००५ शरभङ्गस्य अग्निप्रवेशः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रामदारण्यकाण्डे पञ्चमः सर्गः

हत्वा तु तं भीमबलं विराधं राक्षसं वने ।

ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् ।

अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसम् ॥ 3.5.1 ॥

एवं विराधवनवासिमुमुक्षुमुनिजनशरणागतेरानुषङ्गिकफलभूतं विराधवधमभिधाय खरादिवधफलशरभङ्गाश्रमवासिमुनिजनशरणागतिं दर्शयिष्यन् तदुचितसौलभ्यदर्शनाय शरभङ्गाश्रमवनगमनं दर्शयति पञ्चमे हत्वेत्यादि । परिष्वज्य समाश्वास्य चेति विराधाङ्कस्पर्शजभयदुःखव्रीडाशान्त्यर्थमिति भावः ॥ 3.5.1 ॥

कष्टं वनमिदं दुर्गं न च स्म वनगोचराः ।

अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् ॥ 3.5.2 ॥

कष्टं कृच्छ्रं गहनं वा । “कृच्छ्रगहनयोः कषः” इत्यनिण्निष्ठा । अत एव दुर्गं विषमं विश्रमायोग्यमित्यर्थः ॥ 3.5.2 ॥

आश्रमं शरभङ्गस्य राघवो ऽभिजगाम ह ।

तस्य देवप्रभावस्य तपसा भावितात्मनः ॥ 3.5.3 ॥

तस्य विराधोक्तस्य । देवप्रभावस्य तपसा साधनेन भावितात्मनः साक्षात्कृतपरब्रह्मणः । “तपसा ब्रह्म विजिज्ञासस्व” इति श्रुतेः ॥ 3.5.3 ॥

समीपे शरभङ्गस्य ददर्श महदद्भतम् ।

विभ्राजमानं वपुषा सूर्यवैश्वनरोपमम् ॥ 3.5.4 ॥

महदद्भुतं महाश्चर्यभूतं किमपि वस्तु विभ्राजमानं वपुषा, भ्राजमानवपुषमित्यर्थः । वैश्वावराः सूर्यव्यतिरिक्तास्तेजांसि, सूर्यादितेजस्समुदायोपममित्यर्थः ॥ 3.5.4 ॥

अवरुह्य रथोत्सङ्गात् सकाशे विबुधानुगम् ।

असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् ॥ 3.5.5 ॥

ततः किञ्चित्समीपगमनानन्तरम् । रथोत्सङ्गात् रथतटादवरूह्य वसुधामसंस्पृशन्तम् , अभूमिस्पर्शस्य देवस्वभावत्वात् । सकाशे समीपे । विबुधानुगं विबुधा अनुगाः यस्य तम् विबुधेश्वरमिन्द्रं ददर्श ॥ 3.5.5 ॥

सुप्रभाभरणं देवं विरजोम्बरधारिणम् ।

तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः ॥ 3.5.6 ॥

सुप्रभान्याभरणानि यस्य तम् । देवं देदीप्यमानम् । विरजो निर्मलमम्बरं धर्तुं शीलमस्यास्तीति विरजोम्बरधारिणम् । तद्विधैः इन्द्रतुल्याकारैः । ददर्शेत्यनुषङ्गः ॥ 3.5.6 ॥

हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ।

ददर्शादूरतस्तस्य तरुणादित्यसन्निभम् ॥ 3.5.7 ॥

हरिभिः श्यामैः । यद्वा वाजिभिः वेगवद्भिः हरिभिः अश्वैः । तस्य इन्द्रस्य ॥ 3.5.7 ॥

पाण्डरभ्रघनप्रख्यं चन्द्रमण्डलसन्निभम् ।

अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् ॥ 3.5.8 ॥

पाण्डराभ्रस्येव घना अधिका प्रख्या कान्तिर्यस्य तदिति श्वैत्ये दृष्टान्तः । चन्द्रमण्डलसन्निभमिति वृत्ततायाम् । चित्रमाल्यैर्लम्बमानकुसुमसरैरुपशोभितम् ॥ 3.5.8 ॥

चामरव्यजने चाग्य्रे रुक्मदण्डे महाधने ।

गृहीते वरनारीभ्यां धूयमाने च मूर्द्धनि ॥ 3.5.9 ॥

चामरव्यजने चामररूपव्यजने । महाधने बहुमूल्ये । मूर्ध्नि तस्येति शेषः । अपश्यदित्यनुषङ्गः ॥ 3.5.9 ॥

