श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तनवतितमः सर्गः
सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्च्छितम् ।
रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥ 2.97.1 ॥
अथ कुपितपरिसान्त्वनं सप्तनवतितमे–सुसंरब्धमित्यादि । पूर्वं सुसंरब्धं सुतरां प्रीतम् । “संरम्भः प्रणयेपि च” इत्यमरः । अद्य तु तद्वैलक्षण्येन क्रोधमूर्च्छितम् । यद्वा क्रोधमूर्च्छितत्वादेव सुसंरब्धं क्रोधकार्ययुद्धौन्मुख्ययुक्तम् । तत्र हेतुः सपत्नीपुत्रत्वमित्याह सौमित्रिमिति । यद्वा सुमित्रापुत्रत्वस्मारणपूर्वकमुक्तवानिति द्योत्यते । रामस्तु इदं वचनं रामादन्यैर्वक्तुमशक्यमिति भावः ॥ 2.97.1 ॥
किमत्र धनुषा कार्यमसिना वा सचर्मणा ।
महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥ 2.97.2 ॥
किमिति । अत्र इदानीं परिदृष्टे महेष्वासे उचितविषयशरसन्धातरि । तत्र हेतुः महाप्राज्ञ इति । स्वयं पुरुषप्रेरणं विना आगते भरते विषये धनुरादिभिः किं कार्यम् ? न किमपीत्यर्थः । महाप्राज्ञो भरतोपि यदि धनुर्गृहीत्वा स्वयमागतः तदा किमस्माकं युद्धोद्योगेनेति भावः ॥ 2.97.2 ॥
पितुः सत्यं प्रतिश्रुत्य हत्वा भरतमागतम् ।
किं करिष्यामि राज्येन सापवादेन लक्ष्मण ॥ 2.97.3 ॥
तत्र युक्तिमाह–पितुरिति । सापवादेन पित्रा भरताय दत्तं राज्यं रामस्तं हत्वा गृहीतवानित्येवंरूपेणापवादेन युक्तम् ॥ 2.97.3 ॥
यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत् ।
नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ॥ 2.97.4 ॥
युक्त्यन्तरमाह–यदिति । बान्धवादीनां क्षये नाशे लब्धं यद्धनं तन्न गृह्णीयाम्, नेच्छेयमित्यर्थः । विषकृतान् विषमिश्रद्रव्यकृतान् । भक्षान् अपूपादीनिव ॥ 2.97.4 ॥
धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण ।
इच्छामि भवतामर्थे एतत् प्रतिश्रृणोमि ते ॥ 2.97.5 ॥
धर्ममिति । अर्थं पृथिवीभिन्नं रत्नादिकम् । भवतां भातृ़णामर्थे भवन्निमित्तमित्यर्थः । एतत् उक्तरूपं प्रतिश्रृणोमि नातिवर्त्त इत्यर्थः ॥ 2.97.5 ॥
भ्रातृ़णां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण ।
राज्यमप्यहमिच्छामि सत्येनायुधमालभे ॥ 2.97.6 ॥
भ्रातृ़णामिति । सङ्ग्रहार्थं धनसञ्चयार्थम् । सुखार्थं तत्सुखार्थम्, तत्तदभिमतवस्तुप्रदानेन तत्प्रीत्यर्थमित्यर्थः । अपिना तद्वृद्धिः समुच्चीयते । राज्यमपि बहुच्छिद्रत्वेन अपरिग्राह्यतया ममानिष्टमपि । आलभे स्पृशामि, स्पृष्ट्वा शप इत्यर्थः । सत्येनेति मदुक्तं यथा सत्यं भवति तथा आयुधं स्पृशामीत्यर्थः ॥ 2.97.6 ॥
नेयं मम मही सौम्य दुर्ल्लभा सागराम्बरा ।
नहीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ॥ 2.97.7 ॥
नेति । नेच्छेयम् इमामिति शेषः ॥ 2.97.7 ॥
यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद ।
भवेन्मम सुखं किञ्चिद्भस्म तत् कुरुतां शिखी ॥ 2.97.8 ॥
