०३० खरवधः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिंशः सर्गः

भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः ।

स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ॥ 3.30.1 ॥

एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम ।

शक्तिहीनतरो मत्तो वृथा त्वमवगर्जसि ॥ 3.30.2 ॥

निरस्तनिखिलालम्बमहङ्कारमिव स्थितम् । खरं निहत्य साधूनां सुखावहमहं भजे ॥ भित्त्वा त्वित्यादि । धर्मवत्सल इत्यनेन निरायुधवधो ऽनुचित इति श्रीरामो ऽमन्यतेति गम्यते । स्मयमानः परिहसन्नित्यर्थः । संरब्धं भ्रान्तमिति खरविशेषणम् । “संरम्भः सम्भ्रमे कोपे” इत्यमरः ॥ 3.30.1,2 ॥

एषा बाणविनिर्भिन्ना गदा भूमितलं गता ।

अभिधानप्रगल्भस्य तव प्रत्यरिघातिनी ॥ 3.30.3 ॥

यत्त्वयोक्तं विनष्टानामहमश्रुप्रमार्जनम् ।

राक्षसानां करोमीति मिथ्या तदपि ते वचः ॥ 3.30.4 ॥

अभिधाने वचसि । प्रगल्भस्य धृष्टस्य । प्रत्यरिघातिनीति वीप्सायां प्रतिः । अरीनरीन् प्रतिघातिनी गदा ॥ 3.30.3,4 ॥

नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः ।

प्राणानपहरिष्यामि गरुत्मानमृतं यथा ॥ 3.30.5 ॥

नीचस्य केवलवाचाटकत्वेन क्षुद्रस्य । क्षुद्रशीलस्य हीनस्वभावस्य । मिथ्यावृत्तस्य असद्वृत्तस्य ॥ 3.30.5 ॥

अद्य ते छिन्नकण्ठस्य फेनबुद्बुदभूषितम् ।

विदारितस्य मद्बाणैर्मही पास्यति शोणितम् ॥ 3.30.6 ॥

फेनबुद्बुदाभ्यां भूषितम् अलङ्कृतम्, अनेन नूतनत्वमुक्तम् । विदारितस्य विदारितोदरस्य ॥ 3.30.6 ॥

पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः ।

स्वप्स्यसे गां समालिङ्ग्य दुर्लभां प्रमदामिव ॥ 3.30.7 ॥

पांसुरूषितेति । रूषितं लिप्तम् । स्रस्तं यथा तथा भुवि भुजद्वयं येन । गां भूमिं समालिङ्ग्येत्यनेनावाग्भूतत्वमुच्यते ॥ 3.30.7 ॥

प्रवृद्धनिद्रे शयिते त्वयि राशक्षसपांसने ।

भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे ॥ 3.30.8 ॥

प्रवृद्धनिद्रे दीर्घनिद्रे । अशरण्यानाम् ऋष्यादीनामगतीनाम् । शरण्याः सुखावासभूताः ॥ 3.30.8 ॥

जनस्थाने हतस्थाने तव राक्षस मच्छरैः ।

निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥ 3.30.9 ॥

हतस्थाने हतराक्षसावस्थानसन्निवेषे ॥ 3.30.9 ॥

अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः ।

बाष्पार्द्रवदना दीना भयादन्यभयावहाः ॥ 3.30.10 ॥

पूर्वमन्यभयावहाः राक्षस्यः अद्य मद्भयात् जनस्थानात् । विप्रसरिष्यन्ति पलायिष्यन्ते ॥ 3.30.10 ॥

अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थकाः ।

अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः ॥ 3.30.11 ॥

अद्येति । यासां त्वमीदृशः पापी पतिः ताः पन्त्यः अनुरूपकुलाः त्वत्सदृशदुर्वृत्ता इत्यर्थः । इतः, पूर्वं शोकानभिज्ञा अपि अद्य शोकरसज्ञाः, निरर्थकाः निर्गतकामपुरुषार्थाः भविष्यन्ति ॥ 3.30.11 ॥

