श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टोत्तरशततमः सर्गः
आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः ।
उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ॥ 2.108.1 ॥
एवं रामेणोक्ते निरुत्तरतया स्थितं भरतमालोक्य हितपरतया जाबालिश्चार्वाकमतमाश्रित्योत्तरमाह अष्टोत्तरशततमे–आश्वासयन्तमित्यादिना । ब्राह्मणोत्तम इत्यनेन वक्ष्यमाणं नास्तिकवचनमहृदयमिति द्योत्यते । धर्मापेतं वैदिकधर्मापेतम् ॥ 2.108.1 ॥
साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका ।
प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विनः ॥ 2.108.2 ॥
साध्विति । बुद्धिः साधु माभूत् सम्यक् निवर्त्त्यतामित्यर्थः ॥ 2.108.2 ॥
कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् ।
यदेको जायते जन्तुरेक एव विनश्यति ॥ 2.108.3 ॥
तस्मान्माता पिता चेति राम सज्जेतयो नरः ।
उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥ 2.108.4 ॥
क इति । कस्य पुरुषस्य केनचित्साधनेन किमाप्यम्, न किमपीत्यर्थः ॥ 2.108.34 ॥
यथा ग्रामान्तरं गच्छन् नरः कश्चित् क्वचिद्वसेत् ।
उत्सृज्य च तमावासं प्रतिष्ठेतापरे ऽहनि ॥ 2.108.5 ॥
एवमेव मनुष्याणां पिता माता गृहं वसु ।
आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ॥ 2.108.6 ॥
यथेत्यादि । आवासमात्रमिति मार्गस्थसत्त्रशालायां विश्रमार्थं क्षणं निवासेपि तद्विसृज्य गच्छतः पथिकस्य तच्चिन्ताननुवृत्तिवत् यावत्संश्लेषमेव मातापित्रादयो ऽनुवर्तनीयाः । विश्लेषे तत्स्मृतिरपि विफला, किमुत तत्प्रीत्यर्थकार्याचरणमिति भावः ॥ 2.108.56 ॥
पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम ।
आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् ॥ 2.108.7 ॥
पित्र्यमिति । रामाभिप्रायेणेदं परप्रतीत्या परो बोधनीय इति न्यायात् । कापथं कुत्सितमार्गम् । दुःखं दुःखप्रदम् । विषमं यौवनानुचितम् । बहुकण्टकम् अनेकोपप्लवसहितम् । कापथमित्यनेनानुचितवानप्रस्थमार्ग एवोच्यते ॥ 2.108.7 ॥
समृद्धायामयोध्यायामात्मानमभिषेचय ।
एकवेणी धरा हि त्वां नगरी सम्प्रतीक्षते ॥ 2.108.8 ॥
राजभोगाननुभवन् महार्हान् पार्थिवात्मज ।
विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥ 2.108.9 ॥
समृद्धायामिति । एकवेणी धरा व्रतपरायणेत्यर्थः । नगरी तदधिदेवता ॥ 2.108.89 ॥
न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन ।
अन्यो राजा त्वमन्यः स तस्मात् कुरु यदुच्यते ॥ 2.108.10 ॥
नेति । यदुच्यते मयेति शेषः ॥ 2.108.10 ॥
बीजमात्रं पिता जन्तोः शुक्लं रुधिरमेव च ।
संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ 2.108.11 ॥
बीजमात्रमिति । पिता जन्तोर्बीजमात्रम् अल्पकारणम् । प्रधानकारणं तु ऋतुमन्मात्रा संयुक्तं धृतं शुक्लं रुधिरमेव च शुक्लशोणितमेव । तत् शुक्लशोणितं पुरुषस्य जन्मकारणम् ॥ 2.108.11 ॥
गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।
