श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वितीयः सर्गः
कृतातिथ्यो ऽथ रामस्तु सूर्यस्योदयनं प्रति ।
आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत ॥ 3.2.1 ॥
एवं प्रथमसर्गेण सिद्धसाधननिष्ठानां मुमुक्षूणां मुनीनां तदीयपर्यन्तं विशिष्टविषयकैङ्कर्यं प्रतिपाद्य खरवधार्थिंमुनिजनशरणागतिं वक्ष्यन् शरण्यत्वोपयोगिसामर्थ्यं विराधवधकथनमुखेन बोधयितुमुपक्रमते कृतातिथ्य इत्यादिना । अत एव सङ्क्षेपे “विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह” इत्यत्र विराधवधोपहारमुखेन शरभङ्गं दृष्टवानिति व्याख्यातम् । तुशब्देन अत्र्यादिकृतातिथ्याद्वैलक्षण्यमुच्यते । अनन्यप्रयोजनदत्तं हि भगवतः परमभोग्यं पत्रं
पुष्ममित्यादि । अथशब्दः कृत्स्नवाची, कार्त्स्न्येन कृतातिथ्य इत्यर्थः । भक्तैर्यत् यत्किञ्चिद्दत्तमपि तत् सर्वातिथ्यत्वेन हि भगवान् स्वीकरोति । सूर्यस्योदयनं प्रतीति कर्मप्रवचनीययोगे द्वितीया । “लक्षणेत्थम्भूताख्यान” इत्यादिना प्रतेः कर्मप्रवचनीयत्वम् । उदयनं प्रति उदयकाले, प्रातःस्नानादि कर्मावसान इत्यर्थः । वनमेवान्वगाहत न च तत्र स्थातुमैच्छदित्यर्थः ॥ 3.2.1 ॥
नानामृगगणाकीर्णं शार्दूलवृकसेवितम् ।
ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम् ॥ 3.2.2 ॥
निष्कूजनानाशकुनिझिल्लिकागणनादितम् ।
लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ॥ 3.2.3 ॥
नानामृगगणेत्यादिश्लोकद्वयमेकान्वयम् । ध्वस्तवृक्षलतागुल्मं तुङ्गकठिनविराधदेहसम्पर्कादिति भावः । दुर्दर्शसलिलाशयमित्यत्राग्रेप्ययमेव हेतुः । निष्कूजनानाशकुनि निःशब्दनानाविधपक्षिकम्, सुदूरमुड्डीयमानोपि पक्षी तस्मात् भिया निःशब्दं लीयत इति भावः । झिल्लिकागणनादितं झिल्लिकाभिस्तु दुर्दर्शत्वात् सर्वदा शब्द्यत इत्यर्थः । नानेत्यादि सर्वे वनमध्यविशेषणम् ॥ 3.2.2,3 ॥
सीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते ।
ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ॥ 3.2.4 ॥
सीतया सहेत्यादि सार्धश्लोकचतुष्टयमेकान्वयम् । घोरमृगास्तरक्ष्वादयः । पुरुषानत्ति भक्षयतीति पुरुषादः । पचाद्यच् । राक्षसमित्यर्थः । महास्वनं दृढकण्ठध्वनिकम् ॥ 3.2.4 ॥
गम्भीराक्षं महावक्त्रं विकटं विषमोदरम् ।
बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् ॥ 3.2.5 ॥
गम्भीराक्षं निम्नाक्षम् । महावक्रं पृथुतरमुखम् । विकटं विशालम् । विषमोदरं निम्नोन्नतोदरम् । बीभत्सं मांसरुधिरालिप्तशरीरतया कुत्सितम् । विषमं न्यूनाधिकावयवम् । विकृतम् उक्तप्रकारेण विकृतवेषम् अत एव घोरदर्शनम् ॥ 3.2.5 ॥
वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम् ।
त्रासनं सर्वभूतानां व्यादितास्य मिवान्तकम् ॥ 3.2.6 ॥
वसा मांसं तया आर्द्रम् । रुधिरोक्षितं रक्तसिक्तम् । व्यादितास्यं व्यात्तास्यम् । आर्ष इट् ॥ 3.2.6 ॥
त्रीन् सिंहांश्चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश ।
सविषाणं वसादिग्धं गजस्य च शिरो महत् ।
अवसज्यायसे शूले विनदन्तं महास्वनम् ॥ 3.2.7 ॥
त्रीनित्यादि । भक्षणार्थमिति शेषः । पृषतान् बिन्दुमृगान् । आयसे अयोमये शूले । अवसज्य प्रोतान् कृत्वा महास्वनं यथा तथा विनदन्तं विनादं कुर्वन्तम् ॥ 3.2.7 ॥