नृशंस नीच क्षुद्रात्मन्नित्यं ब्राह्मणकण्टक ।

यत्कृते शङ्कितैरर्ग्नौ मुनिभिः पात्यते हविः ॥ 3.30.12 ॥

तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे ।

खरो निर्भर्त्सयामास रोषात्खरतरस्वनः ॥ 3.30.13 ॥

ईदृश इत्युक्तं विवृणोति नृशंसेति । नृशंस घातुक नीच वृत्ततो हीन क्षुद्रात्मन् क्षुद्रबुद्धे मुनिभिः यत्कृते यन्निमित्तं शङ्कितैः सद्भिः अग्नौः हविः पात्यते हविर्दानसमये ऽपि किमेतदपहरिष्यन्तीति भीता भवन्तीत्यर्थः ॥ 3.30.12,13 ॥

दृढं खल्ववलिप्तो ऽसि भयेष्वपि च निर्भयः ।

वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुद्ध्यसे ॥ 3.30.14 ॥

अवलिप्तो ऽसि गर्वितो ऽसि । दृढं निश्चितम् । ततः कारणात् । भयेषु भयकारणेषु सत्स्वपि निर्भयो ऽसि । वाच्यं चावाच्यं च वाच्यावाच्यम् “योषां च विरोधः शाश्वतिकः” इति द्वन्दैकवद्भावः । तत् मृत्युवश्यः सन् न बुध्यस इति योजना ॥ 3.30.14 ॥

कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये ।

कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः ॥ 3.30.15 ॥

उक्तमर्थं विशिष्य दर्शयति कालेति । परिक्षिप्ताः बद्धाः निरस्तषडिन्द्रियाः निरस्तषडिन्द्रियव्यापाराः ॥ 3.30.15 ॥

एवमुक्त्वा ततो रामं संरुध्य भ्रुकुटीं ततः ।

स ददर्श महासालमविदूरे निशाचरः ।

रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् ॥ 3.30.16 ॥

भ्रुकुटीं सरुद्ध्य कृत्वेत्यर्थः । प्रहरणस्यार्थे आयुधार्थं सर्वतो ऽवलोकयन् सन्नपि दूरे महासालं ददर्शेत्यन्वयः ॥ 3.30.16 ॥

स तमुत्पाटयामास सन्दश्य दशनच्छदम् ।

तं समुत्क्षिप्य बाहुभ्यां विनद्य च महाबलः ॥ 3.30.17 ॥

राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत् ॥ 3.30.18 ॥

दशनच्छदम् अधरम् । सन्दश्य निपीड्य, अनेन सालस्य दुर्ग्रहत्वमुक्तम् । बाहुभ्यामित्यनेन सालस्थौल्यमुक्तम् । विनद्येत्यादिना जयाशोच्यते ॥ 3.30.17,18 ॥

तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान् ।

रोषमाहारयत्तीव्रं निहन्तुं समरे खरम् ॥ 3.30.19 ॥

रोषमिति सर्वसामग्रीविरहेप्यानुकूल्यलेशाभावादिति भावः ॥ 3.30.19 ॥

जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः ।

निर्बिभेद सहस्रेण बाणानां समरे खरम् ॥ 3.30.20 ॥

जातस्वेद इति रोषाज्जातस्वेदः न तु श्रमात् । रक्तान्तलोचनः रक्तवर्णापाङ्गः ॥ 3.30.20 ॥

तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम् ।

गिरेः प्रस्रवणस्येव तोयधारावरिस्रवः ॥ 3.30.21 ॥

बाणान्तरात् बाणक्षतविवरात् । फेनिलं फेनवत् । प्रस्रवणस्य प्रस्रवणाख्यस्य । परिस्रवः प्रवाहः ॥ 3.30.21 ॥

