श्रीरामायणे वाल्मीकीये आदिकव्ये श्रीमदयोध्याकाण्डे षडुत्तरशततमः सर्गः
एवमुक्त्वा तु विरते रामे वचनमर्थवत् ।
ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् ।
उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः ॥ 2.106.1 ॥
को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम ।
न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत् ॥ 2.106.2 ॥
एवमुक्त्वा त्विति । निरुत्तरमुक्तवन्तं रामं प्रति मुखान्तरेण उत्तरस्योच्यमानत्वाच्चित्रमित्युक्तम् ॥ 2.106.12 ॥
सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ॥ 2.106.3 ॥
सम्मत इति । वृद्धानां त्रैविद्यवृद्धानाम् । सम्मतः सर्वज्ञत्वेन सम्मतः तथापि तान् संशयान् पृच्छसीति सम्बन्धः ॥ 2.106.3 ॥
यथा मृतस्तथा जीवन् यथा ऽसति तथा सति ।
यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः ॥ 2.106.4 ॥
पितृवियोगोदिजनितदुःखेन मया कथितामिति हि भवतोक्तम्, मम तादृशदुःखप्रसङ्ग एव नास्तीत्याह–यथा मृत इति । मृतः पुरुषो यथा द्वेषविषयो न भवति जीवन्नपि तथा । यथा असति तथा सति अविद्यमाने वस्तुनि यथा रागो नास्ति विद्यमाने वस्तुन्यपि तथा । इत्येष बुद्धिलाभो यस्य स केन हेतुना परितप्येत, न केनापीत्यर्थः । भवदुक्तप्रकारेण मम दुःखलेशोपि नास्तीति भावः ॥ 2.106.4 ॥
परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप ।
स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥ 2.106.5 ॥
किमर्थं तर्हि शोकमूलवचनं त्वयोक्तमित्याशङ्क्य भवद्व्यसनासहतयेत्याह–परावरज्ञ इति । यः परावरज्ञः त्रिकालज्ञः आत्मानात्मज्ञो वा परमात्मजीवात्मस्वरूपज्ञो वा । सः एवं व्यसनं प्राप्यापि व्यथितुं नार्हति तथा त्वमपीति सम्बन्धः । अथापि तव राज्यभ्रंशवनवासरूपव्यसनं त्वद्विश्लेषं चाहं कथं सहेयेति भावः ॥ 2.106.5 ॥
अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गरः ।
सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव ॥ 2.106.6 ॥
अमरेति । अपरोपमेति पृथक्पदम् । सत्त्वः सत्त्वगुणसम्पन्नः । अर्श आद्यच् । स्वाश्रितानां सत्त्वगुणकार्यतत्त्वज्ञानप्रवर्तकत्वाद्वा सत्त्व इत्युच्यते । “सत्त्वस्यैष प्रवर्तकः” इति हि श्रुतिः । महात्मा महाधैर्यः अत एव सत्यसङ्गरः सत्यप्रतिज्ञः । सर्वज्ञ इत्यादिभिस्त्रिभिर्भूतवर्तमानभावियावद्वस्तुज्ञानवत्त्वमुक्तम् ॥ 2.106.6 ॥
न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् ।
अविषह्यतमं दुःखमासादयितुमर्हति ॥ 2.106.7 ॥
प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् ।
क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥ 2.106.8 ॥
न त्वामिति । प्रभवाभवकोविदम् उत्पत्तिविनाशज्ञमित्यर्थः । भूतानामिति शेषः । अविषह्यतममपि अस्मदादीनामिति शेषः । दुःखं राज्यभ्रंशवनवासादिहेतुकम् । नासादयितुमर्हति नाभिभवितुमर्हति ॥ 2.106.78 ॥
धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् ।
हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ॥ 2.106.9 ॥
धर्मबन्धेन धर्मपाशेन ॥ 2.106.9 ॥
कथं दशरथाज्जातः शुद्धाभिजनकर्मणः ।
जानन् धर्ममधर्मिष्ठं कुर्य्यां कर्म जुगुप्सितम् ॥ 2.106.10 ॥
जुगुप्सितं लोकगर्हितम् ॥ 2.106.10 ॥
गुरुः क्रियावान् वृद्धश्च राजा प्रेतः पितेति च ।
तातं न परिगर्हेयं दैवतं चेति संसदि ॥ 2.106.11 ॥
क्रियावान् यज्ञादिक्रियावान् । संसदि सभायाम् ॥ 2.106.11 ॥
को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् ।
स्त्रियाः प्रियं चिकीर्षुः सन् कुर्याद्धर्मज्ञ धर्मवित् ॥ 2.106.12 ॥
