०२८ राम-खरयुद्धम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टाविंशः सर्गः

निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह ।

खरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥ 3.28.1 ॥

महामोहसहायस्य दर्पस्याश्रयनिग्रहम् । व्यङ्क्तुं खरोपकरणं हन्तारं राममाश्रये ॥ निहतमित्यादि । निहतं दूषणं दृष्ट्वा रामस्य विक्रमं च दृष्ट्वा । स्थितस्य खरस्य त्रासो ऽभवदिति योजना ॥ 3.28.1 ॥

स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः ।

हतमेकेन रामेण त्रिशिरोदूषणावपि ॥ 3.28.2 ॥

तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः ।

आससाद खरो रामं नमुचिर्वासवं यथा ॥ 3.28.3 ॥

रक्षसां सम्बन्धि राक्षसम् । त्रिशिरोदूषणौ हतावित्यनुषङ्गः । बलं सैन्यं हतभूयिष्ठं हतप्रवरराक्षसं चतुर्दशसहस्रसङ्ख्याकाः प्रधाना हताः अवशिष्टं सैन्यं प्रेक्ष्यत्यर्थः । विमनाः विगतगर्वावस्थं मनो यस्य स तथा ॥ 3.28.2,3 ॥

विकृष्य बलवच्चापं नाराचान् रक्तभोजनान् ।

खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ॥ 3.28.4 ॥

बलवदत्यन्तं नाराचान् । “प्रक्ष्वेडनास्तु नाराचाः” इत्यमरः । रक्तभोजनानिति रक्तरूषितत्वेन रक्तभोजनत्वव्यपदेशः । आशीविषानिव सर्वानिव स्थितान् ॥ 3.28.4 ॥

ज्यां विधून्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् ।

चकार समरे मार्गान् शरै रथगतः खरः ॥ 3.28.5 ॥

शिक्षया धनुर्वेदशिक्षापाटवेन । ज्यां विधून्वन् अस्त्राणि दर्शयन्, अस्त्रप्रयोगपाटवं दर्शयन्नित्यर्थः । समरे शरैः मार्गान् नानाप्रकारांश्चकार ॥ 3.28.5 ॥

स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः ।

पूरयामास तं दृष्ट्वा रामो ऽपि सुमहद्धनुः ॥ 3.28.6 ॥

स रामो ऽपि तं दृष्ट्वा बाणैः समुहद्धनुः सर्वा दिशः प्रदिशश्च पूरयामासेत्यन्वयः ॥ 3.28.6 ॥

स सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः ।

नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ॥ 3.28.7 ॥

सः रामः अविवरं नीरन्ध्रम् ॥ 3.28.7 ॥

तद्बभूव शितैर्बाणैः खररामविसर्जितैः ।

पर्याकाशमनाकाशं सर्वतः शरसङ्कुलम् ॥ 3.28.8 ॥

पर्याकाशं परितः स्थितमाकाशम्, खररामयोश्चतुःपार्श्ववर्त्याकाशमित्यर्थः । सर्वतः सर्वत्र । अनाकाशम् अनवकाशं बभूव ॥ 3.28.8 ॥

शरजालावृतः सूर्यो न तदा स्म प्रकाशते ।

अन्योन्यवधसंरम्भादुभयोः सम्प्रयुद्ध्यतोः ॥ 3.28.9 ॥

शरजालेति । संरम्भात् कोपात् । “संरम्भः सम्भ्रमे कोपे” इत्यमरः । उभयोः शरजालावृत इत्यन्वयः ॥ 3.28.9 ॥

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।

आजघान खरो रामं तौत्रैरिव महाद्विपम् ॥ 3.28.10 ॥

तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् ।

ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ॥ 3.28.11 ॥

तौत्रैः गजशिक्षणयष्टिभिः ॥ 3.28.10,11 ॥

हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम् ।

परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा ॥ 3.28.12 ॥

हन्तारमिति । खरः सर्वसैन्यहननपरिश्रान्तमपि रामं पौरुषे पर्यवस्थितं महासत्त्वं मेने । यद्वा उक्तविशेषणं रामं परिश्रान्तं मेने ॥ 3.28.12 ॥

तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् ।

दृष्टवा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ॥ 3.28.13 ॥

तम् । नोद्विजने नाचलत् । क्षुद्रमृगं शशम् ॥ 3.28.13 ॥

ततः सूर्यनिकाशेन रथेन महता खरः ।

आससाद रणे रामं पतङ्ग इव पावकम् ॥ 3.28.14 ॥

पतङ्ग इत्यनेन अमृत्वा अनिवृत्तिरुच्यते ॥ 3.28.14 ॥

ततो ऽस्य सशरं चापं मुष्टिदेशे महात्मनः ।

खरश्चिच्छेद रामस्य दर्शयन् पाणिलाघवम् ॥ 3.28.15 ॥

मुष्टिदेशे मुष्टिबन्धनसमीपदेशे । महात्मन इत्यनेन मुष्टिदेशे पततो बाणस्य परिहरणसामर्थ्यं व्यज्यते । लाघवं शैघ्य्रं चिच्छेद रामस्य किञ्चिच्छ्रान्तत्वेनानवधानादितिः भावः ॥ 3.28.15 ॥