विह्वलः स कृतो बाणैः खरो रामेण संयुगे ।

मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद्द्रुतम् ॥ 3.30.22 ॥

विह्वलः विक्लवः । रुधिरगन्धेनोपलक्षितः ॥ 3.30.22 ॥

तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम् ।

अपासर्पत् प्रतिपदं किञ्चित्त्वरितविक्रमः ॥ 3.30.23 ॥

तमापतन्तमिति । संरब्धं सम्भ्रान्तं प्रतिपदम् अस्त्रमोचनप्रतिकूलं तं खरं किञ्चिदपासर्पत् पश्चादागतः, तस्मादपासर्पदित्यर्थः । अपसर्पणनिमित्तमाह कृतास्त्र इति । संहितास्त्रत्वात् अस्त्रमोचनावकाशलाभायापासर्पदिति भावः । निमित्तान्तरमाह रुधिराप्लुतमिति । तत्स्पर्शबीभत्सेनापसर्पणमित्यर्थः । यद्यपि रणे किञ्चिदपसर्पणं शूरस्यायुक्तम् तथापि “सर्वतो बलवती ह्यन्यथानुपपत्तिः” इति न्यायेनापसर्पणं विना तत्संहारहेत्वलाभादपसर्पणं न दोष इति हृदयम् ॥ 3.30.23 ॥

ततः पावकसङ्काशं वधाय समरे शरम् ।

खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम् ॥ 3.30.24 ॥

ततः बाणपातावसरलाभात् । ब्रह्मदण्डं ब्रह्मशापम् ॥ 3.30.24 ॥

स तं दत्तं मघवता सुरराजेन धीमता ।

सन्दधे चापि धर्मात्मा मुमोच च खरं प्रति ॥ 3.30.25 ॥

धीमता भावज्ञेन दत्तम्, अगस्त्यमुखेनेति शेषः ॥ 3.30.25 ॥

स विमुक्तो महाबाणो निर्घातसमनिस्वनः ।

रामेण धनुरायम्य खरस्योरसि चापतत् ॥ 3.30.26 ॥

रामेण धनुरायम्य आकृष्य विमुक्तः इत्यन्वयः ॥ 3.30.26 ॥

स पपात खऱो भूमौ दह्यमानः शराग्निना ।

रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथान्तकः ॥ 3.30.27 ॥

स खरः शराग्निना दह्यमानः सन् रुद्रेण रुद्रनेत्राग्निना दग्धो ऽन्तक इव श्वेतारण्ये यथा श्वेतारण्य इव भूमौ पपात ॥ 3.30.27 ॥

स वृत्र इव वज्रेण फेनेन नमुचिर्यथा ।

बलो वेन्द्राशनिहतो निपपात हतः खरः ॥ 3.30.28 ॥

सः रामबाणेन हतः खरः । अमोघबाणहतत्वज्ञापनाय प्रथमो दृष्टान्तः । लीलया हतत्वज्ञापनाय द्वितीयः । समर्थाधिष्ठितत्वज्ञापनाय तृतीयः । आर्द्राच्छुष्काच्चावध्यत्वं नमुचेर्लब्धं तदर्थं फेनेन हतः । बलो वेति वाशब्द इवार्थः । वृत्रादित्रयमिन्द्रेणैव हतम् ॥ 3.30.28 ॥