धर्मार्थयोर्हीनं धर्मार्थाभ्यां हीनम्, कामप्रधानमिति यावत् ॥ 2.106.12 ॥
अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः ।
राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता ॥ 2.106.13 ॥
अन्तकाले विनाशकाले । मुह्यन्ति मोहं प्राप्नुवन्ति, विपरीतबुद्धिं प्राप्नुवन्तीति यावत् । पुराश्रुतिः पुरातनी गाथेत्यर्थः ॥ 2.106.13 ॥
साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात् ।
तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥ 2.106.14 ॥
साध्वर्थमिति । क्रोधात् विषमद्यैव पास्यामीत्युक्तकैकेयीक्रोधात् । मोहात् कैकेयीविषयमोहात् । साहसात् साहसकरणात्, अविमृश्यकारित्वादिति यावत् । तातस्य यदविक्रान्तं यद्धर्मातिक्रमणं तत्साध्वर्थमभिसन्धाय समीचीनार्थं स्मृत्वा भवान् प्रत्याहरतु निवर्त्तयतु ॥ 2.106.14 ॥
पितुर्हि यदतिक्रान्तं प्रत्रो यः साधुमन्यते ।
तदपत्यं मतं लोके विपरीतमतो ऽन्यथा ॥ 2.106.15 ॥
पितुरिति । साधुमन्यते साधुकर्तुं मन्यत इत्यर्थः । तदपत्यं मतं पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम् ॥ 2.106.15 ॥
तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितुः ।
अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ॥ 2.106.16 ॥
कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः ।
पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् ॥ 2.106.17 ॥
क्व चारण्यं क्व च क्षात्त्र क्व जटाः क्व च पालनम् ।
ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ॥ 2.106.18 ॥
तदपत्यं भवानस्तु तादृशमपत्यमस्तु । माभिपत्ता प्राप्तुं नार्हतीत्यर्थः ॥ 2.106.1618 ॥
एष हि प्रथमो धर्मः क्षत्ित्रयस्याभिषेचनम् ।
येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥ 2.106.19 ॥
तापसधर्मावलम्बनं क्षत्त्रियाणामप्यस्तीत्याशङ्क्याह–एष हीत्यादिना ॥ 2.106.19 ॥
कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् ।
आयतिस्थं चरेद्धर्मं क्षत्त्रबन्धुरनिश्चितम् ॥ 2.106.20 ॥
क इति । प्रत्यक्षं परिदृश्यमानत्यागभोगयुक्तं धर्मं परलोकश्रेयःसाधनं प्रजापालनरूपं धर्ममुत्सृज्य संशयस्थमप्रत्यक्षम् अङ्गलोपादिसम्भावनया संशयितफलसिद्धिकमित्यर्थः । अलक्षणं लक्षणरहितम् । क्रियाशक्तिरपूर्वं वा इति दुर्निरूपमित्यर्थः । आयातिस्थं कालान्तरभाविफलम् । अनिश्चितं क्षत्त्रियेण प्रथममिदमनुष्ठेयमिति केनापि प्रमाणेनानिश्चितम् । तापसधर्मः कः क्षत्त्रियः चरेत्, न कोपीत्यर्थः ॥ 2.106.20 ॥
अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि ।
धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ॥ 2.106.21 ॥
अथ क्लेशजनमेव त्वं धर्मं चरितुमिच्छसि तथापि चातुर्वर्ण्यपालनतत्तद्धर्मस्थापनादिक्लेशयुक्तत्वाद्राज्यपालनमेवाचरेत्याह–अथेति ॥ 2.106.21 ॥
चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् ।
प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ॥ 2.106.22 ॥
सर्वाश्रमधर्मापेक्षया श्रेष्ठतमो गार्हस्थ्यधर्मः कथं त्यज्यत इत्याह–चतुर्णामिति ॥ 2.106.22 ॥
श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् ।
स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ 2.106.23 ॥
स्वशक्त्यापि भवतैव राज्यं पालयितव्यमित्याह–श्रुतेनेति । श्रुतेन विद्यया । स्थानेन पदेन, प्राप्तिक्रमेणेति यावत् ॥ 2.106.23 ॥
हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् ।
भवता च विनाभूतो न वर्त्तयितुमुत्सहे ॥ 2.106.24 ॥
इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् ।
अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः ॥ 2.106.25 ॥
कथमेवमुच्यते बालत्वस्य ममापि तुल्यत्वात् भवदपेक्षया अहं कियान्वृद्ध इत्यत आह–हीनेति । हीनबुद्धि गुणः सद्गुणबुद्धिरहितः वर्तयितुं स्थातुं भवता विना तूष्णीं स्थातुमपि नोत्सहे, किं पुना राज्यं कर्तुमिति भावः ॥ 2.106.2425 ॥
इहैव त्वा ऽभिषिञ्चन्तु सर्वाः प्रकृतयः सह ।
ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः ॥ 2.106.26 ॥
इहेति । सह संभूय ॥ 2.106.26 ॥
अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज ।
विजित्य तरसा लोकान् मरुद्भिरिव वासवः ॥ 2.106.27 ॥
अभिषिक्त इति । विजित्य स्थित इति शेषः । मरुद्भिर्देवैः ॥ 2.106.27 ॥
ऋणानि त्रीण्यपाकुर्वन् दुर्हृदः साधु निर्द्दहन् ।
सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ॥ 2.106.28 ॥
अद्यार्य मुदिताः सन्तु सुहृदस्ते ऽभिषेचने ।
अद्य भीताः पलायन्तां दुर्हृदस्ते दिशो दश ॥ 2.106.29 ॥
रामं राज्याङ्गीकरणाय प्रोत्साहयति–ऋणानीत्यादिना । दुर्हृदः शत्रून् ॥ 2.106.2829 ॥
आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।
अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥ 2.106.30 ॥
आक्रोशमिति । आक्रोशं शापम् । “शाप आक्रोश आक्षेपः” इति हलायुधः । जनकर्तृकमिति शेषः । तत्रभवन्तं पूज्यम् । तत्रभवानत्रभवानितिशब्दौ वृद्धैः पूज्ये प्रयुज्येते ॥ 2.106.30 ॥
शिरसा त्वा ऽभियाचे ऽहं कुरुष्व करुणां मयि ।
बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः ॥ 2.106.31 ॥
अथैतत् पृष्ठतः कृत्वा वनमेव भवानितः ।
गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम् ॥ 2.106.32 ॥
शिरसेति । मयि बान्धवेषु च करुणां कुर्विति सम्बन्धः । महेश्वरो विष्णुः । “यद्वेदादौ स्वरः प्रोक्तोवेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः” इति पूर्वप्रकृतदहरविद्याकरणमन्त्रप्रणवप्रकृतिभूताकारवाच्यो महेश्वरः इत्युक्तेः । दहरोपास्यश्चापहतपाप्मत्वादिगुणकः पुरुषोत्तमः “स उत्तमः पुरुषः” इति तत्समानप्रकरणे छान्दोग्ये श्रवणात् । अपहतपाप्मत्वं च रुद्रस्य नास्ति “अनपहतपाप्मा वा अहमस्मि” इति रुद्रेणैवोक्तेः । भूतसंहाराधिकृतस्य रुद्रस्य भूतेषु करुणा च गगनकुसुमतुल्या । अतः “स एकाकी न रमते । न ततो विजुगुप्सितः” इत्यादिश्रूतिस्मृत्यादिभिः सुप्रसिद्धापारकारुण्यवात्सल्यादिगुणगणः पुरुषोत्तम एव महेश्वर इति दिक् ॥ 2.106.3132 ॥
तथाहि रामो भरतेन ताम्यता प्रसाद्यमानः शिरसा महीपतिः ।
न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने व्यवस्थितः ॥ 2.106.33 ॥
तथेति । गमनाय अयोध्यां प्रतीति शेषः । तद्वचने तस्मिन् वचने ॥ 2.106.33 ॥
तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखितः ।
न यात्ययोध्यामिति दुःखितो ऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः ॥ 2.106.34 ॥
तदद्भुतमिति । समं युगपत् ॥ 2.106.34 ॥
तमृत्विजो नैगमयूथवल्लभास्तदा विंसज्ञाश्रुकलाश्च मातरः ।
तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं च ययाचिरे सह ॥ 2.106.35 ॥
तमिति । नैगमयूथवल्लभाः निगमः पुरं तत्र भवाः नैगमाः । “निगमो निश्चये वेदे पुरे पथि वणिक्पथे” इति वैजयन्ती । यूथवल्लभा गणमुख्याः । विसंज्ञाश्रुकलाः विगतसंज्ञाः अश्रुक्लिन्नाश्चेत्यर्थः ॥ 2.106.35 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकव्ये श्रीमदयोध्याकाण्डे षडुत्तरशततमः सर्गः ॥ 106 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षडुत्तरशततमः सर्गः ॥ 106 ॥