श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनविंशः सर्गः
तां यथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् ।
भगिनीं क्रोधसन्तप्तः खरः पप्रच्छ राक्षसः ॥ 3.19.1 ॥
अथ खरवधमूलभूतः खरक्रोध उच्यते एकोनविंशे तामित्यदि । भगिनीं ज्येष्ठाम् । “अक्तिका भगिनी ज्येष्ठा” इत्यमरः ॥ 3.19.1 ॥
उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम् ।
व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता ॥ 3.19.2 ॥
उत्तिषठेति । प्रमोहो विसञ्ज्ञता । सम्भ्रमः चित्ताप्रतिष्ठा । एवंरूपा यथा भवसि तथा विरूपितेत्यर्थः ॥ 3.19.2 ॥
कः कृष्णसर्पमासीनमाशीविषमनागसम् ।
तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया ॥ 3.19.3 ॥
उत्तरकाल एवापकर्त्तुरनिष्टावाप्तिं सूचयन् पृच्छति क इति । कृष्णेत्यमोघविषत्वव्यञ्जनाय । आसीनं निश्चलमित्यर्थः । आशिषि दंष्ट्रायां विषं यस्येति सर्पविशेषणम् । पृषोदरादित्वात्सकारलोपः । “आशीरुरगदंष्ट्रायां प्रियवाक्याभिषङ्गयोः” इति निघण्टुः । ईकारान्तोप्याशीशब्दो ऽस्ति । तुदति व्यथयति । अभिसमापन्नम् आभिमुख्येनागतमिति शीघ्रप्रतीकारमूलम् । अङ्गुल्यग्रेण लीलयेति प्रभावानभिज्ञत्वोक्तिः । अनेन स्वस्य लीलया सद्यः प्रतीकारसामर्थ्यं द्योतितम् ॥ 3.19.3 ॥
कः कालपाशमासज्यं कण्ठे मोहान्न बुद्ध्यते ।
यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम् ॥ 3.19.4 ॥
पुनरपि स्वमहिमानं प्रकटयन् शूर्पणखां चाश्वासयन् पृच्छिति कः कालेति । यः कण्ठे कालपाशं मृत्युपाशम् आसज्य आबध्य न बुध्यते, उत्तरक्षणे स्वमरणं न जानातीत्यर्थः । यश्च त्वाम् आसाद्य प्राप्य उत्तमं विषं कालकूटं पीतवान् स क इत्यन्वयः । अत्र आसादनशब्देन विरूपकरणमुच्यते, त्वदासादनरूपं विषमित्यर्थः ॥ 3.19.4 ॥
बलविक्रमसम्पन्ना कामगा काम रूपिणी ।
इमामवस्थां नीता त्वं केनान्तकसमा गता ॥ 3.19.5 ॥
अथ विस्मयेन पृच्छिति बलेति । इतो गता त्वं केनेमामवस्थां नीतेत्यन्वयः ॥ 3.19.5 ॥
देवगन्धर्वभूतानामृषीणां च महात्मनाम् ।
को ऽयमेवं विरूपां त्वां महावीर्यश्चकार ह ॥ 3.19.6 ॥
देवेत्यादि निर्धारणे षष्ठी । देवादीनां मध्ये अयम् एतादृशकार्यकर्ता कः एवं विरूपां चकार ॥ 3.19.6 ॥
नहि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् ।
अन्तरेण सहस्राक्षं महेन्द्रं पाकशासनम् ॥ 3.19.7 ॥
स्वनिश्चयमाह नहीति । अत्र तमित्यध्याहार्यम् । तस्य गर्वविशेषद्योतनाय इन्द्रस्य विशेषणद्वयम् ॥ 3.19.7 ॥
अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः ।
सलिले क्षीरमासक्तं निष्पिबन्निव सारसः ॥ 3.19.8 ॥
प्राणान् तस्येति शेषः । जीवितान्तकैः शत्रुजीवितविनाशकरैः । मार्गणैः बाणैः । सारसः हंसविशेषः ॥ 3.19.8 ॥
