श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तविंशः सर्गः
खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः ।
राक्षसस्त्रिशिरा नाम सन्निपत्येदमब्रवीत् ॥ 3.27.1 ॥
त्रिशिरःशिरसां छेददृष्टान्तेन स्वसेविनाम् । दुःखत्रयनिहन्तारं लक्ष्मणाग्रजमाश्रये ॥ खरं त्विति । वाहिनीपतिः सेनापतिः । सन्निपत्य समीपमागत्येत्यर्थः ॥ 3.27.1 ॥
मां नियोजय विक्रान्त सन्निवर्तस्व साहसात् ।
पश्य रामं महाबाहुं संयुगे विनिपातितम् ॥ 3.27.2 ॥
साहसात् युद्धाभिमुख्यलक्षणात् । विनिपातितमिति मयेति शेषः ॥ 3.27.2 ॥
प्रतिजानामि ते सत्यमायुधं चाहमालभे ।
यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम् ॥ 3.27.3 ॥
आलभे स्पृशामि । प्रतिज्ञाप्रकारमाह यथेति । सर्वरक्षसां सर्वरक्षोभिः ॥ 3.27.3 ॥
अहं वास्य रणे मृत्युरेष वा समरे मम ।
विनिवृत्य रणोत्साहान्मुहूर्तं प्राश्निको भव ॥ 3.27.4 ॥
मृत्युः मारयिता । प्राश्निकः जयापजयनिर्णायकः ॥ 3.27.4 ॥
प्रहृष्टे वा हते रामे जनस्थानं प्रयास्यसि ।
मयि वा निहते रामं संयुगायोपयास्यसि ॥ 3.27.5 ॥
प्रहृष्टे गर्विष्ठे । संयुगाय युद्धं कर्तुम् । “क्रियार्थोपपदस्य च कर्मणि स्थानिनः” इति चतुर्थी ॥ 3.27.5 ॥
खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः ।
गच्छ युद्ध्येत्यनुज्ञातो राघवाभिमुखो ययौ ॥ 3.27.6 ॥
मृत्युलोभात् मृत्युना कृतो लोभो युद्धलोभस्तमात् । प्रसादितः निवर्तित इति यावत् । युद्ध्य युद्धं कुरु । अनुज्ञातः खरेणेति शेषः । त्रिशिरा इति सिद्धम् ॥ 3.27.6 ॥
त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता ।
अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पवर्तः ॥ 3.27.7 ॥
त्रिशिराश्चेति चकारो न समुच्चयार्थः ॥ 3.27.7 ॥
शरधारासमूहान् स महामेघ इवोत्सृजन् ।
व्यसृजत्सदृशं नादं जलार्द्रस्य तु दुन्दुभेः ॥ 3.27.8 ॥
शरा एव धाराः आसाराः तासां समूहान् । जलार्द्रस्येति । दुन्दुभिशब्दः पुंलिङ्गः । “भेरी स्त्री दुन्दुभिः पुमान्” इत्युक्तेः । दुन्दुभेः दुन्दुभिनादस्य । जलार्द्रस्येत्यनेनास्य हीनस्वरत्वमुक्तम् ॥ 3.27.8 ॥
आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः ।
धनुषा प्रतिजग्राह विधून्वन् सायकान् शितान् ॥ 3.27.9 ॥
धनुषा सायकान् विधून्वन् कम्पयन्, मुञ्चन्निति यावत् ॥ 3.27.9 ॥
स सम्प्रहारस्तुमुलो रामत्रिशिरसोर्महान् ।
बभूवातीव बलिनोः सिंहकुञ्जरयोरिव ॥ 3.27.10 ॥
सम्प्रहारो युद्धम् ॥ 3.27.10 ॥
ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः ।
अमर्षी कुपुतो रामः संरब्धमिदमब्रवीत् ॥ 3.27.11 ॥
संरब्धं सकोपमित्यर्थः । लोके कश्चित्कुपितो ऽपि वचनेन कोपं न प्रकटयति, अयं तु प्रकटयतीति भावः ॥ 3.27.11 ॥
अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् ।
पुष्पैरिव शरैर्यस्य ललाटे ऽस्मि परिक्षतः ॥ 3.27.12 ॥
ममापि प्रतिगृह्णीष्व शरांश्चापगुणच्युतान् ।
एवमुक्त्वा तु संरब्धः शरानाशीविषोपमान् ।
त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश ॥ 3.27.13 ॥
अहो इत्यादि व्यङ्ग्योक्तिः । विक्रमः पराभिभवनं तत्र शूरस्य समर्थस्येत्यर्थः । ईदृशमित्यस्यैव विवरणम् पुष्पैरिवेत्यर्धम् । ललाटे स्वललाटे । लालाटे स्वल्पापि क्षतिर्बधिका भवति सापि नास्तीति सूचयितुं पुष्पतौल्यम् । चापगुणः चापमुर्वी । संरब्धः सन्नेवमुक्त्वा क्रुद्धो निजघानेत्यन्वयः ॥ 3.27.12,13 ॥
चतुर्भिस्तुरगानस्य शरैः सन्नतपर्वभिः ।
न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः ॥ 3.27.14 ॥
सन्नतपर्वभिः ऋजुपर्वभिः । वाजिनः वेगवतः ॥ 3.27.14 ॥
अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत् ।
रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् ॥ 3.27.15 ॥
रथोपस्थे रथोपरिभागे ॥ 3.27.15 ॥
ततो हतरथात्तस्मादुत्पतन्तं निशाचरम् ।
बिभेद रामस्तं बाणैर्हृदये सो ऽभवज्जडः ॥ 3.27.16 ॥
सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः ।
शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिः शितैः ॥ 3.27.17 ॥
हतरथात् हतहयसारथिकरथात् । हृदये वक्षसि बिभेदेत्यन्वयः । जडः निश्चेष्टः ॥ 3.27.16,17 ॥
स भूमौ रुधिरोद्गारी रामबाणाभिपीडितः ।
न्यपतत् पतितैः पूर्वं स्वशिरोभिर्निशाचरः ॥ 3.27.18 ॥
पूर्वं पतितैः शिरोभिः हेतुभिः स्वयं न्यपतत् ॥ 3.27.18 ॥
हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः ।
द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव ॥ 3.27.19 ॥
तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम् ।
राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा ॥ 3.27.20 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तविंशः सर्गः ॥ 27 ॥
खरसंश्रयाः खरसेवकाः ॥ 3.27.19,20 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तविंशः सर्गः ॥ 27 ॥