श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततमः सर्गः
स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः ।
अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥ 2.114.1 ॥
पूर्वसर्गान्तिमश्लेकोक्तं विस्तरेण दर्शयति चतुर्दशोत्तरशततमे–स्निग्धगम्भीरघोषेणेत्यादि । उपयान् समीपमागच्छन् ॥ 2.114.1 ॥
बिडालोलूकचरितामालीननरवारणाम् ।
तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ 2.114.2 ॥
कालीं कृष्णपक्षसम्बन्धिनीम् ॥ 2.114.2 ॥
राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।
ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ॥ 2.114.3 ॥
अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् ।
लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ 2.114.4 ॥
राहुशत्रोः चन्द्रस्य ॥ 2.114.34 ॥
विधूमामिव हेमाभामध्वराग्नेः समुत्थिताम् ।
हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥ 2.114.5 ॥
विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् ।
हतप्रवीरामापन्नां चमूमिव महाहवे ॥ 2.114.6 ॥
सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् ।
प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ॥ 2.114.7 ॥
हविरभ्युक्षितां दध्यादिहविषा अभ्युक्षिताम् । शिखां प्रवर्ग्योत्थितज्वालाम् ॥ 2.114.57 ॥
त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः ।
सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ॥ 2.114.8 ॥
यज्ञायुधैः स्फ्यादिभिः । सुत्याकाले सुत्यादिवसे ॥ 2.114.8 ॥
गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् ।
गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ॥ 2.114.9 ॥
अचरन्तीम् अभक्षयन्तीम् ॥ 2.114.9 ॥
प्रभाकराद्यैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः ।
वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ 2.114.10 ॥
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।
संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥ 2.114.11 ॥
प्रभाकराद्यैः पद्मरागाद्यैः ॥ 2.114.1011 ॥
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् ।
द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥ 2.114.12 ॥
वसन्तान्ते ग्रीष्मे । द्रुतदावाग्निविप्लुष्टां वेगवद्दावाग्निना ईषद्दग्धाम् ॥ 2.114.12 ॥
सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् ।
प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥ 2.114.13 ॥
संमूढनिगमां जनसञ्चाररहितमार्गाम् । “निगमो निश्चये वेदे पुरे पथि वणिक्पथे” इति वैजयन्ती । संक्षिप्तविपणापणां सङ्कुचितविक्रयां सङ्कुचितनिषद्यां च ॥ 2.114.13 ॥
क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम् ।
हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ॥ 2.114.14 ॥
क्षीणपानोत्तमैः क्षीणमधूत्तमैः । शरावैः चषकाकारैः । हतशौण्डां हतमत्तजनाम् । आकाशे अनावृतप्रदेशे ॥ 2.114.14 ॥
वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम् ।
उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥ 2.114.15 ॥
वृक्णभूमितलां विदीर्णभूमितलाम् । वृक्णपात्रैः भिन्नपात्रैः ॥ 2.114.15 ॥
विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।
भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥ 2.114.16 ॥
वितताम् अटनीद्वयव्याप्ताम्, आरोपितामिति यावत् । युक्तपाशां युक्तरज्जुम् । तरस्विनां वीराणां बाणैः विनिष्कृत्ताम्, छिन्नामिति यावत् । आयुधात् धनुषः ॥ 2.114.16 ॥
सहसा युद्धशौण्डेन हयारोहेण वाहिताम् ।
निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥ 2.114.17 ॥
शुष्कतोयां महामत्स्यैः कूर्मैश्च बहुभिर्वृताम् ।
प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ॥ 2.114.18 ॥
पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् ।
सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥ 2.114.19 ॥
युद्धशौण्डेन आहवसमर्थेना निक्षिप्तभाण्डाम् अवरोपिताश्वभूषाम् । उत्सृष्टां वाहनानर्हां किशोरीं बालवडवाम् ॥ 2.114.1719 ॥
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् ।
प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥ 2.114.20 ॥
भरतस्तु रथस्थः सन् श्रीमान् दशरथात्मजः ।
वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ 2.114.21 ॥
प्रविगाढायां प्रवृद्धायां भास्करस्य प्रभामिव स्थिताम् । उक्तविशेषणविशिष्टामयोध्यां प्रविवेशेति पूर्वेणान्वयः ॥ 2.114.2021 ॥
किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते ।
यथापुरमयोध्यायां गीतवादित्रनिस्वनः ॥ 2.114.22 ॥
किंनु खलु अहो कष्टं जातमित्यर्थः ॥ 2.114.22 ॥
वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छितः ।
धूपितागरुगन्धश्च न प्रवाति समन्ततः ॥ 2.114.23 ॥
यानप्रवरघोषश्च स्निग्धश्च हयनिस्वनः ।
प्रमत्तगजनादश्च महांश्च रथनिस्वनः ।
नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ॥ 2.114.24 ॥
चन्दनागरुगन्धांश्च महार्हाश्च नवस्रजः ।
गते हि रामे तरुणाः सन्तप्ता नोपभुञ्जते ॥ 2.114.25 ॥
बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नराः ।
नोत्सवाः सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ॥ 2.114.26 ॥
वारुणीमदगन्धः वारुण्याः मदोत्पादको गन्ध इत्यर्थः ॥ 2.114.2326 ॥
सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता ।
नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥ 2.114.27 ॥
सासारा वेगवद्वृष्टिसहिता । “आसारः स्यात्प्रसरणे वेगवृष्टौ सुहृद्बले” इति वैजयन्ती । अर्जुनी शुक्लपक्षसम्बन्धिनी ॥ 2.114.27 ॥
कदा नु खलु मे भ्राता महोत्सव इवागतः ।
जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः ॥ 2.114.28 ॥
महोत्सवः ग्रीष्मे अम्बुद इव च अयोध्यायां कदा मे भ्राता हर्षं जनयिष्यतीति सम्बन्धः ॥ 2.114.28 ॥
तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः ।
सम्पतद्भिरयोध्यायां नाभिभान्ति महापथाः ॥ 2.114.29 ॥
तरुणैरिति । उन्नतगामिभिः सगर्वगमनैरित्यर्थः । महापथाः राजमार्गाः ॥ 2.114.29 ॥
एवं बहुविधं जल्पन् विवेश वसतिं पितुः ।
तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ 2.114.30 ॥
एवमिति । एवं बहुविधं जल्पन्निति पाठः ॥ 2.114.30 ॥
तदा तदन्तःपुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् ।
निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरतः सुदुःखितः ॥ 2.114.31 ॥
तदेति । सुरैरुत्सृष्टमभास्करं दिनमिव उज्झितप्रभम् अन्तःपुरं निरीक्ष्येति सम्बन्धः । विविक्तं विजनम् । “विविक्तौ पूतविजनौ” इत्यमरः । पुरा किल देवासुरयुद्धे असुरैर्देवाः पराजिताः, स्वर्भानुना च भानुः पातितस्तदानीं कियान् कालो दिवारात्रविभागरहितो ऽभूत् । ततः परं ब्रह्मनियोगादत्रिः स्वतेजसा सप्तरात्रं सूर्याधिपत्यं चकारेति पौराणिकी कथा । अग्निः स्वतेजसेति पाठान्तरम् ॥ 2.114.31 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततमः सर्गः ॥ 114 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुर्दशोत्तरशततमः सर्गः ॥ 114 ॥