ततो राजर्षयः सर्वे सङ्गताः परमर्षयः ।

सभाज्य मुदिता राममिदं वचनमब्रुवन् ॥ 3.30.29 ॥

परमर्षयः ब्रह्मर्षयः । सभाज्य सम्पूज्य ॥ 3.30.29 ॥

एतदर्थं महातेजा महेन्द्रः पाकशासनः ।

शरभङ्गाश्रमं पुण्यमाजगाम पुरन्दरः ॥ 3.30.30 ॥

एतदर्थम् एतद्वधाय ॥ 3.30.30 ॥

आनीतस्त्वमिमं देशमुपायेन महर्षिभिः ।

एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम् ॥ 3.30.31 ॥

तदिदं नः कृतं कार्यं त्वया दशरथात्मज ।

सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः ॥ 3.30.32 ॥

इममुपपादयति आनीत इति । उपायेन तत्तदाश्रमदर्शनव्याजेन ॥ 3.30.31,32 ॥

एतस्मिन्नन्तरे देवाश्चारणैः सह सङ्गताः ।

दुन्दुभींश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः ।

रामस्योपरि संहृष्टा ववृषुर्विस्मितास्तदा ॥ 3.30.33 ॥

एतस्मिन्नित्याद्यर्धत्रयमेकान्वयम् ॥ 3.30.33 ॥

अर्धाधिकमुहूर्तेन रामेण निशितैः शरैः ।

चतुर्दशसहस्राणिरक्षसां भीमकर्मणाम् ॥ 3.30.34 ॥

खरदूषणमुख्यानां निहतानि महाहवे ।

अहो बत महत् कर्म रामस्य विदितात्मनः ॥ 3.30.35 ॥

अहो वीर्यमहो दाक्ष्यं विष्णोरिव हि दृश्यते ।

इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम् ॥ 3.30.36 ॥

रामं स्तुवन्ति अर्धेत्यादिना । अर्धाधिकमुहूर्तेन घटिकात्रयेण । दाक्ष्यं सर्वसंहारचातुर्यम् ॥ 3.30.3436 ॥

एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया ।

गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी ॥ 3.30.37 ॥

ततो रामस्तु विजयीपूज्यमानो महर्षिभिः ।

प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः ॥ 3.30.38 ॥

एतस्मिन्निति । अन्तरे अवसरे । गिरिदुर्गात् गिरिदुर्गप्रदेशात् । सुखी रामपराक्रमदर्शनजन्यसन्तोषवान् ॥ 3.30.37,38 ॥

तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् ।

बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥ 3.30.39 ॥

तं दृष्ट्वेति । चतुर्दशसहस्ररक्षोभिरयमेकाकी किं करिष्यतीत्युद्विग्ना सीता रामेण जिते वीरतारतम्याभिज्ञकुलप्रसूततया सबहुमानं परिषस्वज इत्याह । तं दृष्ट्वा पूर्वं महासमरे अदृश्यतया स्थितम् इदानीं दृष्ट्वा । तं दृष्ट्वा वीरव्रणेन विगलद्रुधिरेण रोमकूपोल्लसद्भिरपि घर्मपयःकयणौघैः “कोदण्डदण्डमवलम्ब्य विनीय वर्म किञ्चित्परिश्रमभृतं प्रियमीक्षमाणा ।” इत्युक्तप्रकारं दृष्ट्वा । तं दृष्ट्वा ततोद्ग्रथितजटामण्डलेन दृढबद्धकक्ष्यतया स्कन्धावलम्बितूणीरेण रणावसाननिर्वापितकोपाग्नितया प्रसन्नवदनेन सीतालक्ष्मणमार्गावलोकनेन पुनरपि किमागमिष्यन्ति राक्षसा इति दत्तावधानेन च लक्षितं दृष्ट्वा । तं दृष्ट्वा पूर्वं वीर इति श्रुतम्, इदानीं निर्वर्तितवीरकृत्यं दृष्ट्वा । दर्शनप्रकारमाह शत्रुहन्तारम् । हननव्यापारे कर्मभावः शत्रूणां स्वस्य तु कर्तृभाव एव । हन्तारं हननव्यापार एव दृष्टः न तु शरसन्धानादिव्यापार इत्यर्थः । शत्रुपदेन देवगन्धर्वादिसङ्घे सत्यपि शत्रूनेव हतवानित्युच्यते । दुष्टनिग्रह उक्तः । शिष्ट परिपालनमाह महर्षीणां सुखावहम् । महर्षीणां तपोलेशेन हन्तुं सामर्थ्येपि रक्षकस्वरूपस्य रक्ष्यभूतस्वस्वरूपस्य च हानिर्मा भूदिति केवलं रक्षकव्यापारप्रतीक्षाणां रामप्रतिज्ञामेवावलोकयताम् । सुखावहम् “एहि पश्य शरीराणि” इत्युक्तदुःखगन्धं निवर्त्य सुखस्यैव प्रापकम् । बभूव बहुतरशत्रुगणाक्रमणाद्रामस्यैकाकितया च पूर्वं सत्तारहिता सीता सम्प्रति सत्तां लेभे, जगत्प्राणस्य रामस्य सत्तालाभात् स्वयमपि सत्तामवाप । “आत्मा वै पुरुषस्य दाराः” इत्युक्तरीत्या रामसत्तालाभात् स्वस्या अपि सत्ता जातेति भावः । यद्वा “भू प्राप्तौ” इत्यस्माल्लिटि व्यत्ययेन परस्मैपदम् । भर्तारं विजयिनमालोक्य सरभसं गुहान्तरादागतेत्यर्थः । हृष्टा “सति धर्मिणि धर्माः” इति न्यायेन धर्मिलाभानन्तरं तद्धर्महर्षो ऽभूदित्यर्थः । यद्वा आन्तरप्रीत्यङ्कुरोपमरोमाञ्चाञ्चितेत्यर्थः । एवं शौर्यावलोकनप्रीतत्वे हेतुमाह वैदेही । “मिथिलाधिपतिर्वीरः” इत्युक्तरीत्या वीरकुलप्रसूतत्वादित्यर्थः । भर्तारं परिषस्वजे तादृशनिरवधिकप्रेमभारभरिततया स्वयमालिलिङ्गे । भर्तरं लोकभर्तारं सर्वलोकमातृत्वेन सर्वप्रजारक्षणं दृष्ट्वा परिषस्वजे । आयुधक्षतव्रणेषु सुखोष्णाभ्यां स्तनाभ्यां पस्पर्श । परिषस्वजे पर्याप्तं सस्वजे, पश्चात् पुरस्तात् पार्श्वतश्च पस्पर्शेत्यर्थः । यद्यपि रणे अपलायमानस्य पृष्ठे शरपातप्रसङ्ग एव नास्ति तथापि सर्वतः समावृत्य आयुधप्रक्षेपात् पृष्ठतो ऽपि व्रणसम्भवः बाणानां सम्यक् क्षिप्तानां पृष्ठतो निर्गमो ऽपि सम्भवति । महर्षीणां सुखावहं परिषस्वजे पुत्रविषये स्वभर्त्रोपकारकरणे पुत्रवात्सल्यात् भर्तरि सन्तुष्टा भार्येव ऋषिजनसंरक्षणेन प्रीता परिषस्वजे । रामं विना गुहागता सीता ततो निर्गत्य निरस्तसमस्तशत्रुं रामं पिरषस्वज इत्यनेन हृदयगुहागतो जीवः परतन्त्रः आचार्यमुखेन परमशेषिणं दृष्ट्वा तेन सकलविरोधिवर्गे निवर्तिते ततो निर्गत्य नित्यसूरिपरिषदासीनं शेषिणमासाद्य तद्भोगरिवाहमनुबभूवेति ध्वन्यते ॥ 3.30.39 ॥

मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान् ।

रामं चैवाव्यथं दृष्ट्वा तुतोष जनकात्मजा ॥ 3.30.40 ॥

ततस्तु तं राक्षससङ्घमर्दनं सभाज्यमानं मुदितैर्महर्षिभिः ।

पुनः परिष्वज्य शशिप्रभानना बभूव हृष्टा जनकात्मजा तदा ॥ 3.30.41 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिंशः सर्गः ॥ 30 ॥

उक्तमेवार्थं विशदं दर्शयति द्वाभाम् मुदेत्यादि ॥ 3.30.40,41 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रिंशः सर्गः ॥ 30 ॥