०२६ दूषणवधः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षड्विंशः सर्गः

दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः ।

सन्दिदेश महाबाहुर्भीमवेगान् दुरासदान् ।

राक्षसान् पञ्च साहस्रान् समरेष्वनिवर्तिनः ॥ 3.26.1 ॥

अथ दुषणप्रमुखसर्वसैन्यविनाशः षङ्विंशे दूषणस्त्वित्याद्यर्धत्रयमेकं वाक्यम् । निरीक्ष्य चेति खिन्नश्चेत्यर्थः । भीमवेगान् भयङ्करधावनान् अत एव दुरासदान् । पञ्चसहस्रानित्यनेन पञ्चसाहस्री पूर्वं हतेति व्यज्यते ॥ 3.26.1 ॥

ते शूलैः पट्टिशै खङ्गैः शिलावर्षेर्द्रुमैरपि ।

शरवर्षैरविच्छिन्नं ववृषुस्तं समन्ततः ॥ 3.26.2 ॥

त इति । तं रामम् ॥ 3.26.2 ॥

स द्रुमाणां शिलानां च वर्षं प्राणहरं महत् ।

प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः ॥ 3.26.3 ॥

स इति । प्राणहरम् अन्येशामिति शेषः । प्रतिजग्राह प्रतिरुरोध । धर्मात्मेत्यनेन कूटयोधित्वव्युदासः ॥ 3.26.3 ॥

प्रतिगृह्य च तद्वर्षं निमीलित इवर्षभः ।

रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् ॥ 3.26.4 ॥

निमीलित इवर्षभ इत्यनेन शरवर्षे ऽपि निर्व्यथत्वमनायासत्वं च द्योत्यते ॥ 3.26.4 ॥

ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा ।

शरैरवाकिरत्सैन्यं सर्वतः सहदूषणम् ॥ 3.26.5 ॥

ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः ।

शरैरशनिकल्पैस्तं राघवं समवाकिरत् ॥ 3.26.6 ॥

क्रोधसमाविष्ट इति राम इति शेषः । प्रदीप्त इव तेजसेति तजोयुक्तत्वेन प्रदीप्त इव स्थित इत्यर्थः । सहदूषणं दुषणसहितम् । दूषणः खरस्य सेनापतिः ॥ 3.26.5,6 ॥

ततो रामः सुसङ्क्रुद्धः क्षुरेणास्य महद्धनुः ।

चिच्छेद समरे वीरश्चतुर्भिश्चतुरो हयान् ॥ 3.26.7 ॥

तत इति । चतुर्भिरिति शरैरित्यनुषङ्गः ॥ 3.26.7 ॥

हत्वा चाश्वन् शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः ।

शिरो जहार तद्रक्षस्रिभिर्विव्याध वक्षसि ॥ 3.26.8 ॥

हत्वेति । तद्रक्षः दूषणं वक्षसि विव्याधेति सम्बन्धः ॥ 3.26.8 ॥

स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।

जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् ॥ 3.26.9 ॥

वेष्टितं काञ्चनैः पट्टैर्देवसैन्यप्रमर्दनम् ।

आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम् ॥ 3.26.10 ॥

वज्राशनिसमस्पर्शं परगोपुरदारणम् ॥ 3.26.11 ॥

तं महोरगसङ्काशं प्रगृह्य परिघं रणे ।

दूषणोभ्यद्रवद्रांमं क्रूरकर्मा निशाचरः ॥ 3.26.12 ॥

परितो हन्यते ऽनेनेति परिघः तम् । पट्टैः बन्धनैः । परवसोक्षितं शत्रुमेदस्सिक्तम् । “हृन्मेदस्तु वपा वसा” इत्यमरः । वज्राशनिसमस्पर्शं वज्रं वज्राख्यरत्नम् । अशनिः वज्रायुधम्, तदुभयसदृशकाठिन्यम् । परगोपुरदारणं परेषां शत्रूणां यत् गोपुरं पुरद्वारं तस्य दारणं भेदकम् । “पुरद्वारं तु गोपुरम्” इत्यमरः ॥ 3.26.912 ॥

तस्याभिपतमानस्य दूषणस्य स राघवः ।

द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ॥ 3.26.13 ॥

तस्येति । अभिपतमानस्य अभिपततः । सहस्ताभरणावित्यनेन शौर्यबिरुदवत्त्वं लक्ष्यते ॥ 3.26.13 ॥

भ्रष्टस्तस्य महाकायः पपात रणमूर्द्धिनि ।

परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः ॥ 3.26.14 ॥

रणमूर्धनि छिन्नहस्तस्य तस्य दूषणस्य भ्रष्टः हस्ताच्च्युतः महाकायः महाप्रमाणः परिघः शक्रध्वज इवाग्रतः पपातेत्यन्वयः ॥ 3.26.14 ॥

स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः ।

विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः ॥ 3.26.15 ॥

स इति । कराभ्यां सह पपातेत्यन्वयः । मनस्वी धीरः ॥ 3.26.15 ॥

तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे ।

साधुसाध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ॥ 3.26.16 ॥

एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः ।

संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः ॥ 3.26.17 ॥

तमिति । अपूजयन् अस्तुवन् ॥ 3.26.16,17 ॥

महाकपालः स्थूलाक्षः प्रमाक्षी च महाबलः ।

महाकपालो विपुलं शूलमुद्यम्य राक्षसः ।

स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् ॥ 3.26.18 ॥

त्रीनेवाह महाकपाल इति । कः किमायुधं गृहीत्वा ऽभ्यद्रवदित्यत्राह महाकपाल इति । 3.26.18 ॥