यदिति । शिखी अग्निः । भरतादिसुखाननुगुणं यत् सुखं तदग्निर्भस्मीकुरुतां न तन्मम ग्राह्यमित्यर्थः ॥ 2.97.8 ॥
मन्ये ऽहमागतो ऽयोध्यां भरतो भ्रातृवत्सलः ।
मम प्राणात् प्रियतरः कुलधर्ममनुस्मरन् ॥ 2.97.9 ॥
श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम् ।
जानक्या सहितं वीर त्वया च पुरुषर्षभ ॥ 2.97.10 ॥
स्नेहेनाक्रान्तहृदयः शोकेनाकुलितेन्द्रियः ।
द्रष्टुमभ्यागतो ह्येष भरतो नान्यथा गतः ॥ 2.97.11 ॥
एवं लक्ष्मणचित्तानुसारेण परिहृत्य वस्तुतत्त्वमाह–मन्य इत्यादिश्लोकत्रयमेकान्वयम् । द्रष्टुमभ्यागतो ह्येष भरतो नान्यथागत इति मन्ये इत्यन्वयः । अयोध्यामागतः, मातुलगृहादिति शेषः । भ्रातृवत्सलः भ्रातृषु वत्सलः स्नेही । कुलधर्मं ज्येष्ठस्य राज्यपरिपालन रूपम् । स्नेहेन मद्विषयप्रीत्या । आक्रान्तहृदयः तत्परवश इत्यर्थः । शोकेन मद्विवासजनितदुःखेन । आकुलितेन्द्रियः व्याकुलहृदयः । अन्यथा मद्विरोधितया नागतः ॥ 2.97.911 ॥
अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन् ।
प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागतः ॥ 2.97.12 ॥
अम्बामिति । रुष्य संरुष्य ॥ 2.97.12 ॥
प्राप्तकालं यदेषो ऽस्मान् भरतो द्रष्टुमिच्छति ।
अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत् ॥ 2.97.13 ॥
प्राप्तकालमिति । एषः भरतः अस्मान् द्रष्टुमिच्छतीति यत् एतत् प्राप्तकालं कालोचितमित्यर्थः ॥ 2.97.13 ॥
विप्रियं कृतपूर्वं ते भरतेन कदा नु किम् ।
ईदृशं वा भयं ते ऽद्य भरतं यो ऽत्र शङ्कसे ॥ 2.97.14 ॥
विप्रियमिति । ते तुभ्यं भरतेन कदा नु कदाचित् विप्रियं कृतपूर्वं किम् ईदृशं भयं वा त्वदुक्तसदृशं भयजनकवाक्यं वा कृतपूर्वं किम् उक्तपूर्वं किम् ? यस्त्वमद्य अत्रार्थे अत्र स्थाने वा भरतं शङ्कस इति योजना ॥ 2.97.14 ॥
नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः ।
अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते ॥ 2.97.15 ॥
न हीति । त इति “कृत्यानां कर्तरि वा” इति षष्ठी । ते त्वया भरतः निष्ठुरम् अप्रियं च वचः न वाच्यः । भरतस्य अप्रिये अप्रियवचने कृते उक्ते सति अहं हि अहमेवाप्रियमुक्तः स्यामिति सम्बन्धः । स्वाश्रितविषये कृतापचारः स्वस्मिन्नेव कृत इति भगवदभिप्रायो ऽनेन गम्यते ॥ 2.97.15 ॥
कथं नु पुत्राः पितरं हन्युः कस्याञ्चिदापदि ।
भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मनः ॥ 2.97.16 ॥
पूर्वं दशरथो वध्यतामित्युक्तम्, इदानीं भरतो वध्यत इति । इत उपरि तूष्णीमवस्थाने कार्यहानिर्भविष्यतीति भयात् तां रौद्रीं बुद्धिं नियम्य निवर्तयति–कथं न्वित्यादिना । प्राणं प्राणभूतम् ॥ 2.97.16 ॥
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे ।
वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥ 2.97.17 ॥