गन्धर्वामरसिद्धाश्च बहवः परर्षयः ।

अन्तरिक्षगतं देवं वाग्भिरग्य्राभिरीडिरे ॥ 3.5.10 ॥

ईडिरे तुष्टुवुः । ईडमानानपश्यदित्यर्थः ॥ 3.5.10 ॥

सह सम्भाषमाणे तु शरभङ्गेन वासवे ।

दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् ॥ 3.5.11 ॥

रामो ऽथ रथमुद्दिश्य लक्ष्मणाय प्रदर्शयन् ॥ 3.5.12 ॥

सहेत्यादिसार्धः श्लोक एकान्वयः । तत्र तदानीम् । राम इति पदस्यावृत्तिः क्रियाभेदात् अतो न पुनरुक्तिः । उद्दिश्य हस्तेन निर्दिश्य शरभङ्गेण साकं वासवे सम्भाषमाणे सति तत्र समये रामः शतक्रतुं दृष्ट्वा तदीयरथं रामः लक्ष्मणाय उद्दिश्य प्रदर्शयन् सन् अथ लक्ष्मणमब्रवीदिति योजना ॥ 3.5.11,12 ॥

अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण ।

प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम् ॥ 3.5.13 ॥

अर्चिष्मन्तं सतेजस्कम् । श्रिया कान्त्या ॥ 3.5.13 ॥

ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः ।

अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् ॥ 3.5.14 ॥

पुरुहूतस्य यज्वभिर्बहुशो हूतस्य । नः अस्माभिः । इमे हरितवर्णाः हरयः अश्वाः ते । यद्वा त इमे शक्रस्य हरय इत्यन्वयः ॥ 3.5.14 ॥

इमे च पुरुषव्याघ्रा ये तिष्ठन्त्यभितो रथम् ।

शतं शतं कुण्डलिनो युवानः खङ्गपाणयः ॥ 3.5.15 ॥

विस्तीर्णविपुलोरस्काः परिघायतबाहवः ।

शोणांशुवसनास्सर्वे व्याघ्रा इव दुरासदाः ॥ 3.5.16 ॥

उरोदेशेषु सर्वेषां हारा ज्वलनसन्निभाः ।

रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् ॥ 3.5.17 ॥

इमे चेत्यादिश्लोकत्रयमेकं वाक्यम् । शतं शतमिति प्रतिदिशमिति शेषः । विस्तीर्णविपुलोरस्काः अत्यन्तविशालोरस्काः । शोणांशुवसनाः रक्तकान्तियुक्तवस्त्राः, एवम्भूता य इमे तिष्ठन्तीत्यन्वयः । येषां सर्वेषामुरोदेशेषु हाराः ज्वलनसन्निभाः अग्निवच्छुक्लभास्वराः दृश्यन्ते । रूपमित्यत्रापि ये इत्यध्याहार्यम् । पञ्चविंशातिः वर्षाः परिमाणमस्य पञ्चविंशतिवार्षिकम् । “तदस्य परिमाणम्” इति ठक् । “वर्षस्याभविष्यति” इत्युत्तरपदवृद्धिः । एवम्भूतं रूपं शरीरं ये बिभ्रति । “अदभ्यस्तात्” इत्यदादेशः । पञ्चविंशतिवार्षिकमिति यौवनावस्थोच्यते । “कौमारं स्यात्पञ्चदशाद्यौवनं तु ततः परम् ” इत्युक्तेः । त इमे सुरा इत्यध्याहार्यम् ॥ 3.5.1517 ॥

एतद्धि किल देवानां वयो भवति नित्यदा ।

यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शानाः ॥ 3.5.18 ॥

तत्र युक्तिमाह एतद्धीति । एतत् पञ्चविंशतिवार्षिशिकं वयः शरीरावस्था देवानां नित्यदा भवति । नित्यदेति निपातः । किलेति प्रसिद्धौ । यथेमे वसनाभरणादिभिश्चारुदर्शनाः तथा किल देवा इति योजना । 3.5.18 ॥

इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण ।

यावज्जानाम्यहं व्यक्तं क एष द्युतिमान् रथे ॥ 3.5.19 ॥

रथे इत्यनेन तदानीं रामं दृष्ट्वा रथमारुढ इत्यवगम्यते । यावज्जानामि ज्ञास्यामि । “यावत्पुरानिपातयोर्लट्” इति लट् । व्यक्तम् अनुमितिं विना स्पष्टं प्रत्यक्षेण ज्ञास्यामित्यर्थः ॥ 3.5.19 ॥

तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति ।

अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति ॥ 3.5.20 ॥

विरहासहिष्णुतया अनुव्रजन्तं लक्ष्मणं पुनः प्रदिश्य जागमेत्याह तमेवमिति ॥ 3.5.20 ॥

ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः ।

शरभङ्गमनुप्राप्य विविक्त इदमब्रवीत् ॥ 3.5.21 ॥

अनुप्राप्य एकान्तवचनश्रवणाय समीपमागत्य । विविक्ते रहसि वक्ष्यमाणस्यातिगोप्यत्वात् ॥ 3.5.21 ॥

इहोपयात्यसौ रामो यावन्मां नाभिभाषते ।

निष्ठां नयतु तावत्तु ततो मां द्रष्टुमर्हति ॥ 3.5.22 ॥

असौ रामः इह मत्समीपे उपयाति । उपयानसौ यावति काले मां नाभिभाषते तावत्स्वफ्रतिज्ञां निष्ठां समाप्तिं नयतु । “निष्ठा निष्पत्तिनाशान्ताः” इत्यमरः । मया असम्भाषमाण एव स्वप्रतिज्ञां निर्वर्तयतु, मया सम्भाषणे ऽस्य देवत्वप्रकटनं स्यादिति भावः । सम्भाषणाभावे ऽपि दर्शनमस्त्वित्यत आह तत इति । ततः स्वप्रतिज्ञानिष्ठानयनानन्तरं मां द्रष्टुमर्हति स मां पश्यतु ॥ 3.5.22 ॥

[तावद्गच्छामहे शीघ्रं यावन्मां नाभिभाषते]

जितवन्तं कृतार्थं च द्रष्टाहमचिरादिमम् ।

कर्म ह्यनेन कर्त्तव्यं महदन्यैस्सुदुष्करम् ।

निष्पादयित्वा तत्कर्म ततो मां द्रष्टुमर्हति ॥ 3.5.23 ॥

भवान् तं पश्यत्वित्यत्राह जितवन्तमिति । रावणं जितवन्तम्, अत एव कृतार्थं कृतदेवप्रयोजनम्, इममहमचिराद् द्रष्टा द्रष्टास्मि । दर्शनसम्भाषणाभ्यां देवत्वप्रकटने का हानिरित्यत्राह कर्मेति । हि यस्मादन्यैर्देवैर्दुष्करं महत्कर्म रावणवधादिकम् अनेन मानुषवेषेण कर्तव्यं तस्मादित्यर्थः ॥ 3.5.23 ॥

इति वज्री तमामन्त्र्य मानयित्वा च तापसम् ।

रथेन हरियुक्तेन ययौ दिवमरिन्दमः ॥ 3.5.24 ॥

इति उक्तप्रकारेण । तापसं तापसवेषम् । मानयित्वा बहुमान्य । तं शरभङ्गमामन्त्र्य । हरियुक्तेन अश्वयुक्तेन रथेन दिवं ययौ ॥ 3.5.24 ॥

प्रयाते तु सहस्राक्षे राघवस्सपरिच्छदम् ।

अग्निहोत्रमुपासीनं शरभङ्गमुपागमत् ॥ 3.5.25 ॥

प्रयाते त्विति सामागमनोद्योगकाल एवेन्द्रस्य प्रयातत्वात् । सपरिच्छदं स्त्रीभ्रातृरूपपरिवारसहितं यथा भवति तथा । अग्निहोत्रं वह्निम् । उपासीनं तत्र प्रवेशार्थमुपतिष्ठन्तं शरभङ्गमुपागमत् ॥ 3.5.25 ॥

तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः ।

निषेदुस्समनुज्ञाता लब्धवासा निमन्त्रिताः ॥ 3.5.26 ॥

समनुज्ञाताः आसनाय कृतानुमतिकाः । लब्धवासाः मुनितो लब्धासनाः । ततो निमन्त्रिनाः सत्कृताश्च सन्तः निषेदुः ॥ 3.5.26 ॥