स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् ।
अभ्यधावत सङ्क्रुद्धः प्रजाः काल इवान्तकः ॥ 3.2.8 ॥
काले संहारकाले । प्रजा उद्दिश्य अन्तको यथा धावति तथा अभ्यधावत । 3.2.8 ॥
स कृत्वा भैरवं नादं चालयन्निव मेदिनीम् ।
अङ्केनादाय वैदेहीमपक्रम्य ततो ऽब्रवीत् ॥ 3.2.9 ॥
अङ्केन काटिप्रदेशेन ॥ 3.2.9 ॥
युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ ।
प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ ॥ 3.2.10 ॥
सभार्याविति भार्याशब्दो योषिन्मात्रवाचीत्येके वदन्ति । अन्ये तु यथा “प्राणभृत उपदधाति” इत्यत्र प्राणभृच्छब्दः प्राणभृदप्राणभृत्साधारणः, यथा च “ऋतं पिबन्तौ” इत्यत्र पानकर्त्रकर्तृसाधारणो जीवेश्वरयोः पिबच्छब्दप्रयोगः तथा छत्त्रिन्याये नात्रापि सभार्यावित्युक्तमित्याहुः । तथापि ध्वनिदोषो ऽवर्जनीयः । वस्तुतस्तु द्वयोरेका भार्यास्तीति दुर्बुद्धिनैवमुक्तमिति सम्यक् । क्षीणजीवितौ मद्धस्ते पतनादिति भावः । यद्वा क्षीणजीवितौ प्रविष्टौ क्षीणजीवितत्वादेव प्रविष्टौ । अत्र प्रविष्टानां जीवितं दुर्लभमिति भावः ॥ 3.2.10 ॥
कथं तापसयोर्वां च वासः प्रमदया सह ।
अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ ॥ 3.2.11 ॥
वस्तुतो विपरीताचारौ युवां मम वध्यावेवेत्याशयेनाह कथमिति । वां युवयोः सह वासश्च कथम्, विरुद्ध इत्यर्थः । “न चवाहा ” इति निषेधे ऽपि वामादेशः आर्षः । कथंशब्दोक्तं विवृणोति अधर्मेति । मुनिदूषकौ मुनिवेषविरुद्धशरचापासिधारणादिति भावः । अत एव पापौ ॥ 3.2.11 ॥
अहं वनमिदं दुर्गं विराधो नाम राक्षसः ।
चरामि सायुधो नित्यमृषिमांसानि भक्षयन् ॥ 3.2.12 ॥
इयं नारी वरारोहा मम भार्या भविष्यति ।
युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे ॥ 3.2.13 ॥
मृधे युद्धे ॥ 3.2.12,13 ॥
तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः ॥ 3.2.14 ॥
श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा ।
सीता प्रावेपतोद्वेगात्प्रवाते कदली यथा ॥ 3.2.15 ॥
सगर्वितं सगर्वम् । भावे निष्ठा । उद्वेगात् भयात् ॥ 3.2.14,15 ॥
तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् ।
अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥ 3.2.16 ॥
पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम् ।
मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् ।
अत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम् ॥ 3.2.17 ॥
परिशुष्यता शोकसङ्कुचितेन मुखेन उपलक्षितः ॥ 3.2.16,17 ॥
यदभिप्रेतमस्मासु प्रियं वरवृतं च यत् ।
कैकेय्यास्तु सुसम्पन्नं क्षिप्रमद्यैव लक्ष्मण ॥ 3.2.18 ॥
कैकेय्याः अस्मासु विषये यदभिप्रेतं यो ऽभिप्रायः । यच्च प्रियं वरवृतं वरव्याजेन वृतं तदद्यैव सुसम्पन्नं फलितम् ॥ 3.2.18 ॥
या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ॥ 3.2.19 ॥
ययाहं सर्वभूतानां हितः प्रस्थापितो वनम् ।
अद्येदानीं सकामा सा या माता मम मध्यमा ॥ 3.2.20 ॥
