श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वादशोत्तरशततमः सर्गः
तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् ।
विस्मिताः सङ्गमं प्रेक्ष्य समवेता महर्षयः ॥ 2.112.1 ॥
अथ भरतस्य समाधानं कृत्वा प्रस्थापनं द्वादशोत्तरशततमे–तमित्यादि । भातृभ्यां सङ्गमं भातृभ्यामन्योन्यसौहार्देन कृतं सङ्गमं प्रेक्ष्य विस्मिता अभूवन्निति शेषः ॥ 2.112.1 ॥
अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः ।
तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ 2.112.2 ॥
अन्तर्हिता इति । अन्तर्हिताः पूर्वमेवान्तर्धानं प्राप्ताः ऋषिगणाः राजर्षिगणाः सिद्धाः देवजातिविशेषाः । परमर्षयः देवर्षयः । इदमुत्तरत्र “एतावदुक्त्वा वचनं गन्धर्वाः सहमर्षयः । राजर्षयश्चैव” इत्यत्र व्यक्तीभविष्यति ॥ 2.112.2 ॥
स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ ।
श्रुत्वा वयं हि सम्भाषामुभयोः स्पृहयामहे ॥ 2.112.3 ॥
स धन्य इति । धर्मविक्रमौ धर्मशूरौ । वयमुभयोः सम्भाषां श्रुत्वा स्पृहयामहे पुनःपुनः श्रोतुं वाञ्छाम इत्यर्थः । वयं ययोरुभयोः सम्भाषां श्रुत्वा स्पृहयामहे तादृशौ धर्मज्ञौ धर्मविक्रमौ द्वौ पुत्रौ यस्य स धन्य इत्यन्वयः ॥ 2.112.3 ॥
ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः ।
भरतं राजशार्दूलमित्यूचुः सङ्गता वचः ॥ 2.112.4 ॥
तत इति । सङ्गताः ऐककण्ठ्यं प्राप्ताः ॥ 2.112.4 ॥
कुले जात महाप्राज्ञ महावृत्त महायशः ।
ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ 2.112.5 ॥
सदानृणमिमं रामं वयमिच्छामहे पितुः ।
अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः ॥ 2.112.6 ॥
एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः ।
राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गताः ॥ 2.112.7 ॥
ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः ।
रामः संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥ 2.112.8 ॥
कुल इति । पितरं यद्यवेक्षसे पितरं सुखास्थितं यदि मन्यस इत्यर्थः ॥ 2.112.58 ॥
स्रस्तगात्रस्तु भरतः स वाचा सज्जमानया ।
कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ 2.112.9 ॥
स्रस्तगात्र इति । सज्जमानया स्खलन्त्या स्वमनोरथस्य सर्वथा असिद्धत्वात् शिथिलगात्रत्वं
सज्जमानवाक्त्वं च ॥ 2.112.9 ॥
राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् ।
कर्त्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥ 2.112.10 ॥
रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे ।
पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ॥ 2.112.11 ॥
राजधर्ममिति । राजधर्मं राज्यपरिपालनधर्मम् । कुलधर्मानुसन्ततिं ज्येष्ठाभिषेकरूपकुलधर्मस्यानुस्यूतिम् ॥ 2.112.1011 ॥
ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः ।
त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षकाः ॥ 2.112.12 ॥
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि ।
शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥ 2.112.13 ॥
ज्ञातय इति । सुहृदः शोभनहृदयाः । पर्जन्यं रसदब्दम् इन्द्रं वा । “पर्जन्यौ रसदब्देन्द्रौ” इत्यमरः ॥ 2.112.1213 ॥
इत्युक्त्वा न्यपतद् भ्रातुः पादयोर्भरतस्तदा ।
भृशं सम्प्रार्थयामास राममेव प्रियंवदः ॥ 2.112.14 ॥
एवं स्वबुद्धिशक्त्युपन्यस्तोपायान्तरवैफल्यदर्शनेन गत्यन्तराभावात् भरतो राममेव प्रपद्यत इत्याह– इत्युक्त्वेति ॥ 2.112.14 ॥
तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् ।
श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥ 2.112.15 ॥
तमङ्क इति । स्वप्रदनस्यामोघत्वात् तदानीं पूर्वकृतदेवसङ्घशरणागतिफलप्रदानप्रवृत्त्यनुकूलपितृवचनपरिपालनावरुद्धावसरतया तन्निर्वर्तनानन्तरं फलप्रदित्सुस्तावद्विलम्बसहनाय सान्त्वपूर्वमङ्कमारोपयति । रामदिव्यदेहसंस्पर्शकृतपुष्ट्यतिशयद्योतनाय श्याममित्यादिविशेषणम् । मत्तहंसस्वरत्वामादरातिशयं द्योतयति । किञ्च स्वररामणीयकेन पूर्वहंसभूतावस्थासूचकेन सदा त्वत्करपुष्करहंसभूतमपि मां कथं वियोजयितुमिच्छसीति च सूच्यते । स्वयमङ्के कृत्वेत्यन्वयः ॥ 2.112.15 ॥
आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या ।
भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥ 2.112.16 ॥
आगतेति । स्वजा सहजा । वैनयिकी विनयो गुरुशिक्षा ततः प्राप्ता इयमुभयाकारा बुद्धिः । त्वामागता त्वां पूर्वमेव प्राप्तवती, अतो भृशमुत्सहसे शक्नोषि ॥ 2.112.16 ॥
अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः ।
सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ॥ 2.112.17 ॥
अमात्यैरिति । अमात्यैः प्रधानसचिवैः । मन्त्रिभिः उपमन्त्रिभिः ॥ 2.112.17 ॥
लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् ।
अतीयात् सागरो वेलां न प्रतिज्ञामहं पितुः ॥ 2.112.18 ॥
मया देवर्षिसङ्घैश्च पुनःपुनरुच्यमानोप्ययं निवर्त्तनेच्छां न त्यजेदिति तदिच्छा सवासना त्याजयितव्येति स्वप्रतिज्ञादार्ढ्यं दर्शयति–लक्ष्मीरित्यादिना । न प्रतिज्ञाम् अतीयामिति शेषः ॥ 2.112.18 ॥
कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् ।
न तन्मनसि कर्त्तव्यं वर्त्तितव्यं च मातृवत् ॥ 2.112.19 ॥
स्त्रिया कामकृतत्वात्त्यक्तुमियं प्रतिज्ञार्हेत्याशङ्क्याह–कामादित्यादिना । कामात् त्वद्विषयस्नेहात् । लोभात् त्वद्व्याजेन राज्यकरणलोभात् । मातृवत् मातरीव ॥ 2.112.19 ॥
एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् ।
तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥ 2.112.20 ॥
एवमिति । तेजसादित्यसङ्काशमित्यनेनानिवर्त्त्यप्रतिज्ञत्वमुच्यते । प्रतिपच्चन्द्रदर्शनमित्यनेन क्रमेण राज्ये पूर्णप्रतिष्ठत्वं सर्वैरपि पूज्यत्वं च द्योत्यते ॥ 2.112.20 ॥
अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ।
एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ॥ 2.112.21 ॥
अथ मध्यस्थेनोभयोर्हितपरेण वसिष्ठेन नियुक्तो भरतः प्रार्थयते–अधिरोहेत्यादिना । अत एव भरद्वाजं प्रति भरतो वसिष्ठोक्तिमनुवदिष्यति– “एते प्रयच्छ संहृष्टः पादुके हेमभूषिते” इति ॥ 2.112.21 ॥
सो ऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च ।
प्रायच्छत् सुमहातेजा भरताय महात्मने ॥ 2.112.22 ॥
अथ रामः स्वप्रतिज्ञां भरतकृतप्रपत्तिं च निर्वहन् तथा करोति–स इति । प्रायच्छद्गृहाणेत्यन्वयुङ्क्त ॥ 2.112.22 ॥
स पादुके सम्प्रणम्य रामं वचनमब्रवीत् ।
चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥ 2.112.23 ॥
फलमूलाशनो वीर भवेयं रघुनन्दन ।
तवागमनमाकांक्षन् वसन् वै नगराद्बहिः ॥ 2.112.24 ॥
तव पादुकयोर्न्यस्तराज्यतन्त्रः परन्तप ।
चतुर्दशे हि सम्पूर्णे वर्षे ऽहनि रघूत्तम ।
न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥ 2.112.25 ॥
तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् ।
शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ॥ 2.112.26 ॥
मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति ।
मया च सीतया चैव शप्तो ऽसि रघुसत्तम ॥ 2.112.27 ॥
इत्युक्त्वा ऽश्रुपरीताक्षो भ्रातरं विससर्ज ह ॥ 2.112.28 ॥
स पादुके ते भरतः प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित् ।
प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्द्धनि ॥ 2.112.29 ॥
अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ ।
व्यसर्जयद्राघववंशवर्द्धनः स्थिरः स्वधर्मे हिमवानिवाचलः ॥ 2.112.30 ॥
तं मातरो बाष्पगृहीतकण्ठ्यो दुःखेन नामन्त्रयितुं हि शेकुः ।
स त्वेव मातृ़रभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश रामः ॥ 2.112.31 ॥
स इत्यादिसार्धश्लोकत्रयमेकान्वयम् । चदुर्दशे वर्षे सम्पूर्णे सति अहनि उत्तरवर्षादिमदिने । प्रवेक्ष्यामीत्यन्ते इतिकरणम् । इत्यब्रवीदिति पूर्वेणान्वयः ॥ 2.112.2331 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वादशोत्तरशततमः सर्गः ॥ 112 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्वादशोत्तरशततमः सर्गः ॥ 112 ॥