श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोदशोत्तरशततमः सर्गः
ततः शिरसि कृत्वा तु पादुके भरतस्तदा ।
आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः ॥ 2.113.1 ॥
अथ भरतस्यायोध्याप्रवेशः त्रयोदशोत्तरशततमे–तत इत्यादि । पादुके शिरसि कृत्वा शत्रुञ्जयमूर्ध्नि निक्षिप्ते पादुके सादरमादाय स्वमूर्ध्न्याधायेत्यर्थः ॥ 2.113.1 ॥
वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः ।
अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः ॥ 2.113.2 ॥
वसिष्ठ इति । मन्त्रपूजिताः अमोघकार्यविचारनैपुण्यात्पूजिताः ॥ 2.113.2 ॥
मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा ।
प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥ 2.113.3 ॥
मन्दाकिनीमिति । सीतारामयोर्जलक्रीडादिभिः रम्यां मन्दाकिनीं रामनिवासत्वेन महाप्रभावं चित्रकूटं गिरिं च प्रदक्षिणं कुर्वाणास्सन्तः प्राङ्मुखा ययुः ॥ 2.113.3 ॥
पश्यन् धातुसहस्राणि रम्याणि विविधानि च ।
प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ 2.113.4 ॥
पश्यन्निति । द्रुवगतिं विहाय नानाधातून् दृग्भ्यां पिबन्निव पश्यन् तस्य चित्रकूटस्य पार्श्वेन ययौ ॥ 2.113.4 ॥
अदूराच्चित्रकूटस्य ददर्श भरतस्तदा ।
आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः ॥ 2.113.5 ॥
अदूरादिति । चित्रकूटसौन्दर्य्यदर्शनाकृष्टचित्ततया अदूरादिव भासमानम् ॥ 2.113.5 ॥
स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् ।
अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ॥ 2.113.6 ॥
स इति । भरद्वाजस्य पादौ ववन्द इत्यन्वयः ॥ 2.113.6 ॥
ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् ।
अपि कृत्यं कृतं तात रामेण च समागतम् ॥ 2.113.7 ॥
एवमुक्तः स तु ततो भरद्वाजेन धीमता ।
प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सलः ॥ 2.113.8 ॥
तत इति । अपिशब्दः प्रश्ने । रामेण किं समागतं सङ्गतम् । भवता रामेण कृत्यं भवत्प्रयोजनं किं कृतमित्यर्थः ॥ 2.113.78 ॥
स याच्यमानो गुरुणा मया च दृढविक्रमः ।
राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥ 2.113.9 ॥
गुरुणा वसिष्ठेन ॥ 2.113.9 ॥
पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः ।
चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥ 2.113.10 ॥
चतुर्दशवर्षाणि वने वस्तव्यमिति कैकेयीनिमित्तं कृत पितुर्या प्रतिज्ञास्ति तामेव पितुः प्रतिज्ञां तत्त्वतः पालयिष्यामीत्यब्रवीदिति सम्बन्धः ॥ 2.113.10 ॥
एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह ।
वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥ 2.113.11 ॥
एते प्रयच्छ संहृष्टः पादुके हेमभूषिते ।
अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥ 2.113.12 ॥
एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः ।
पादुके अधिरुह्यैते मम राज्याय वै ददौ ॥ 2.113.13 ॥
निवृत्तो ऽहमनुज्ञातो रामेण सुमहात्मना ।
अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ 2.113.14 ॥
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।
भरद्वाजः शुभतरं मुनिर्वाक्यमुवाच तम् ॥ 2.113.15 ॥
एवमित्यादि । हेमभूषिते इत्यनेन रामाय प्रीत्या समर्पयितुमभिनवतया निर्माय नगरात् भरतेनानीते इति गम्यते । योगक्षेमकरे अपूर्ववस्तुलाभो योगः, लब्धस्य परिपालनं क्षेमः, एते पादुके प्रयच्छेति वासिष्ठः प्रत्युवाच हेति सम्बन्धः ॥ 2.113.1115 ॥
नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर ।
यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ॥ 2.113.16 ॥
आर्य्यं ज्येष्ठानुवर्त्तनरूपं श्रेयः । निम्ने तटाकादौ । सुष्टं धतम् ॥ 2.113.16 ॥
अमृतः स महाबाहुः पिता दशरथस्तव ।
यस्य त्वमीदृशः पुत्रो धर्मज्ञो धर्मवत्सलः ॥ 2.113.17 ॥
“प्रजामनु प्रजायसे तदुते मर्त्यामृतम्” इति श्रुत्युक्तरीत्या सत्पुत्रलाभात् मृतो ऽपि दशरथः अमृत इत्याह–अमृत इति ॥ 2.113.17 ॥
तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः ।
आमतन्त्रयितुमारेभे चरणावुपगृह्य च ॥ 2.113.18 ॥
तमिति । आमन्त्रयितुमारेभे विनयेनामन्त्रणोद्युक्त इव स्थित इत्यर्थः ॥ 2.113.18 ॥
ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनःपुनः ।
भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः ॥ 2.113.19 ॥
ततस्तदनुज्ञानन्तरम् । अत्र पुनःपुनरित्यनेन एकं प्रदक्षिणं न कार्यमित्युक्तम् । प्रदक्षिणविशेषणेन प्रणामस्तु सकृदेवेत्युक्तं भवतीत्याचार्याः । केचित्तु एकहस्तप्रणामैकप्रदक्षिणयोरिव एकप्रणामस्यापि निषिद्धत्वात् पुनःपुनरिति विशेषणस्यात्रार्थिके वा पूर्वश्लोकोक्ताभिवादनबललब्धे वा प्रणामेप्यन्वयेन न कोपि विरोध इत्याहुः । अयोध्यामुद्दिश्य ययावित्यन्वयः ॥ 2.113.19 ॥
यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमूः ।
पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ 2.113.20 ॥
भरतस्येव सेनायाश्चित्रकूटान्निवृत्तिमाह–यानैरिति ॥ 2.113.20 ॥
ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।
ददृशुस्तां पुनः सर्वे गङ्गां शुभजलां नदीम् ॥ 2.113.21 ॥
तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धवः ।
शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिकः ॥ 2.113.22 ॥
शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ॥ 2.113.23 ॥
अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् ।
भरतो दुःखसन्तप्तः सारथिं चेदमब्रवीत् ॥ 2.113.24 ॥
भरतमनुसृत्य सेनानुयानप्रकारमाह–तत इति । यमुनां तीर्त्त्वा गच्छन्तस्ते सर्वे गङ्गां ददृशुरिति सम्बन्धः ॥ 2.113.2124 ॥
सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते ।
निराकारा निरानन्दा दीना प्रतिहतस्वरा ॥ 2.113.25 ॥
सारथ इति । निराकारा निर्गतशोभनाकारा ॥ 2.113.25 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोदशोत्तरशततमः सर्गः ॥ 113 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रयोदशोत्तरशततमः सर्गः ॥ 113 ॥