०२० चतुर्दश खरामात्यवधः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे विंशः सर्गः

ततः शूर्पणखा घोरा राघवाश्रममागता ।

रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया ॥ 3.20.1 ॥

ते रामं पर्णशालायामुपविष्टं महाबलम् ।

ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च ॥ 3.20.2 ॥

तान् दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम् ।

अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ॥ 3.20.3 ॥

अथ चतुर्दशराक्षसवधो विंशे ततः शूर्पणखेत्यादि ॥ 3.20.13 ॥

मुहुर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः ।

इमानस्या वधिष्यामि पदवीमागतानिह ॥ 3.20.4 ॥

मुहूर्तमिति । प्रत्यनन्तरः प्रत्यासन्नः, रक्षक इति यावत् । अस्याः पदवीमागतानित्यन्वयः ॥ 3.20.4 ॥

वाक्यमेतत्ततः श्रुत्व रामस्य विदितात्मनः ।

तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् ॥ 3.20.5 ॥

प्रत्यपूजयत् परिपालितवान् ॥ 3.20.5 ॥

राघवो ऽपि महञ्चापं चामीकरविभूषितम् ।

चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ॥ 3.20.6 ॥

चामीकरं स्वर्णम् ॥ 3.20.6 ॥

पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ ।

प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम् ॥ 3.20.7 ॥

फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ ।

वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ ॥ 3.20.8 ॥

स्वस्य कपटवेषत्वं परिहरन्नाह पुत्रावित्यादि । आवां किमर्थमुपहिंसथ ॥ 3.20.7,8 ॥

युष्मान् पापात्मकान् हन्तुं विप्रकारान् महाहवे ।

ऋषीणां तु नियोगेन प्राप्तो ऽहं सशरायुधः ॥ 3.20.9 ॥

प्रत्युत युष्मानेवाहं हन्तुमागत इत्याह युष्मानिति । विप्रकारान् हिंसकान् । भवतां प्रथमप्रवृत्तिमाकाङ्क्षन् स्थितो ऽस्मीत्यर्थः ॥ 3.20.9 ॥

तिष्ठतैवात्र सन्तुष्टा नोपावर्तितुमर्हथ ।

यदि प्राणैरिहार्थो वा निवर्तध्वं निशाचराः ॥ 3.20.10 ॥

अत्रैव सन्तुष्टाः अभीता इति यावत् । तिष्ठत नोपावर्तितुमर्हथेति मा पलायध्वमित्यर्थः । यदि वा प्राणैः अर्थः प्रयोजनं प्राणापेक्षास्ति चेन्निवर्तध्वमित्यर्थः ॥ 3.20.10 ॥

तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश ।

ऊचुर्वाचं सुसङ्क्रुद्धा ब्रह्मघ्नाः शूलपाणयः ॥ 3.20.11 ॥

[संरक्तनयना घोरा रामं संरक्तलोचनम् ।

परुषं मधुराभाषं हृष्टा दृष्टपराक्रमम् ॥]

क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः ।

त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि ॥ 3.20.12 ॥

ब्रह्मघ्नाः ब्राह्मणघ्नाः ॥ 3.20.11,12 ॥

का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि ।

अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहव ॥ 3.20.13 ॥

शक्तिः बलम् । “शक्तिर्बले प्रभावादौ” इति विश्वः ॥ 3.20.13 ॥

एहि बाहुप्रयुक्तैर्नः परिघैः शूलपट्टिशैः ।

प्राणांस्त्यक्षङसि वीर्यं च धनुश्च करपीडितम् ॥ 3.20.14 ॥

परिघैः गदाभेदैः । पट्टिशैः असिभेदैः ॥ 3.20.14 ॥

इत्येवमुक्त्वा सङ्क्रुद्धा राक्षसास्ते चतुर्दश ।

[उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः ।]

चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् ॥ 3.20.15 ॥

तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश ।

तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः ॥ 3.20.16 ॥

तानि शूलपाणय इति पूर्वमुक्तानि ॥ 3.20.15,16 ॥

ततः पश्चान्महातेजा नाराचान् सूर्यसन्निभान् ।

जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् ॥ 3.20.17 ॥

नाराचान् अफलकान् बाणान् । शिलाशितान् शिलास्वपि शितान्, शिलानिर्भेदक्षमानित्यर्थः । शाणोपलसन्निघृष्टानित्यप्याहुः ॥ 3.20.17 ॥

गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् ।

मुमोच राघवो बाणान् वज्रानिव शतक्रतुः ॥ 3.20.18 ॥

गृहीत्वेति । लक्ष्यान् वेध्यान् । वज्रानित्यभूतोपमा ॥ 3.20.18 ॥

रुक्मपुङ्खाश्च विशिखा दीप्ता हेमविभूषिताः ।

ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः ।

विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः ॥ 3.20.19 ॥

न्यमज्जन्त न्यमज्जन्त चेत्यर्थः ॥ 3.20.19 ॥

ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः ।

निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः ॥ 3.20.20 ॥

विकृताः विरूपाः । विगतासवः विगतप्राणाः ॥ 3.20.20 ॥

तान् दृष्ट्वा पतितान् भूमौ राक्षसी क्रोधमूर्च्छिता ।

परित्रस्ता पुनस्तत्र व्यसृजद्भैरवस्वनान् ॥ 3.20.21 ॥

भैरवस्वनान् भयङ्करशब्दान् ॥ 3.20.21 ॥

सा नदन्ती पुनर्नादं जवाच्छूर्पणखा पुनः ।

[जगाम तत्र सम्भ्रान्ता खरो यत्र महाबलः ।]

उपगम्य खरं सा तु किञ्चित्संशुष्कशोणिता ॥ 3.20.22 ॥

पपात पुनरेवार्ता सनिर्यासेव सल्लकी ॥ 3.20.23 ॥

भ्रातुः समीपे शोकार्ता ससर्ज निनदं मुहुः ।

[भूमौ शयाना दुःखार्ता लब्धसञ्ज्ञाचिरात्पुनः ।]

सस्वरं मुमुचे बाष्पं विषण्णवदना तदा ॥ 3.20.24 ॥

महानादं नदन्ती कुर्वन्तीत्यर्थः । निर्यासः क्षतप्रसृतवृक्षरसः । सल्लकी लताविशेषः ॥ 3.20.2224 ॥

निपातितान् दृश्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस्ततः ।

वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगीनी खरस्य सा ॥ 3.20.25 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे विंशः सर्गः ॥ 20 ॥

पुनः सर्गार्थं सङ्क्षेपेणाह निपातितानिति । दृश्य दृष्ट्वा । अस्मिन् सर्गे पञ्चविंशतिश्लोकाः ॥ 3.20.25 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने विंशः सर्गः ॥ 20 ॥