श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदशोत्तरशततमः सर्गः
राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् ।
न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥ 2.117.1 ॥
अथ रामस्यात्र्याश्रमप्रवेशः सप्तदशोत्तरशततमे–राघव इत्यादिना ॥ 2.117.1 ॥
इह मे भरतो दृष्टो मातरश्च सनागराः ।
सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥ 2.117.2 ॥
बहुकारणान्येवाह–इह म इत्यादिना ॥ 2.117.2 ॥
स्कन्धावारनिवेशेन तेन तस्य महात्मनः ।
हयहस्तिकरीषैश्च उपमर्द्दः कृतो भृशम् ॥ 2.117.3 ॥
स्कन्धावारनिवेशेन सेनानिवेशेन । करीषैश्च उपमर्द इत्यत्र वाक्यसंहिताया अनित्यत्वान्न सन्धिकार्य्यम् । “पदेषु संहिता नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥” इति वचनात् ॥ 2.117.3 ॥
तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः ।
प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः ॥ 2.117.4 ॥
सो ऽत्रेराश्रममासाद्य तं ववन्दे महायशाः ।
तं चापि भगवानत्रिः पुत्रवत् प्रत्यपद्यत ॥ 2.117.5 ॥
तस्मादिति । प्रातिष्ठत प्रस्थितः ॥ 2.117.45 ॥
स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।
सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥ 2.117.6 ॥
आतिथ्यमादिश्य आतिथ्यं कृत्वा ॥ 2.117.6 ॥
पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् ।
सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः ॥ 2.117.7 ॥
सत्कृतां सर्वैः सत्कृताम् ॥ 2.117.7 ॥
अनसूयां महाभागां तापसीं धर्मचारिणीम् ।
प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः ।
रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ॥ 2.117.8 ॥
प्रतिगृह्णीष्वेत्यत्र इतिकरणं द्रष्टव्यम् ॥ 2.117.8 ॥
दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ।
यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ॥ 2.117.9 ॥
उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ।
दशवर्षसहस्राणि यया तप्तं महत्तपः ॥ 2.117.10 ॥
अनसूया व्रतैः स्नाता प्रत्यूहाश्च निवर्त्तिताः ।
देवकार्यनिमित्तं च यया संत्वरमाणया ।
दशरात्रं कृता रात्रिः सेयं मातेव ते ऽनघ ॥ 2.117.11 ॥
दशवर्षाणीत्यारभ्य सेयं मातेव तेनघेत्यन्तमेकं वाक्यम् । दशवर्षाण्यनावृष्ट्या लोके दग्धे सति यया स्वतपोमहिम्ना निरन्तरं मूलफले सृष्टे । जाह्नवी च प्रवर्तिता । यया दशवर्षसहस्राणि महत्तपस्तप्तं कृतम् । यया व्रतैः कृच्छ्रचान्द्रायणादिभिः प्रत्यूहास्तपोविघ्नाश्च निवर्तिताः निरस्ताः । देवकार्यनिमित्तं सन्त्वरमाणया यया दशरात्रमेकारात्रिश्च कृता दशरात्रावधिकः कालः एकरात्रत्वेन कृत इत्यर्थः । इयं कथा पुराणेषु द्रष्टव्या । उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता, सेयमनसूया ते मातेव मातृवत्पूजनीयेत्यर्थः ॥ 2.117.911 ॥
तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् ।
अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ।
अनसूयेति या लोके कर्मभिः ख्यातिमागता ॥ 2.117.12 ॥
एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः ।
सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ 2.117.13 ॥
राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ।
श्रेयोर्थमात्मनः श्रीघ्रमभिगच्छ तपस्विनीम् ॥ 2.117.14 ॥
सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः ।
तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ॥ 2.117.15 ॥