निहतस्य मया सङ्ख्ये शरमङ्कृत्तमर्मणः ।
सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति ॥ 3.19.9 ॥
सङ्ख्ये युद्धे । शरसङ्कृत्तमर्मणः बाणच्छिन्नमर्मस्थलस्य । सफेनं प्राणवायुनिर्गमनकालिकफेनसहितम् । रक्तं रक्तवर्णम् । अचिरप्रवृत्तत्वमनेनोच्यते । मेदिनी भूमिः ॥ 3.19.9 ॥
कस्य पत्त्ररथाः कायान्मांसमुत्कृत्य सङ्गताः ।
प्रहृष्टा भक्षयिष्यन्ति निहस्य मया रणे ॥ 3.19.10 ॥
पत्त्ररथाः पक्षिणः । कायात् देहात् । उत्कृत्य उच्छिद्य । सङ्गताः सङ्घशः समवेताः ॥ 3.19.10 ॥
तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः ।
मयापकृष्टं कृपणं शक्तास्त्रातुमिहाहवे ॥ 3.19.11 ॥
मया आहवे अपकृष्टम् आकृष्टम् । इहेति युद्धसन्निधानोक्तिः । 3.19.11 ॥
उपलभ्य शनैः सञ्ज्ञां तं मे शंसितुमर्हसि ।
येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता ॥ 3.19.12 ॥
उपलभ्य प्राप्य । दुर्विनीतेन दुर्जनेन । विक्रम्य शौर्यं कृत्वा ॥ 3.19.12 ॥
इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः ।
ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत् ॥ 3.19.13 ॥
विशेषतः अतिशयेन । क्रुद्धस्य कृतक्रोधस्य ॥ 3.19.13 ॥
तरुणौ रुपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ 3.19.14 ॥
फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ ।
पुत्रौ दशरथस्यास्तां भ्रातारौ रामलक्ष्मणौ ॥ 3.19.15 ॥
ननु “व्यक्तमाख्याहि केन त्वमेवंरूपा विरुपिता” इति पृच्छन्तं खरं प्रति “पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ” इत्येव वक्तव्ये तरुणावित्यादिना रामादिसौन्दर्यादिकं किमर्थं कथयतीति चेत्, अस्या वैरुप्ये जाते ऽपि वैराग्याजननात् काममोहातिशयेन भ्रात्रादिसन्निधाने ऽपि हृद्गतमेवोक्तवती । अनुकूलानां प्रतिकूलानां च रामं दृष्टवतामयमेव स्वभावः, अत एव “यानि रामस्य चिह्नानि” इति पृष्टवतीं सीतां प्रति “त्रिस्थिरस्त्रि प्रलम्बश्च” इति वक्तव्ये “रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः” इत्येवमाह हनुमान् । यद्वा “सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टम्” इति न्यायेन कर्णनासाच्छेदेन प्रमत्ता कुपिता च शूर्पणखा हृद्गतमेवाह । तरुणौ कामिनीनां प्रथमाकर्षकं वय एव हि, अतस्तदुच्यते । परस्परपरिहासकरणेनोभयत्र भावबन्धाविशेषाद्द्विवचनम् । वयसा तुल्यत्वे ऽपि रूपे किमनयोस्तारतम्यमस्ति? नेत्याह रुपसम्पन्नौ । रूपं सौन्दर्यं तेन सम्पन्नौ समृद्धौ, इतरेषां कामादीनां रूपमाभ्यां भिक्षित्वा सम्पादयितव्यमिति मन्यमानावित्यर्थः । यद्वा रूपसम्पन्नौ सम्पन्नरूपौ । आहिताग्न्यादित्वात्परनिपातः । तेन “उत्पन्नं द्रव्यं क्षणमगुणं तिष्ठति” इति न्यायं विहाय “रूपदाक्षिण्यम्पन्नः प्रसूतः” इत्युक्तरीत्या