श्रीरामायणे श्रीवाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदयोध्याकाण्डे एकोनविंशत्युत्तरशततमः सर्गः
अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।
पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ 2.119.1 ॥
व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।
यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया ।
रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ॥ 2.119.2 ॥
अथात्र्याश्रमे रजनीमुषित्वा प्रातर्निर्गम एकोनविंशत्युत्तरशततमे–अनसूयेत्यादि ॥ 2.119.12 ॥
रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् ।
दिवसं प्रतिकीर्णानामाहारार्थं पतत्ित्रणाम् ।
सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः ॥ 2.119.3 ॥
रविरित्यादि । उपोह्य समीपं प्रापय्य स्वसंचाराद् विमुक्तं प्रदेशं प्रापय्येत्यर्थः ॥ 2.119.3 ॥
एते चाप्यभिषेकार्द्रा मुनयः कलशोद्यताः ।
सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः ॥ 2.119.4 ॥
एत इति । कलशोद्यताः उद्यतकलशाः ॥ 2.119.4 ॥
ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ।
कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः ॥ 2.119.5 ॥
कपोताङ्गारुणः कपोतकन्धरावदव्यक्तरागः । “अव्यक्तरागस्त्वरुणः” इत्यमरः ॥ 2.119.5 ॥
अल्पपर्णाहि तरवो घनीभूताः समन्ततः ।
विप्रकृष्टेपि देशे ऽस्मिन्न प्रकाशन्ति वै दिशः ॥ 2.119.6 ॥
विप्रकृष्टेपि देशे अल्पपर्णाः ये तरवस्तेपि समन्ततः घनीभूताहि अव्यक्तपर्णान्तरालत्वात् सान्द्रीभूता इव । तत्र हेतुमाह न प्रकाशन्ति वै दिश इति ॥ 2.119.6 ॥
रजनीचरसत्त्वानि प्रचरन्ति समन्ततः ।
तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥ 2.119.7 ॥
सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता ।
जोत्स्नाप्रावरणश्चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे ॥ 2.119.8 ॥
रजनीचरेति । वेदितीर्थेषु वेद्यवतरणप्रदेशेषु । “तीर्थं मन्त्राद्युपाध्यायशास्त्रेष्वम्भसि पावने । पात्रोपधावतरणेषु” इति वैजयन्ती ॥ 2.119.78 ॥
गम्यतामनुजानामि रामस्यानुचरी भव ।
कथयन्त्या हि मधुरं त्वयाहं परितोषिता ॥ 2.119.9 ॥
अनुजानामि अनुमतिं करोमि । अनुचरी भवेति पाठः ॥ 2.119.9 ॥
अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ।
प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ॥ 2.119.10 ॥
सा तथा समलंकृत्य सीता सुरसुतोपमा ।
प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥ 2.119.11 ॥
तथा तु भूषितां सीतां ददर्श वदतां वरः ।
राघवः प्रीतिदानेन तपस्विन्या जहर्ष च ॥ 2.119.12 ॥
अलङ्कुर्विति । अलङ्कुरु आत्मानमिति शेषः ॥ 2.119.1012 ॥
न्यवेदयत्ततः सर्वं सीता रामाय मैथिली ।
प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ॥ 2.119.13 ॥
प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः ।
मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ॥ 2.119.14 ॥
ततस्तां शर्वरीं प्रीतः पुण्यां शशिनिभाननः ।
अर्चितस्तापसैः सिद्धैरुवास रघुनन्दनः ॥ 2.119.15 ॥
न्यवेदयदिति । प्रीत्या दीयत इति प्रीतिदानम् । कर्मणि ल्युट् । वसनाभरणस्रजां समाहारोवसनाभरणस्रजम् “द्वन्द्वाच्चुदषहान्तात्समाहारे” इति समासान्तष्टच् । वसनाभरणस्रजामितिपाठे प्रीतिदानमिति भावे ल्युट् ॥ 2.119.1315 ॥
तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ।
आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ॥ 2.119.16 ॥
तस्यामिति । अभिषिच्य हुताग्निकान् स्नात्वा कृतहोमान् ॥ 2.119.16 ॥
तावूचुस्ते वनचरास्तापसा धर्मचारिणः ।
वनस्य तस्य सञ्चारं राक्षसैः समभिप्लुतम् ॥ 2.119.17 ॥
ताविति । वनस्य सञ्चारं कन्दमूलफलाद्यहरणार्थं सञ्चारम् । राक्षसैः समभिप्लुतं सम्यक् उपद्रुतमूचुः ॥ 2.119.17 ॥
रक्षांसि पुरुषादानि नानारूपाणि राघव ।
वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशनाः ॥ 2.119.18 ॥
उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् ।
अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ॥ 2.119.19 ॥
एष पन्था महर्षीणां फलान्याहरतां वने ।
अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥ 2.119.20 ॥
रक्षांसीति । व्यालाः हिंस्रपशवः । “सर्प्पहिंस्रपशू व्यालौ” इत्यमरः ॥ 2.119.1820 ॥
इतीव तैः प्राञ्जलिभिस्तपस्विभिर्द्विजैः कृतः स्वस्त्ययनः परं तपः ।
वनं सभार्य्यः प्रविवेश राघवः सलक्ष्मणः सूर्य्यमिवाभ्रमण्डलम् ॥ 2.119.21 ॥
इतीवेति । तैः प्राञ्जलिभिः तपस्विभिः द्विजैःकृतस्वस्त्ययनः कृतमङ्गलाशीर्वचनः ॥ 2.119.21 ॥
इत्यार्षे श्रीरामायणे श्रीवाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदयोध्याकाण्डे एकोनविंशत्युत्तरशततमः सर्गः ॥ 119 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनविंशत्युत्तरशततमः सर्गः ॥ 119 ॥
इत्ययोध्याकाण्डः ॥ 2 ॥
इत्थं श्रीमच्छठारेश्चरणसरसिजद्वन्द्वनिर्द्वन्द्वसेवानिर्द्धूताशेषमोहो निरुपमधिषणः कौशिकानां कुलेन्दुः । गोविन्दार्य्यो ऽनिवार्य्यप्रतिकथकगजस्तोमपञ्चास्यरूपष्टीकां पीताम्बराख्यां व्यतनुत विपुलां साधुसाकेतकाण्डे ॥ 1 ॥
अयोध्याकाण्डः समाप्तः ॥ 2 ॥