधु गच्छ ।
त्वं स्वेषु दारेषु रमस्व नित्यं रामः सभार्यो रमतां वनेषु ॥ 3.31.49 ॥
एवमुक्तो दशग्रीवो मारीचेन स रावणः ।
न्यवर्तत पुरीं लङ्कां विवेश च गृहोत्तमम् ॥ 3.31.50 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकत्रिंशः सर्गः ॥ 31 ॥
एवं वस्तुस्थितिमुक्त्वा प्रेमातिशयेन पुनः पुनः सान्त्वयति प्रसीदेति ॥ 3.31.49,50 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ 31 ॥