श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तदशः सर्गः
। अरण्यकाण्डः ॥ श्लोकसहितव्याख्यानम् ॥
(17सर्गतः 48सर्गपर्यन्तम्)
कृताभिषेको रामस्तु सीता सौमित्रिरेव च । त्ित्र त्त्र त्र
तस्माद्गोदावरीतीरात्ततो जग्मुः स्वमाश्रमम् ॥ 3.17.1 ॥
एवं रामतपोविशेषद्योतनाय हेमन्तं प्रथमप्रवृत्तमुपवर्ण्य ततस्त्रिषु संवत्सरेष्वतीतेषु कदाचिच्चैत्रमासे प्रसक्तं भाविसकलराक्षसवधनिदानत्वेन शूर्पणखावृत्तान्तमुक्षिपति सप्तदशे कृताभिषेक इत्यादि । ततः अभिषेकानन्तरभाविकृत्यानन्तरम् । आश्रमं तपोवनम् । “तपोवने मठे ब्रह्मचर्यादावाश्रमो ऽस्त्रियाम्” इति बाणः ॥ 3.17.1 ॥
आश्रमं तमुपागम्य राघवः सह लक्ष्मणः ।
कृत्वा पौर्वह्णिकं कर्म पर्णशालामुपागमत् ॥ 3.17.2 ॥
पूर्वाह्णे भवं पौर्वाह्णिकं ब्रह्मयज्ञादि न त्वग्निकृत्यम् अनुदितहोमत्वेन तस्य सूर्योपस्थानानन्तरभावित्वाभावात् । पर्णशालामुपागमत् आश्रमे पर्णशालातो बहिरेव कर्तव्यमनुष्ठाय वासस्थानमगमदित्यर्थः ॥ 3.17.2 ॥
उवास सुखितस्तत्र पूज्यमानो महर्षिभिः ।
लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ॥ 3.17.3 ॥
कथाः पुराणेतिहासकथाः । चकार उवाचेत्यर्थः । तथा चोक्तं धातुवृत्तौ “करोतिरभूतप्रादुर्भावे वर्तते अश्मानमितः कुरु पादं जले कुरु यः प्रथमः शकलः परापतेत् सस्मरुः कार्यः चोरङ्कारमाक्रोशतीत्यादौ अवस्थापननिर्मलीकरणोपादानोच्चारणादौ प्रयोगात् । चोरङ्कारमित्यत्र चोरशब्दमुच्चार्येत्यर्थः । नह्यत्र चोरः क्रियते अर्थनिर्देशस्तूपलक्षणम्” इति ॥ 3.17.3 ॥
स रामः पर्णशालायामासीनः सह सीतया ।
विरराज महाबाहुश्चित्रया चन्द्रमा इव ॥ 3.17.4 ॥
चित्रया चित्रानक्षत्रेण । चित्रापौर्णमास्यामिति भावः ॥ 3.17.4 ॥
तथासीनस्य रामस्य कथासंसक्तचेतसः ।
तं देशं राक्षसी काचिदाजगाम यदृच्छाया ॥ 3.17.5 ॥
रामस्यासीनस्य रामे आसीने ॥ 3.17.5 ॥
सा तु शूर्मणखा नाम दशग्रीवस्य रक्षसः ।
भगिनी राममासाद्य ददर्श त्रिदशोपमम् ॥ 3.17.6 ॥
राक्षसीमृषिर्विशेषयति सेति । राममासाद्य ददर्श रामं दृष्ट्वा आससादेत्यर्थः । समानकर्तृकत्वमात्रे ल्यप् ॥ 3.17.6 ॥
सिंहोरस्कं महाबाहुं पद्मपत्त्रनिभेक्षणम् ।
आजानुबाहुं दीप्तास्यमतीव प्रियदर्शनम् ॥ 3.17.7 ॥
गजविक्रान्तगमनं जटामण्डलधारिणम् ।
सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् ॥ 3.17.8 ॥
राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम् ।
बभूवेन्द्रोपमं दृष्टवा राक्षसी काममोहिता ॥ 3.17.9 ॥
सिंहोरस्कं सिंहशब्दः श्रेष्ठवाची, विशालोरस्कमित्यर्थः । महासत्त्वं महाबलम् । पार्थिवव्यञ्जनानि राजलक्षणानि । कामकृतमोहहेतवो विशेषणानि ॥ 3.17.79 ॥
सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी ।
विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा ॥ 3.17.10 ॥