ततः शक्रोपयानं तु पर्यपृच्छत् स राघवः ।

शरभङ्गश्च तत्सर्वं राघवाय न्यवेदयत् ॥ 3.5.27 ॥

शक्रोपयानम् इन्द्रागमननिमित्तम् ॥ 3.5.27 ॥

मामेष वरदो राम ब्रह्म लोकं निनीषति ।

जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः ॥ 3.5.28 ॥

कथं न्यवेदयदित्यत्राह मामिति सर्वेषां वरं ददातीति वरदः एषः इन्द्रः मां ब्रह्मलोकं निनीषति नेतिमिच्छति, ब्रह्माज्ञयेति शेषः ॥ 3.5.28 ॥

अहं ज्ञात्वा नरव्यघ्र वर्तमानमदूरतः ।

ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम् ॥ 3.5.29 ॥

तर्हि किमर्थं न गतो ऽसीत्यत्राह अहमिति । हे नरव्याघ्र अदूरतो वर्तमानं मनसि सदा सन्निहितं त्वां योगतो ज्ञात्वा प्रियातिथिं त्वामदृष्ट्वा त्वदनुभवानन्दं विहाय ब्रह्मलोकम् “आब्रह्मभवनाल्लोकाः पुनरावर्तिनः” इत्युक्तलोकं न गच्छामि ॥ 3.5.29 ॥

त्वयाहं पुरुषव्याघ्र धार्मिकेण महात्मना ।

समागम्य गमिष्यामि त्रिदिवं देवसोवितम् ॥ 3.5.30 ॥

तर्हि केन साधनेन कं लोकं गमिष्यसीत्यत्राह त्वयेति । धार्मिकेण धर्मस्वरूपेण । स्वार्थे ठक् । महात्मना सत्यसङ्कल्पेन त्वया समागम्य त्वत्कटाक्षविषयो भूत्वा देवसेवितं “यत्र पूर्वे साध्याः सन्ति देवाः” इत्युक्तरीत्या नित्यसूरिसेवितं त्रिदिवं त्रिपाद्विभूतिं ब्रह्मलोकादुत्कृष्टं गमिष्यामि, ब्रह्मलोकं न गच्छामि त्रिदिवं गमिष्यामीत्यनेनायमर्थो ऽवगम्यते ॥ 3.5.30 ॥

अक्षया नरशार्दूल मया लोका जिताश्शुभाः ।

ब्राह्म्याश्च नाकपृष्ट्याश्च प्रतिगृह्णीष्व मामकान् ॥ 3.5.31 ॥

एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः ।

ऋषिणा शरभङ्गेण राघवो वाक्यमब्रवीत् ॥ 3.5.32 ॥

क्रमेण तथा भविष्यति आर्जितकर्मफलानि प्रथममनुभवेत्यत आह अक्षया इति । ब्राह्म्याः ब्रह्मलोकभवाः । नाकपृष्ठ्याः स्वर्गलोकभवाः । अक्षयाश्चिरकालस्थायिनः । ये लोकाः भोगभूमयः मया आर्जिताः तान् मामकान् प्रतिगृह्णीष्व, मत्कृतानि सर्वाणि सुकृतानि त्वदर्पितानि सन्त्विति भावः । सर्वत्रातिथिसत्कारः प्रातीतिको ऽर्थः । कर्मणां भगवदर्पणं नाम फलसङ्गत्यागकर्तृत्वत्यागपूर्वकं भगवत्कैङ्कर्यतयानुष्ठानम् ॥ 3.5.31,32 ॥

अहमेवाहरिष्यामि सर्वलोकान् महामुने ।

आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ 3.5.33 ॥

तदिदमङ्गीकुर्वन् तस्य वाचिककैङ्कर्यं नियमयति अहमेवेति । आहरिष्याम्येव स्वीकरिष्याम्येव । सर्वलोकान् त्वया मय्यर्पितान् । इह कानने प्रदिष्टं त्वया निर्दिष्टम् आवासं त्विच्छिमि । तुशब्देन त्वदभिमतदेश एव वास इत्युच्यते । “सा काशीति न चाकशीति भुवि सायोध्येति नाध्यास्यते ” इत्यादिकमिहानुसन्धेयम् ॥ 3.5.33 ॥

राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै ।

शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः ॥ 3.5.34 ॥

राघवेणेति । महाप्राज्ञ इत्यनेन मृगरूपमारीचनिरसनं मनसि कृतवानिति सूचयति ॥ 3.5.34 ॥

