श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्युत्तरशततमः सर्गः
वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च ।
अभिचक्राम तं देशं रामदर्शनतर्षितः ॥ 2.103.1 ॥
राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति ।
ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ॥ 2.103.2 ॥
कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता ।
सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः ॥ 2.103.3 ॥
अथ मातृसमागमस्त्र्युत्तरशततमे–वसिष्ठ इति । रामदर्शनतर्षितः रामदर्शने सञ्जाताभिलाषः ।
“कामो ऽभिलाषस्तर्षश्च” इत्यमरः ॥ 2.103.13 ॥
इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् ।
वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृताः ॥ 2.103.4 ॥
इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः ।
स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥ 2.103.5 ॥
इदमिति । ते प्रसिद्धाः रामादयः । ये प्राक् निर्विषयीकृताः राज्यान्निष्कासिताः । वने तेषां क्लिष्टम् उपमर्दितम् इदं तीर्थमवतरणम् । केवलं निश्चितम् । “केवलं निश्चिते क्लीबे वाच्यवत्त्वेककृत्स्नयोः” इति वैजयन्ती ॥ 2.103.45 ॥
जघन्यमपि ते पुत्रः कृतवान्न तु गर्हितः ।
भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणैः ॥ 2.1036 ॥
जघन्यमिति । जघन्यं हीनम् । जलाहरणादिकर्म कृतवानपि न गर्हितः । कुत इत्यत्राह भ्रातुरिति । भ्रातुर्ज्येष्ठभ्रातुः । अर्थसहितं प्रयोजनसहितं यत्कर्म तत्सर्वं गुणैर्विहितम् । “ज्येष्ठभ्राता पितृसमः” इति वचनात् पितृशुश्रूषावत् गुणाय कल्पत इत्यर्थः ॥ 2.103.6 ॥
अद्यायमपि ते पुत्रः क्लेशानामतथोचितः ।
नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ॥ 1.103.7 ॥
अद्येति । क्लेशानामतथोचितः इदानीं यादृशक्लेशानुभवस्तादृशक्लेशानामनुचितः । ते अयं पुत्रः नीचानर्थसमाचारं निकृष्टदुःखप्रचुरसमाचारसहितम् । सज्जम् उद्युक्तं कर्म अद्य प्रमुञ्चत्वपि । अपिशब्दः सम्भावनायाम् “अपिः सम्भावनाप्रश्नगर्हाशङ्कासमुच्चये” इति वैजयन्ती । भरतप्रार्थनया रामेण स्वराज्ये स्वीकृते लक्ष्मणस्य नीचकर्मप्रमोचनं सम्भवेदिति भावः ॥ 2.103.7 ॥
दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले ।
पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ 2.103.8 ॥
तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा ।
उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ॥ 2.103.9 ॥
इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः ।
राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥ 2.103.10 ॥
दक्षिणाग्रेष्विति । पितुरिति चतुर्थ्यर्थे षष्ठी ॥ 2.103.810 ॥
तस्य देवसमानस्य पार्थिवस्य महात्मनः ।
नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ 2.103.11 ॥
चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभुः ।
कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः ॥ 2.103.12 ॥
तस्येति । औपयिकं प्राप्तम् । “युक्तं स्यादुचितं न्याय्यं प्राप्तमौपयिकं तथा” इति हलायुधः ॥ 2.103.1112 ॥
अतो दुःखतरं लोके न किञ्चित् प्रतिभाति मा ।
यत्र रामः पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ॥ 2.103.13 ॥
राज्यैश्वर्य्ययोग्यतया ऋद्धिमान् इत्युक्तिः ॥ 2.103.13 ॥
रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे ।
कथं दुःखेन हृदयं न स्फोटति सहस्रधा ॥ 2.103.14 ॥
स्फोटति । स्फुटति ॥ 2.103.14 ॥
श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा ।
यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ 2.103.15 ॥
एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा ।
ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥ 2.103.16 ॥
सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मातरः ।
आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः ॥ 2.103.17 ॥
तासां रामः समुत्थाय जग्राह चरणान् शुभान् ।
मातृ़णां मनुजव्याघ्रः सर्वासां सत्यसङ्गरः ॥ 2.103.18 ॥
सत्या सत्यार्था । लौकिकी लोकविदिता, लोकप्रसिद्धेति यावत् । देवता इति श्रुतिः सत्येत्यन्वयः ॥ 2.103.1518 ॥
ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः ।
प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः ॥ 2.103.19 ॥
ता इति । रामस्यायतलोचना इति पाठः ॥ 2.103.19 ॥
सौमित्रिरपि ताः सर्वाः मातृ़ः सम्प्रेक्ष्य दुःखितः ।
अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥ 2.103.20 ॥
असक्तम् अविरतम् । “अविरतमनवरतं स्यादेकार्थमनारतमसक्तमपि” इति हलायुधः ॥ 2.103.20 ॥
यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः ।
वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ 2.103.21 ॥
सीतापि चरणांस्तासामुपसंगृह्य दुःखिता ।
श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥ 2.103.22 ॥
तां परिष्वज्य दुःखार्त्तां माता दुहितरं यथा ।
वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ 2.103.23 ॥
विदेहराजस्य सुता स्नुषा दशरथस्य च ।
रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने ॥ 2.103.24 ॥
ववृतिरेचक्रुरित्यर्थः ॥ 2.103.2124 ॥
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् ।
काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः ॥ 2.103.25 ॥
मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम्
भृशं मनसि वैदेहि व्यसनारणिसम्भवः ॥ 2.103.26 ॥
ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रजः ।
पादावासाद्य जग्राह वसिष्ठस्य च राघवः ॥ 2.103.27 ॥
पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिपः ।
प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः ॥ 2.103.28 ॥
ते मुखं प्रेक्ष्य स्थितामिति शेषः । मां मनसि स्थितः सन्निति शेषः । आश्रयमाश्रयभूतं काष्ठादिकम् ॥ 2.103.2528 ॥
ततो जघन्यं सहितैः समन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः ।
जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥ 2.103.29 ॥
ततो जघन्यं वसिष्ठरामोपवेशादनन्तरमुपोपविष्टः । “प्रसमुपोदः पादपूरणे” इति द्विर्वचनम् ॥ 2.103.29 ॥
उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् ।
श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजापतिम् ॥ 2.103.30 ॥
कृताञ्जलिः अभूदिति शेषः ॥ 2.103.30 ॥
किमेष वाक्यं भरतो ऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति ।
इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥ 2.103.31 ॥
स राघवः सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिकः ।
वृताः सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यैः सहितास्त्रयो ऽग्नयः ॥ 2.103.32 ॥
इतीवेत्यत्र इवशब्दो वाक्यालङ्कारे ॥ 2.103.3031 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्युत्तरशततमः सर्गः ॥ 103 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्र्युत्तरशततमस्सर्गः ॥ 103 ॥