तस्यास्तस्मिन् मनःप्रवृत्तिं मुनिः परिहसति सुमुखमित्यादिना । वृत्तमध्यं तनुमध्यम् । विरूपाक्षी विकटनेत्री । सुकेशं नीलकेशम् ॥ 3.17.10 ॥
प्रीतिरूपं विरूपा सा सुस्वरं भैरवस्वरा ।
तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ॥ 3.17.11 ॥
प्रीतिरूपम् प्रियरूपम् । प्रीयत इति प्रीतिः । विरूपा विकटरूपा । सुस्वरं स्निग्धगम्भीरस्वरम् । तरुणं युवानं सौम्यं चेत्यर्थः । दारुणोति प्रतियोगिनिर्देशात् । दक्षिणम् ऋजुभाषिणम् । वामभाषिणी वक्रभाषिणी ॥ 3.17.11 ॥
न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना ।
शरीरजसमाविष्टा राक्षसी वाक्यमब्रवीत् ॥ 3.17.12 ॥
न्यायवृत्तम् उचिताचारम् । शरीरजो मन्मथः ॥ 3.17.12 ॥
जटी तापसरूपेण सभार्यः शरचापधृत् ।
आगतस्त्वमिमं देशं कथं राक्षससेवितम् ।
किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि ॥ 3.17.13 ॥
जटीति तापसरूपेण जटी । कामुकरूपेण सभार्यः । क्षत्ित्रयरूपेण शरचापधृत् । राक्षससेवितम् एतद्रूपासहैः सेवितमित्यर्थः ॥ 3.17.13 ॥
एवमुक्तस्तु राक्षस्या शूर्पनख्या परन्तपः ।
ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे ॥ 3.17.14 ॥
अनृतं नहि रामस्य कदाचिदपि सम्मतम् ।
विशेषेणाश्रमस्थस्य समीपे स्त्रीजनस्य च ॥ 3.17.15 ॥
शूर्पनख्येति छान्दसौ ङीष्णत्वाभावनौ । ऋजुबुद्धितया कुटिलेष्वप्यकुटिलबुद्धितया । आश्रमस्थस्य तपोवनस्थस्य ॥ 3.17.14,15 ॥
आसीद्दशरथो नाम राजा त्रिदशविक्रमः ।
तस्याहमग्रजः पुत्रो रामो नाम जनैःश्रुतः ॥ 3.17.16 ॥
भ्राता ऽयं लक्ष्मणो नाम यमीयान् मामनुव्रतः ॥ 3.17.17 ॥
यवीयान् कनिष्ठः । अनुव्रतः अनुसरणं व्रतं यस्य सः ॥ 3.17.16,17 ॥
इयं भार्या च वैदेही मम सीतेति विश्रुता ।
नियोगात्तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः ॥ 3.17.18 ॥
वैदिही विदेहराजपुत्री । मातुः कैकेय्याः । यन्त्रितः नियतः चोदित इति यावत् ॥ 3.17.18 ॥
घर्मार्थं धर्मकाङ्क्षी च वनं वस्तुमिहागतः ।
त्वां तु वेदितुमिच्छामि कथ्यतां का ऽसि कस्य वा ॥ 3.17.19 ॥
धर्मकाङ्क्षी पितृवाक्यपालनरूपधर्मकाङ्क्षी । धर्मार्थं तपोरूपधर्मसिद्ध्यर्थम् । वनं वस्तुं यन्त्रितः सन्निहागत इत्यन्वयः । का ऽसीति नामजातिप्रश्नः । कस्येति पित्रादिविषयः प्रश्नः ॥ 3.17.19 ॥
नहि तावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे ।
इह वा किन्निमित्तं त्वमागता ब्रूहि तत्त्वतः ॥ 3.17.20 ॥
नहीति । तावत्कार्त्स्न्येन । मनोज्ञाङ्गी न भवति, मां प्रति राक्षसीति प्रतिभासि । यद्वा राक्षससेवित इति तद्वचनात् राक्षसीत्वमित्याशङ्य परिहरति । मनोज्ञाङ्गी त्वं राक्षसीति न प्रतिभासीति रामदर्शनकाले तथारूपं कृतवती कामरूपत्वात् । दुर्मुखीत्यादिकं वास्तवाभिप्रायेण मुनिनोक्तमिति ज्ञेयम् ॥ 3.17.20 ॥
सा ऽब्रवीद्वचनं श्रुत्वा राक्षसी मदनार्दिता ।
श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम ॥ 3.17.21 ॥
तत्त्वार्थं परमार्थम् ॥ 3.17.21 ॥