स पुनस्त्वपरान् सप्त शरानादाय वर्मणि ।

निजघान खरः क्रुद्धः शक्राशनिसमप्रभान् ॥ 3.28.16 ॥

पाणिलाघवमेवाह स पुनरित्यादिना । वर्मणि निजघान अवदारयति स्म ॥ 3.28.16 ॥

ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः ।

पपात कवचं भूमौ रामस्यादित्यवर्चसः ॥ 3.28.17 ॥

ततः शरसहस्रेण राममप्रितमौजसम् ।

अर्दयित्वा महानादं ननाद समरे खरः ॥ 3.28.18 ॥

आदित्यवर्चस इत्यनेन कवचपतनानन्तरं प्रकाशमानतेजोविशेष उच्यते ॥ 3.28.17,18 ॥

स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः ।

रराज समरे रामो विधूमो ऽग्निरिव ज्वलन् ॥ 3.28.19 ॥

अर्पितः संयुक्तः । विधूम इत्यनेन ज्वालाधिक्यमुच्यते ॥ 3.28.19 ॥

ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः ।

चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥ 3.28.20 ॥

गम्भीरनिर्ह्रादं गम्भीरध्वनिकं धनुः रिपोरन्ताय नाशाय सज्यं चकारेत्यन्वयः ॥ 3.28.20 ॥

सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा ।

वरं तद्धनुरुद्यम्य खरं समभिधावत ॥ 3.28.21 ॥

यत्तदिति प्रसिद्ध्यतिशयवाची । महर्शिणा अगस्त्येन अतिसृष्टं दत्तम् । समभिधावत समभ्यधावत ॥ 3.28.21 ॥

ततः कनकपुङ्खैस्तु शरैः सन्नतपर्वभिः ।

बिभेद रामः सङ्क्रुद्धः खरस्य समरे ध्वजम् ॥ 3.28.22 ॥

सन्नतपर्वभिः ऋजुपर्वभिः ॥ 3.28.22 ॥

स दर्शनीयो बहुधा विकीर्णः काञ्चनध्वजः ।

जगाम धरणीं सूर्यो देवतानामिवाज्ञया ॥ 3.28.23 ॥

स इति । दर्शनीयः रम्यः । आज्ञया शापेन । उत्प्रेक्षेयम् ॥ 3.28.23 ॥

तं चतुर्भिः खरः क्रद्धो रामं गात्रेषु मार्गणैः ।

विव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः ॥ 3.28.24 ॥

स रामो बहुभिर्बाणैः खरकार्मुकनिस्सृतैः ।

विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ॥ 3.28.25 ॥

मातङ्गं गजम् । तोमरैः गजशिक्षादण्डैः । चतुर्भिरित्यत्र वीप्सा बोध्या । बहुभिरित्यनुवादात् ॥ 3.28.24,25 ॥

स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे ।

मुमोच परमेष्वासः षट् शरानभिलक्षितान् ॥ 3.28.26 ॥

स धनुरिति । परमेष्वासः उत्कृष्टशरासनः । अभिलक्षितान् प्रसिद्धान् ॥ 3.28.26 ॥

शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्दयत् ।

त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्ष्यस्यभिजघान ह ॥ 3.28.27 ॥

षण्णां विनियोगप्रकारमाह शिरसीत्यादिना । द्वाभ्यामिति बाह्वोरिति एकैकस्य बाहोरेकैकेनेत्यर्थः । चन्द्रार्धवक्त्रैः अर्धचन्द्राकारमुखैरित्यर्थः ॥ 3.28.27 ॥

ततः पश्चान्महातेजा नाराचान् भास्करोपमान् ।

जिघांसू राक्षसं क्रुद्धस्त्रयोदश समाददे ॥ 3.28.28 ॥

तत इति । त्रयोदश नाराचान् समादद इत्यन्वयः । अन्तिमपादे त्रयोदश शरान् शितानिति पाठे मुमोचेति क्रियाध्याहार्या ॥ 3.28.28 ॥

ततो ऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् ।

षष्ठेन तु शिरः सङ्ख्ये खरस्य रथसारथेः ॥ 3.28.29 ॥

त्रिभिस्त्रिवेणुं बलवान् द्वाभ्यामक्षं महाबलः ।

द्वादशेन तु बाणेन खरस्य सशरं धनुः ॥ 3.28.30 ॥

छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव ।

त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ॥ 3.28.31 ॥

त्रयोदशानां विनियोगमाह ततो ऽस्येत्यादिना । छित्त्वेत्युत्तरत्र स्थिता क्रिया सर्वत्र सम्बध्यते । त्रिवेणुर्नाम रथमुखस्थो युगाधारदण्डः । प्रहसन्निव लीलयेत्यर्थः ॥ 3.28.2931 ॥

प्रभग्नधन्वा विरथो हताश्वो हतसारथिः ।

गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥ 3.28.32 ॥

अवप्लुप्य रथान् समुल्लङ्घ्य ॥ 3.28.32 ॥

तत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च ।

अपूजयन् प्राञ्जलयः प्रहृष्टास्तदा विमानाग्रगताः समेताः ॥ 3.28.33 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टाविंशः सर्गः ॥ 28 ॥

तत्कर्म खरभङ्गकर्म । अपूजयन् अस्तुवन् । समेत्य समूहीभूय । समेताः आगताः ॥ 3.28.33 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टाविंशः सर्गः ॥ 28 ॥