प्रवृत्तिरेषा मर्त्त्यानां त्वं तु मिथ्या विहन्यसे ॥ 2.108.12 ॥
गत इति । तेन नृपेण यत्र येषु भूतेषु गन्तव्यं स नृपतिस्तत्र गतः, पञ्चभूतेषु लयं प्राप्त इत्यर्थः । पञ्चभूतमयत्वान्नरपतिशरीरस्य तदतिरिक्तस्य आत्मनोभावात् । मर्त्त्यानां मरणशीलानामेषा प्रवृत्तिः, अयं स्वभाव इत्यर्थः । त्वं तु मिथ्या विहन्यसे मिथ्याभूतेन सम्बन्धेन पीड्यसे ॥ 2.108.12 ॥
अर्थधर्मपरा ये ये तांस्तान् शोचामि नेतरान् ।
ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ 2.108.13 ॥
अर्थेति । अर्थधर्मपराः प्रत्यक्षसौख्यं विहाय केवलार्थसम्पादनपराः । धर्मपराश्च इतरान् केवलप्रत्यक्षसुखानुभवपरान् । अर्थधर्मपरविषयशोकहेतुमाह ते हीति । प्रेत्यापि विनाशं दुःखं भेजिर इति सम्बन्धः ॥ 2.108.13 ॥
अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः ।
अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ 2.108.14 ॥
धर्म्मस्याफलत्वे स्थालीपुलाकन्यायेन किञ्चिदुदाहरणमाह–अष्टकेति । अयं जनः अष्टका अष्टकाश्राद्धम् पितृदैवत्यं प्रतिसांवत्सरिकमिति यत्कर्म कर्तुमिति शेषः । प्रसृतः प्रवृत्तः । अत्र तत्सर्वमिति शेषः । अन्नस्य उपद्रवं क्षयं पश्य तत्सर्वं स्वभोज्यान्नस्य निरर्थकक्षयहेतुम् आलोचयेत्यर्थः । तत्र हेतुमाह मृतो हि किमशिष्यतीति ॥ 2.108.14 ॥
यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।
दद्यात् प्रवसतः श्राद्धं न तत् पथ्यशनं भवेत् ॥ 2.108.15 ॥
उक्तमेवार्थं तर्कमुखेन द्रढयति–यदीति । अन्येन भवेत् । नचैवं दृश्यते अतः श्राद्धादिकं मृतस्याशनं न भवतीति भावः ॥ 2.108.15 ॥
दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः ।
यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥ 2.108.16 ॥
एवमेकत्र वैदिककर्मणि फलव्यभिचारदर्शनात्सर्वत्रापि वैदिके न फलप्रसक्तिरित्याह–दानसंवनना इत्यादिना । दानसंवननाः दानाय वशीकरणोपायाः “संवननं कर्मणा वशीकरणम्” इति हलायुधः । मेधाविभिः परद्रव्यग्रहणकुशलबुद्धिभिः । यजस्व देवताराधनं कुरुष्व । सन्त्यज अर्थेषणादीन् सम्यक् त्यज । अत्रेतिकरणं दृष्टव्यम् । यजस्वेत्यादिरूपा ग्रन्थाः मेधाविभिः कृता इत्यन्वयः ॥ 2.108.16 ॥
स नास्ति परमित्येव कुरु बुद्धिं महामते ।
प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥ 2.108.17 ॥
स इति । सः पितृवचनं परिपालनीयमिति मन्यमानः त्वं परं परलोकानुभाव्यं यत्प्रत्यक्षं प्रत्यक्षसिद्धं राज्यभोगादिकम् । तदातिष्ठ प्रतिगृह्णीष्व परोक्षं परोक्षसुखफलकं पितृवचनपरिपालनादिकम् ॥ 2.108.17 ॥
स तां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् ।
राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ॥ 2.108.18 ॥
स इति । तां बुद्धिं प्रत्यक्षादन्यं नास्तीतिबुद्धिम् । सर्वलोकनिदर्शिनीं सर्वजनसम्मतामित्यर्थः ॥ 2.108.18 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टोत्तरशततमः सर्गः ॥ 108 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टोत्तरशततमः सर्गः ॥ 108 ॥