श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकविंशः सर्गः
स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः ।
उवाच व्यक्तया वाचा तामनर्थार्थमागताम् ॥ 3.21.1 ॥
मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः ।
त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः ॥ 3.21.2 ॥
अथ खरप्रोत्साहनमेकविंशे स पुनरित्यादि । अनर्थार्थं सर्वराक्षसविनाशार्थम् ॥ 3.21.1,2 ॥
भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः ।
घ्नन्तो ऽपि न निहन्तव्या न न कुर्युर्वचो मम ॥ 3.21.3 ॥
भक्ताः विश्वासभाजः । हिताः हितपराः । न कुर्युरिति न किन्तु कुर्युरेवेत्यर्थः ॥ 3.21.3 ॥
किमेतच्छ्रोतुमिच्छामि कारणं युत्कृते पुनः ।
हा नाथेति विनर्दन्ती सर्पवल्लुठसि क्षितौ ॥ 3.21.4 ॥
किमेतदिति विस्मये । यत्कृते यस्य कृते । कृत इत्यव्ययम् । यन्निमित्तं लुठसि तस्य कारणं श्रोतुमिच्छामीत्यन्वयः ॥ 3.21.4 ॥
अनाथवद्विलपसि नाथे तु मयि संस्थिते ।
उत्तिष्ठोत्तिष्ठ मा भैषीर्वैक्लव्यं त्यज्यतामिह ॥ 3.21.5 ॥
विलपसीति किमिति शेषः । वैक्लव्यं कातर्यम् । इह मत्समीपे ॥ 3.21.5 ॥
इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता ।
विमृज्य नयने सास्त्रे खरं भ्रातरमब्रवीत् ॥ 3.21.6 ॥
दुर्घर्षा दुस्साध्या ॥ 3.21.6 ॥
अस्मीदानीमहं प्राप्ता हृतश्रवणनासिका ।
शोणितौघपरिक्लिन्ना त्वया च परिसान्त्विता ॥ 3.21.7 ॥
प्रेषिताश्च त्वया वीर राक्षसास्ते चुतुर्धश ।
निहन्तुं राघवं क्रोधान्मत्प्रियार्थं सलक्ष्मणम् ॥ 3.21.8 ॥
ते तु रामेण सामर्षाः शूलपट्टिशपाणयः ।
समरे निहताः सर्वे सायकैर्मर्मभेदिभिः ॥ 3.21.9 ॥
तान् दृष्ट्वा पतितान् भूमौ क्षणेनैव महाबलान् ।
रामस्य च महत् कर्म महांस्त्रासोभवन्मम ॥ 3.21.10 ॥
खरोक्तमङ्गीकरोति अस्मीत्यादिना ॥ 3.21.710 ॥
अहमस्मि समुद्विग्ना विषण्णा च निशाचर ।
शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी ॥ 3.21.11 ॥
अहमस्मीति । समुद्विग्ना भीता । विषण्णा दुःखिता । सर्वतो भयदर्शिनी सर्वत्र रामप्रतिभासवतीति भावः ॥ 3.21.11 ॥
विषादनक्राध्युषिते परित्रासोर्मिमालिनि ।
किं मां न त्रायसे मग्नां विपुले शोकसागरे ॥ 3.21.12 ॥
विषादनक्रेति । नक्रो ग्राहः ॥ 3.21.12 ॥
एते च निहता भूमौ रामेण निशितैः शरैः ।
ये ऽपि मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः ॥ 3.21.13 ॥
क्रोधभीतिभ्यां पूर्वोक्तं विस्मृत्य पुनराह एते चेति ॥ 3.21.13 ॥
मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च ।
रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर ।
दण्डकारण्यनिलयं जहि राक्षसकण्टकम् ॥ 3.21.14 ॥
अनुक्रोशो दया । शक्तिरिति तुल्येति शेषः । 3.21.14 ॥
यदि रामं ममामित्रं न त्वमद्य वधिष्यसि ।
तव चैवाग्रतः प्राणांसत्यक्ष्यामि निरपत्रपा ॥ 3.21.15 ॥
निरपत्रपा निर्लज्जा । हृतकर्णनासात्वादिति भावः ॥ 3.21.15 ॥
बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे ।
स्थातुं प्रतिमुखे शक्तः सबलश्च महात्मनः ॥ 3.21.16 ॥
प्रतिमुखे अग्रे । सबलः ससैन्यः ॥ 3.21.16 ॥
शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः ।
मानुषौ यौ न शक्नोषि हन्तुं तौ रामलक्ष्मणौ ॥ 3.21.17 ॥
रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर ।
दण्डकारण्यनिलयं जहि तं कुलपांसन ॥ 3.21.18 ॥
मिथ्येति मिथ्यावचोभिरित्यर्थः । आरोपितविक्रमः कल्पितपराक्रमः ॥ 3.21.17,18 ॥
निस्सत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह ।
अपयाहि जनस्थानात्त्वरितः सहबान्धवः ॥ 3.21.19 ॥
रामतेजोभिभूतो हि त्वं क्षिप्रं विनशिष्यसि ।
स हि तेजस्समायुक्तो रामो दशरथात्मजः ॥ 3.21.20 ॥
भ्राता चास्य महावीर्यो येन चास्मि विरूपिता ॥ 3.21.21 ॥
कीदृश इति अत्यन्तायोग्य इत्यर्थः ॥ 3.21.1921 ॥
एवं विलप्य बहुशो राक्षसी विततोदरी ।
भ्रातुः समीपे दुःखार्ता नष्टसञ्ज्ञा बभूव ह ।
कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता ॥ 3.21.22 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकविंशः सर्गः ॥ 21 ॥
विततोदरी प्रहारार्थं विस्तृतोदरी । अत्र द्वाविंशतिश्लोकाः ॥ 3.21.22 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकविंशः सर्गः ॥ 21 ॥