अभिप्रेतशब्दोक्तं सूक्ष्मेक्षिकया विवृणोति या न तुष्यतीति । दीर्घदर्शिन्या कैकैय्या अस्मद्व्यसनं पूर्वमेव यदि न चिन्तितं स्यात्तर्हि पुत्रार्थे राज्यमेव, न तु मत्प्रवासनम् । मत्प्रवासनवरणादेव गम्यते अयं वनं गतश्चेत् सीतापि गच्छेत् सा च राक्षसादिभिरपह्रियेत, तेन रामोपि व्यसनं महत्प्राप्नुयात्, ततश्च मत्पुत्रस्य राज्यं निष्कण्टकं स्यादिति कैकेयी नूनममन्यतेति भावः । पुत्रार्थे पुत्रप्रयोजननिमित्तम् । माता मम मध्यमेति । यद्यपि पूर्वं मम माता कनीयसीत्युक्तम्, तथापि महिषीत्रयापेक्षया कनीयसीत्वं सर्वदशरथपत्न्यपेक्षया मध्यमात्वम्, त्रिशतं पञ्चाशच्च दशरथपत्न्यः सन्तीति पूर्वमेवोक्तम् । अद्य अस्मिन् दिवसे । इदानीम् अस्मिन् क्षणे ॥ 3.2.19,20 ॥
परस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे ।
पितुर्वियोगात्सौमित्रे स्वराज्यहरणात्तथा ॥ 3.2.21 ॥
किं ते तादृशं व्यसनं तत्राह परस्पर्शादिति । वैदेह्याः परस्पर्शाद्यथा दुःखतरम् अतिदुःखं पितृवियोगाद्राज्यहरणाच्च तथा दुःखं नास्तीति योजना ॥ 3.2.21 ॥
इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते ।
अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥ 3.2.22 ॥
इतीति । रुद्धः मन्त्रगणेनिरुद्धः । नागः सर्पः । श्वसन् रामशोकदर्शनादिति भावः ॥ 3.2.22 ॥
अनाथ इव भूतानां नाथस्त्वं वासवोपमः ।
मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे ॥ 3.2.23 ॥
वासवोपमो भूतानां नाथः सन् अनाथ इव नाथसापेक्षो नर इव । विशिष्य मया प्रेष्येण सहितोपि किमर्थं परितप्यसे । वास्तवार्थस्तुभूतानां सर्वलोकानां नाथः वासव उपमीयते ऽनेनेति वासवोपमः त्वम् अनाथ इव नाथभिन्न इव किमर्थं परितप्यसे । एवमेव तत्त्वं जगुः । यथा विश्वामित्रः “अहं वेद्मि महात्मानम् ” इति । यथा च परशुरामः “त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः” इति । एवमृषयोपि ॥ 3.2.23 ॥
शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः ।
विराधस्य गतासोर्हि मही पास्यति शोणितम् ॥ 3.2.24 ॥
प्रेष्येणे त्वया किं क्रियत इत्यत्राह शरेणेति ॥ 3.2.24 ॥
राज्यकामे मम क्रोधो भरते यो बभूव ह ।
तं विराधे प्रमोक्ष्यामि वज्री वज्रमिवाचले ॥ 3.2.25 ॥
कैकैय्याः भरतार्थं राज्यकाङ्क्षित्वात् भरतस्यापि राज्यकामत्वम् । तं विराधे विमोक्ष्यामीति शरणागते भरते दुर्विमोचत्वादिति भावः । ननु भरतकैकेयीभ्यामज्ञानात् प्रवासनं कारितं पुनरागन्तव्यमिति क्षमापणस्य कृतत्वात् कुतः पुनः रामलक्ष्मणाभ्यां तत्र राज्यापहारित्वमनुस्मर्यते? उच्यते अनन्तरं तथानुष्ठाने ऽपि पूर्वं कैकेय्या तथा चिन्तितत्वात्तस्य चावश्यकर्तव्यत्वाद्दुःखकाले तच्चिन्तनम् । तथापि व्यसनकाले ऽपि परदोषोद्धाटनं सत्पुरुषानुचितं रामप्रकृतिविरुद्धं च सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टमिति न्यायेन दोषदर्शनमेव रामस्य हार्दं तदुपेक्षकत्वं त्वभिनयमात्रमिति स्यात् । अत्रोच्यते व्यसनकाले लोको वाच्यमवाच्यं च न जानातीत्यमुमर्थं व्यञ्जयितुमेवमुक्तमिति ॥ 3.2.25 ॥
मम भुजबलवेगवेगितः पततु शरो ऽस्य महान् महोरसि ।
व्यवसयतु तनोश्च जीवितं पततु ततस्स महीं विघूर्णितः ॥ 3.2.26 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वितीयः सर्गः ॥ 2 ॥
ममेति । भुजबलवेगेन धनुराकर्षणवेगेन वेगितः आनीतवेगः । इतजन्तो वा । विघूर्णितः सञ्जातभ्रमणः ॥ 3.2.26 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्वितीयः सर्गः ॥ 2 ॥