इह राम महातेजास्सुतीक्ष्णो नाम धार्मिकः ।

वसत्यरण्ये धर्मात्मा स ते श्रेयो विधास्यति ॥ 3.5.35 ॥

सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् ।

रमणीये वनोद्देशे स ते वासं विधास्यति ॥ 3.5.36 ॥

धार्मिकः धर्मचारी । धर्मात्मा धर्मबुद्धिः । वसति अदूर इति शेषः ॥ 3.5.35,36 ॥

इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज ।

नदीं पुष्पोडुपवहां तत्र तत्र गमिष्यसि ॥ 3.5.37 ॥

मन्दाकिनीशब्दः पुण्यनदीमात्रे मुनिभिरुपचर्यते अत एव चित्रकूटे ऽप्युक्तम् । प्रतिस्रोतामिति टाबार्षः । प्रतिस्रोतसं कृत्वा ऽमनुसृत्य व्रज, नद्यां पूर्ववाहिन्यां पुरुषेण पश्चिमाभिमुखतया गमने प्रतिस्रोतस्त्वं भवति । पुष्पोडुपवहाम् उडुपः प्लवः उडुपाकारपुष्पचयावहामित्यर्थः । नदीं तत्र तत्र गमिष्यसीत्यनेन क्वचिन्नदीतीरे क्वचिद्व्यवहिते च मार्ग इत्युच्यते ॥ 3.5.37 ॥

एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् ।

यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः ॥ 3.5.38 ॥

एषा पन्था इति । अनयोक्तया सुतीक्ष्णाश्रममार्गो हस्तेन निर्दिश्यते । अथ मुनिः स्वदेहत्यागकाले रामसन्निधानमर्थयते मुहुर्तं पश्य तात मामिति । तात सर्वलोकजनक ॥ 3.5.38 ॥

ततो ऽग्निं सुसमाधाय हुत्वा चाज्येन मन्त्रवित् ।

शरभङ्गो महातेजाः प्रविवेश हुताशनम् ॥ 3.5.39 ॥

तस्य रोमाणि केशांश्च ददाहाग्निर्महात्मनः ।

जीर्णां त्वचं तथास्थीनि यच्च मांसं सशोणितम् ॥ 3.5.40 ॥

सामस्तु विस्मितो भ्रात्रा भार्यया च सहात्मवान् ॥ 3.5.41 ॥

मन्त्रवित् ब्रह्ममेधमन्त्रवित् शरभङ्गः अग्निं सुसमाधाय परिस्तरणादिभिरलङ्कृत्य आज्येन ब्रह्ममेधमन्त्रैर्हुत्वा हुताशनं प्रविवेश । अत्र विधिः “यद्युत्कण्ठा तदावाप्तौ ब्रह्ममेधानलं व्रजेत् । नाभिवक्त्रात्मगानग्नीनवरोप्य यथास्थलम् ॥ संस्कारयेत् ” इति ॥ 3.5.3941 ॥

स च पावकसङ्काशः कुमारः समपद्यत ।

उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत ॥ 3.5.42 ॥

स लोकानाहिताग्नीनामृषीणां च महात्मनाम् ।

देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥ 3.5.43 ॥

अथास्य देवयानमार्गेण ब्रह्मलोकप्राप्तिं दर्शयति स चेत्यादिना । कुमारलक्षणमुक्तं रत्नाकरे “बालो ऽथ पञ्चदशभिस्त्रिंशद्भिस्तु कुमारकः” इति । ब्रह्मलोकं “ते ऽर्चिषमभिसम्भवत्यर्चिषोहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान् मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः स एनान् ब्रह्म गमयति ” इत्युक्तं ब्रह्मात्मकं लोकम् ॥ 3.5.42,43 ॥

स पुण्यकर्मा भवने द्विजर्षभः पितामहं सानुचरं ददर्श ह ।

पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागतमित्युवाच ह ॥ 3.5.44 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रामदारण्यकाण्डे पञ्चमः सर्गः ॥ 5 ॥

स इति । अत्र पितामहशब्दो ऽपि सविग्रहपरमात्मपरः । सर्वमिदं शरभङ्गस्य रामसान्निध्यप्रतीक्षया व्यज्यते । अस्मिन् सर्गे चतुश्चत्वारिंशच्छ्लोकाः ॥ 3.5.44 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चमः सर्गः ॥ 5 ॥