तामित्यादि । या कर्मभिरनन्यशक्यैः परानुग्रहार्थतपोविशेषैः अनसूया असूयारहितेति लोके ख्यातिमागता । यद्वा कर्मभिः पातिव्रत्यवर्द्धकैः अन्याभिः कर्त्तुमशक्यैः पतिरक्षणादिकर्मभिः । अनसूया अस्पर्द्धनीयमाहात्म्ययुक्तत्वादसूयितुमशक्या इति लोके ख्यातिमागता तामिमां वैदेही अनुगच्छत्विति सम्बन्धः ॥ 2.117.1215 ॥
शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् ।
सततं वेपमानाङ्गी प्रवाते कदली यथा ॥ 2.117.16 ॥
तां तु सीता महाभागामनसूयां पतिव्रताम् ।
अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ॥ 2.117.17 ॥
शिथिलामित्यादिश्लोकद्वयमेकान्वयम् । शिथिलां श्लथसन्धिबन्धावयवसन्निवेशाम् । वलितां सञ्जातवलिकाम् ॥ 2.117.1617 ॥
अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ।
बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ॥ 2.117.18 ॥
अनामयम् आरोग्यम् । “अनामयं स्यादारोग्यम्” इत्यमरः ॥ 2.117.18 ॥
ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।
सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ॥ 2.117.19 ॥
दिष्ट्या भाग्येन धर्ममवेक्षसे पातिव्रत्यधर्ममवधानेन समीक्षसे ॥ 2.118.19 ॥
त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ।
अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥ 2.117.20 ॥
नगरस्थो वनस्थो वा पापो वा यदि वा शुभः ।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ 2.117.21 ॥
दुःशीलः कामवृत्तो वा धनैवा परिवर्जितः ।
स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥ 2.117.22 ॥
ज्ञातिजनं बन्धुजनम् । मानम् अहङ्कारम् । वने अवरुद्धं चतुर्दशवर्षाणि वने वस्तव्यमिति पित्रा नियुक्तम् ॥ 2.117.2022 ॥
नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।
सर्वत्रयोग्यं वैदेहि तपःकृतमिवाव्ययम् ॥ 2.117.23 ॥
सर्वत्रयोग्यं सर्वावस्थासु रक्षणसमर्थम् ॥ 2.117.23 ॥
न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रियः ।
कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति याः ॥ 2.117.24 ॥
प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ।
अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः ॥ 2.117.25 ॥
त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः ।
स्त्रियः स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ॥ 2.117.26 ॥
कामवक्तव्यहृदयाः कामविषयवक्तव्यहृदयाः, कामरूपार्थाभिलाषिण्य इति यावत् । यद्वा मदनविधेयहृदयाः ।
भर्तृनाथाः भर्तृ़णां नाथभूताः, भर्तृनियामिका इत्यर्थः । यद्वा भर्तारं नाथन्ते याचन्त इति तथा, परपुरुषकाङ्क्षिण्य इत्यर्थः ॥ 2.117.2426 ॥
तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी ।
भवस्व भर्त्तुः सहधर्मचारिणी यशश्च धर्मं च ततः समाप्स्यसि ॥ 2.117.27 ॥
समयानुवर्त्तिनीं आचारानुवर्त्तिनी । “समयाः शपथाचारकालसिद्धान्तसंविदः” इत्यमरः । भर्तुः सहधर्मचारिणी भवस्व भव । आर्षमात्मनेपदम् । ततः भर्तुः सहधर्मचारिणीत्वेन यशश्च धर्मं च कालान्तरानुभाव्यसुखसाधनमदृष्टं च समाप्स्यसि । यद्वा भर्तुः सहधर्मचारिणी एवम्भूता त्वं ततः भर्तुः सहधर्मचारिणीत्वरूपहेतोः यशश्च भवस्व प्राप्नुहीत्यर्थः । धर्मं च समाप्स्यसि भूप्राप्तावत्मनेपदीति गणपाठात् प्राप्त्यर्थस्य भवतेरात्मनेपदम् । पातिव्रत्यधर्मेण सर्वैः श्लाघां प्राप्य कालान्तरे तज्जन्यादृष्टद्वारा निरतिशयं श्रेयः समवाप्स्यसीत्यर्थः । इति धर्मचारिण्यनसूया सीतामब्रवीदिति सम्बन्धः ॥ 2.117.27 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदशोत्तरशततमः सर्गः ॥ 117 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तदशोत्तरशततमः सर्गः ॥ 117 ॥