अहं शूर्पणखा नाम राक्षसी कामरूपिणी ।
अरण्यं विचरामीदमेका सर्वभयङ्करा ॥ 3.17.22 ॥
कामरूपिणी इतोप्यधिकरूपधारणे समर्था । सर्वभयङ्करेति वक्ष्यमाणरतिप्रतिबन्धकनिवारणक्षमतोक्ता ॥ 3.17.22 ॥
रावणो नाम मे भ्राता बलीयान् राक्षसेश्वरः ।
वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः ॥ 3.17.23 ॥
का ऽसिति प्रश्नस्योत्तरमुक्त्वा कस्येत्यस्य प्रश्नस्योत्तरमाह रावण इत्यादिना ॥ 3.17.23 ॥
प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः ।
विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः ॥ 3.17.24 ॥
कुम्भकर्णश्च मे भ्रातेत्यन्वयः । विभीषणस्तु तस्य विशेषो ऽस्ति सो ऽपि मे
भ्रातेत्यर्थः । तं विशेषमाह धर्मात्मेति । धर्मात्मा धर्मस्वभावः राक्षसचेष्टितो न, जन्मना राक्षसो ऽपि न राक्षसव्यापार इत्यर्थः ॥ 3.17.24 ॥
प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ ।
तानहं समतिक्रान्ता राम त्वापूर्वदर्शनात् ।
समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम् ॥ 3.17.25 ॥
एतद्देशागमने निमित्तमाह प्रख्यातेति । खरदूशणौ जनस्थानस्थाविति शेषः । एवं भ्रातृकथनेन रामस्य स्वपरिग्रहे भीतिर्मा भूदित्यताह तानहमिति । अतिक्रान्ता अतिक्रम्य वर्तमाना, स्वच्छन्दचारिणीत्यर्थः । त्वा त्वाम् । पूर्वदर्शनात् प्रथमदर्शनमारभ्य । अपूर्वदर्शनादिति वा छेदः । देवदानवमर्त्येष्वितः पूर्वमदृष्टत्वद्रूपदर्शनाद्धेतोः । भावेन हृदयेन रत्याख्यभावेन वा भर्तारं समुपेतास्मि । तत्र हेतुः पुरुषोत्तममिति ॥ 3.17.25 ॥
अहं प्रभावमम्पन्ना स्वच्छन्दबलगामिनी ।
चिराय भव मे भर्ता सीतया किं करिष्यसि ॥ 3.17.26 ॥
सीतायां विद्यमानायां किं त्वयेत्यत्राह अहमिति । स्वच्छन्दबलगामिनी स्वेच्छानुगुणबलगमना च ॥ 3.17.26 ॥
विकृता च विरूपा च न चेयं सदृशी तव ।
अहमेवानुरूपा ते भार्यारूपेण पश्य माम् ॥ 3.17.27 ॥
सीतां निन्दति विकृता चेति । विकृतेति विषमशरीरत्वमुच्यते । करालां विकृताम् “करालो दन्तुरे तुङ्गे विशाले विकृते ऽपि च” इति वैजयन्ती ॥ 3.17.27 ॥
इमां विरूपामसतीं करालां निर्णतोदरीम् ।
अनेन ते सह भ्रात्रा भक्षयिष्यामि मानुषीम् ॥ 3.17.28 ॥
ततः पर्वतशृङ्गाणि वनानि विविधानि च ।
पश्यन् सह मया कान्त दण्डकान् विचरिष्यसि ॥ 3.17.29 ॥
निर्णतं निरतिशयेन नतं निम्नमुदरं यस्याः सा निर्णतोदरी ॥ 3.17.28,29 ॥
इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् ।
इदं वचनमारेभे वक्तुं वाक्यविशारदः ॥ 3.17.30 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तदशः सर्गः ॥ 17 ॥
तां मदिरेक्षणां मदयति दर्पयतीति मदिरम् तादृशमीक्षणं यस्यास्ताम् । “मद दर्पशोभनयोः” इत्यस्माद्धातोः “इषिमदि–” इत्यादिना किरच् प्रत्ययः । अत्र सार्धत्रिंशच्छ्लोकाः ॥ 3.17.30 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तदशः सर्गः ॥ 17 ॥