दृष्ट्वैवापततस्तूर्णं राघवः सायकैः शितैः ।

तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव ॥ 3.26.19 ॥

दृष्ट्वेति । शितैः शाणोल्लीढैः । प्रतिजग्राह तेषु बाणानर्पयामासेत्यर्थः । यथा गृहं प्राप्तानतिथीनुपचारैः प्रतिगृह्णाति तथेत्यर्थः ॥ 3.26.19 ॥

महाकपालस्य शिरश्चिच्छेद परमेषुभिः ।

असङ्ख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् ॥ 3.26.20 ॥

प्रतिजग्राहेत्युक्तं विवृणोति महाकपालस्येत्यादिना । प्रममाथ चूर्णीचकारेत्यर्थः ॥ 3.26.20 ॥

स पपात हतो भूमौ विटपीव महाद्रुमः ।

स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः ॥ 3.26.21 ॥

दूषणस्यानुगान् पञ्चसाहस्रान् कुपितः क्षणात् ।

बाणौघैः पञ्चसाहस्रैरनयद्यमसादनम् ॥ 3.26.22 ॥

दूषणं निहतं दृष्ट्वा तस्य चैव पदानुगान् ।

व्यदिदेश खरः क्रुद्धः सेनाध्यक्षान् महाबलान् ॥ 3.26.23 ॥

चूर्णशरीरत्वे दृष्टान्ततयोक्तं विटपीति ॥ 3.26.2123 ॥

अयं विनिहतः सङ्ख्ये दूषणः सपदानुगः ।

महत्या सेनया सार्धं युध्वा रामं कुमानुषम् ॥ 3.26.24 ॥

शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः ।

एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे ॥ 3.26.25 ॥

अयमिति । हनध्वं घ्नत ॥ 3.26.24,25 ॥

श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः ।

दुर्जयः करवीराक्षः परुषः कालकार्मुकः ॥ 3.26.26 ॥

मेघमाली महामाली सर्पास्यो रुधिराशनः ।

द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः ॥ 3.26.27 ॥

राममेवाभ्यवर्तन्त विसृजन्तः शरोत्तमान् ॥ 3.26.28 ॥

सेनाध्यक्षानेवाह श्येनगामीत्यादिना ॥ 3.26.2628 ॥

ततः पावक सङ्काशैर्हेमवज्रविभूषितैः ।

जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः ॥ 3.26.29 ॥

तत इति । वज्रं वज्रमणिः । चेजस्वी राम इति शेषः ॥ 3.26.29 ॥

ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः ।

निजध्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् ॥ 3.26.30 ॥

सधूमा इत्यनेन दहनोन्मुखत्वं व्यज्यत इत्यङ्गारावस्थाव्यावृत्तिः । वज्रा इवेति “वज्रमस्त्रियाम्” इत्युभयलिङ्गो वज्रशब्दः ॥ 3.26.30 ॥

रक्षसां तु शतं रामः शतेनैकेन कर्णिना ।

सहस्रं च सहस्रेण जघान रणमूर्धनि ॥ 3.26.31 ॥

रक्षसामिति । कर्णिना कर्णाकारशरीरेण ॥ 3.26.31 ॥

तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः ।

निपेतुः शोणितादिग्धा धरण्यां रजनीचराः ॥ 3.26.32 ॥

छिन्नं खण्डितम् । भिन्नं विदारितम् । आदिग्धाः आलिप्ताः ॥ 3.26.32 ॥

तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः ।

आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ॥ 3.26.33 ॥

तैर्मुक्तेति रणाग्रपरतितत्वातिशयात्कुशसाम्योक्तिः ॥ 3.26.33 ॥

क्षणेन तु महाघोरं वनं निहतराक्षसम् ।

बभूव निरयप्रख्यं मांसशोणितकर्दमम् ॥ 3.26.34 ॥

निरयप्रख्यं नरकतुल्यम् । मांसशोणितैः कृतः कर्दमः पङ्को यस्य तत्तथा ॥ 3.26.34 ॥

चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ।

हतान्येकेन रामेण मानुषेण पदातिना ॥ 3.26.35 ॥

मानुषेण ऋजुना । पदातिना वाहनरहितेनेत्यद्भुतोक्तिः ॥ 3.26.35 ॥

तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः ।

राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः ॥ 3.26.36 ॥

शेषा हता महासत्त्वा राक्षसा रणमूर्धनि ।

घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते ॥ 3.26.37 ॥

सैन्यस्य युद्धप्रवृत्तस्य अतो रामस्यापि तत्रान्तर्भावः । खरादित्रयं शेषः अवशिष्टांश इत्यर्थः । शेषाः सर्वे राक्षसा हता इत्यन्वयः । महासत्त्वा इत्यादिविशेषणैर्महारथा एव हताः, क्षुद्राः केचन भीरवो न हता इति गम्यते । अत एवोत्तरसर्गे हतशेषा इति वक्ष्यति । लक्ष्मणस्याग्रजेनेति रामस्य विष्ण्वर्धांशभाक्त्वेनाधिकबलत्वोक्तिः ॥ 3.26.36,37 ॥

ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा ।

रथेन रामं महता खरस्तदा समाससादेन्द्र इवोद्यताशनिः ॥ 3.26.38 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षड्विंशः सर्गः ॥ 26 ॥

भीमबलं भीमसैन्यम् । उद्यताशनिः उद्यतवज्रः ॥ 3.26.38 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षड्विंशः सर्गः ॥ 26 ॥