धर्मिणा सहैवोत्पन्नरूपावित्यर्थः । वयोरूपसत्त्वेपि किं कठिनस्पर्शौ? नेत्याह सुकुमारौ । परुषतरभवच्छरीरवन्न भवत्यनयोः शरीरं किन्तु पुष्पहाससुकुमारौ । एवं सौकुमार्यसत्त्वे ऽपि रतिवैयात्ये किं श्रान्तौ स्याताम्? नेत्याह महाबलौ । “रामस्तु सीतया सार्धं विजहार बहूनृतून्” इत्याद्युक्तरीत्यानेकर्तुषु विहरणे ऽपि श्रमलवरहितौ । एवं समुदायशोभासम्पन्नत्वेपि किमवयवशोभासु वैकल्यम्? नेत्याह पुण्डरीकविशालाक्षौ । “संरक्तनयना घोरा” इत्युक्तरीत्या त्वादृशनयनवन्नभवति तन्नयनमित्यर्थः । पुण्डरीकं सिताम्भोजम्, तमोगुणोद्रेकेण निद्रा कषायितत्वं रजोगुणोद्रेकेण संरक्तत्वं वा नास्ति किन्तु सर्वादा सत्त्वप्रसन्ननयनावित्यर्थः । न केवलमेवावयवशोभातिशयः, चीरकृष्णाजिनाम्बरौ “किमिव हि मधुराणां मण्डनं नाकृतीनाम्” इत्युक्तरीत्या वल्कलाजिनधारणे ऽप्यतिरमणीयौ । यद्वा कोय ऽमेवं महावीर्य इति भीतं प्रति तयोर्दुर्बलत्वमुच्यते । तुरणौ “ऊनषोडशवर्षः” इत्याद्युक्तरीत्या युद्धायोग्यौ । यद्वा “यौवने विषयैषिणाम्” इत्याद्युक्तरीत्या विषयप्रावण्येन युद्धभीतौ । रूपसम्पन्नौ “कन्या कामयते रूपम्” इत्युक्तरीत्या वनिताजनवशीकरणाय शरीरमुद्भासयन्तौ न पौरुषसम्पन्नौ । सुकुमारौ श्रीमत्पुत्रतया सम्पत्कुमारौ अतो भवदायुधप्रहारासहौ । महाबलौ विपरीतलक्षणया द्वावेतौ दुर्बलौ, ससैन्यस्य भवतो न पर्याप्तावित्यर्थः । यद्वा सुकुमारतराबलासहितौ युद्धविरोधिकलत्रसहितत्वान्न युद्धार्हौ । पुण्डरीकविशालाक्षौ तयोर्युद्धासामर्थ्यं मद्वैरूप्यकरणानन्तरं किं भविष्यतीति भीत्या शुभ्रीभूतलोचनतया चावगम्यते । चीरकृष्णाजिनाम्बरौ परिधानसम्पादनस्याप्यशक्तौ तत्राप्येकरूपोत्तरीयरहितौ । चीरकृष्णाजिनाम्बरौ स्थावरतिर्यग्भ्यां याचित्वा लब्धे अम्बरे बिभ्राणौ । यद्वा खरस्य प्रोत्साहनाय तयोर्बलातिशय उच्यते तरुणावित्यादि । तरुणौ जयोत्साहयोग्यवयस्कौ । रूपसम्पन्नौ “सिंहोरस्कं महाबाहुम्” इत्युक्तरीत्या युद्धाभावे ऽपि दर्शनमात्रेण परहृदयकम्पजनकशरीरौ । सुकुमारौ लीलयैव सर्वसंहरणक्षमौ । महाबलौ मनोबलबाहुबलोपायबलसम्पन्नौ । पुण्डीकविशालाक्षौ वैरिषु गौरवबुद्धिमूलककालुष्यरहिततया विमलनेत्रौ । अनेन शत्रुदर्शनकृतक्षोभराहित्यमुच्यते । चीरकृष्णाजिनाम्बरौ सदा बद्धवसनतया युद्धसन्नद्धावित्यर्थः । एवमुत्तरत्रापि योज्यम् ॥ 3.19.14,15 ॥
गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ ।
देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे ॥ 3.19.16 ॥
पुनरपि हृदये परिवर्तमानं तत्सौन्दर्यमाह गन्धर्वेति । देवाविति यद्यपि दशरथसुताविति श्रुतम्, तथापि तत्प्रभावदर्शनेन तदसत्यमेवोक्तमिति मन्य इति भावः ॥ 3.19.16 ॥
तरुणी रूपम्पन्ना सर्वाभरणभृषिता ।
दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा ॥ 3.19.17 ॥
तत्र आश्रमे ॥ 3.19.17 ॥
ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम् ।
इमामवस्थां नीताहं यथानाथासती तथा ॥ 3.19.18 ॥
प्रमदाम् अधिकृत्य निमित्तीकृत्य । उभाभ्यां सम्भूय एकमत्यं प्राप्य । इमामवस्थां नीतास्मि यथा अनाथा असती कुलटा नीयते तथा नीतास्मीति योजना ॥ 3.19.18 ॥
तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् ।
सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि ॥ 3.19.19 ॥
अनृजुवृत्तायाः कुटिलवृत्तायाः । अनेन तत्प्रेरणेनैव मां तौ विरूपितवन्तावित्यमन्यतेति गम्यते । रणमूर्धनिहतयोरित्यन्वयः । सीताया रणमूर्धिनि गमनासम्भवाद्धताया इति विपरिणामो न युक्तः, अन्यथा अशक्यत्वाद्रणमूर्धनीत्युक्तम् ॥ 3.19.19 ॥
एष मे प्रथमः कामः कृतस्तात त्वया भवेत् ।
तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे ॥ 3.19.20 ॥
अवश्यकर्तव्यत्वाय पुनरप्याह एष इति । प्रथमः श्रेष्ठः । कामः अभिलाषः । “प्रथमौ प्रवरादिमौ” इति वैजयन्ती । तातेति पितृवज्ज्येष्ठसम्बोधनम् ॥ 3.19.20 ॥
इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् ।
व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान् ॥ 3.19.21 ॥
मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ ।
प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह ॥ 3.19.22 ॥
चतुर्दशेति चतुर्दशसहस्राध्यक्षानित्यर्थः ॥ 3.19.21,22 ॥
तौ हत्वा तां च दुर्वृत्तामपावर्तितुमर्हथ ।
इयं च रुधिरं तेषां भगिनी मम पास्यति ॥ 3.19.23 ॥
मनोरथो ऽयमिष्टोस्या भगिन्या मम राक्षसाः ।
शीघ्रं सम्पाद्यतां तौ च प्रमथ्य स्वेन तेजसा ॥ 3.19.24 ॥
दुर्वृत्तां भगिनीवैरुप्यमूलत्वात् । अपावर्तितुम् आनेतुम् । तां चेति चकारेण तावपीत्युच्यते । आनयनप्रयोजनमाह इयं चेति । अस्या अयं मनोरथः मम चायमिष्टः सम्मत इत्यर्थः । प्रमथ्य हत्वा ॥ 3.19.23,24 ॥
इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश ।
तत्र जग्मुस्तया सार्धं घना वातेरिता यथा ॥ 3.19.25 ॥
इतीति तयोर्मार्गं प्रदर्शयन्त्येति शेषः । इयं खरेणाप्रेरितापि गतेति बौध्यम् ॥ 3.19.25 ॥
ततस्तु ते तं समुदग्रतेजसं तथापि तीक्ष्णप्रदरा निशाचराः ।
न शेकुरेनं सहसा प्रमर्दितुं वनद्विपा दीप्तमिवाग्निमुत्थितम् ॥ 3.19.26 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनविंशः सर्गः ॥ 19 ॥
प्रदराः बाणाः । “प्रदरा भङ्गनारीरुक्बाणाः” इत्यमरः । तथा तीक्ष्णप्रदरा अपीति योज्यम् । तमेनमित्यन्वयः । उत्थितं राक्षसान् दृष्ट्वा अभिमुखमुद्गतमिति रामविशेषणम् । उत्तरसर्गसङ्ग्रहो ऽयं श्लोकः ॥ 3.19.26 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकोनविंशः सर्गः ॥ 19 ॥