यदीति यदि राज्यस्य हेतोः त्वम् इमां भरतहिंसारूपां वाचं प्रभाषसे तर्हि वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् । प्रदीयतामित्यनन्तरमिति करणं द्रष्टव्यम् ॥ 2.97.17 ॥
उच्यमानो ऽपि भरतो मया लक्ष्मण तत्त्वतः ।
राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ॥ 2.97.18 ॥
उच्यमान इति । भरतः अस्मै राज्यं प्रयच्छेति मया उच्यमानो ऽपि अहृदयमुक्तो ऽपि तत्त्वतः बाढमिति वक्ष्यत्येव तथा दास्यामीति वक्ष्यत्येवेत्यर्थः । एवकारेण तस्य पुनर्न्निवृत्त्यभाव उच्यते ॥ 2.97.18 ॥
तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः ।
लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया ॥ 2.97.19 ॥
तथेति । तस्य रामस्य हिते रतः न तु स्वार्थपरः अत एव मङ्गलाशासनपरत्वात् अस्थाने भयशङ्कया तथोक्तवानिति गम्यते । गात्राणि अवयवान् प्रविवेशेव लज्जातिशयेनात्यन्तसङ्कुचितगात्रो ऽभूदित्यर्थः ॥ 2.97.19 ॥
तद्वाक्यं लक्ष्मणः श्रुत्वा व्रीडितः प्रत्युवाच ह ।
त्वां मन्ये द्रष्टुमायातः पिता दशरथः स्वयम् ॥ 2.97.20 ॥
तद्वाक्यमिति । व्रीडया प्रसङ्गान्तरं प्रस्तौति त्वामिति । लोके स्वोक्तिभङ्गेन व्रीडितः पुरुषः प्रस्तावान्तरं हि वदति, आयात इति मन्य इत्यन्वयः ॥ 2.97.20 ॥
व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह ।
एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागतः ॥ 2.97.21 ॥
भावज्ञो रामोपि औचित्येन लक्ष्मणकृतप्रस्तावं व्रीडाशमनाय प्रपञ्चयामासेत्याह–व्रीडितमिति । तदेवोच्यते एष इत्यादिना ॥ 2.97.21 ॥
अथवा नौ ध्रुवं मन्ये मन्यमानः सुखोचितौ ।
वनवासमनुध्याय गृहाय प्रतिनेष्यति ॥ 2.97.22 ॥
नाविति द्विवचनं प्राधान्यात् । मन्यमानः स्मरन् । वनवासं वनवासक्लेशम् । अनुध्याय अनुचिन्त्य ॥ 2.97.22 ॥
इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम् ।
पिता मे राघवः श्रीमान् वनादादाय यास्यति ॥ 2.97.23 ॥
इमामिति । अत्यन्तेत्यनेन तन्मात्रनयने हेतुरुक्तः ॥ 2.97.23 ॥
एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ ।
वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥ 2.97.24 ॥
गोत्रवन्तौ प्रशस्तनामानौ । यद्वा प्रशस्तकुलप्रसूतौ “गोत्रं नाम्नि कुलेपि च” इति वैजयन्ती । वायुवेगसमौ वेगेन वायुसमावित्यर्थः । तुरगोत्तमौ राजौपवाह्यौ ॥ 2.97.24 ॥
स एष सुमहाकायः कम्पते वाहिनीमुखे ।
नागः शत्रुञ्जयो नाम वृद्धस्तातस्य धीमतः ॥ 2.97.25 ॥
स एष इति । कम्पते “कपि चलने” इति धातुः । मत्तगजस्वभावो ऽयम् । वृद्धः उन्नतः । धीमतः गजपरिपालनज्ञस्य तातस्य । नागः शत्रुञ्जयः नतु मया सुयज्ञाय दत्तो मातुलाल्लब्धशत्रुञ्जय इत्यर्थः ॥ 2.97.25 ॥
न तु पश्यामि तच्छत्त्रं पाण्डरं लोकसत्कृतम् ।
पितुर्दिव्यं महाबाहो संशयो भवतीह मे ॥ 2.97.26 ॥
लोकसत्कृतं लोकोत्तरमित्यर्थः । इह पितरि विषये संशयो भवतीह मे इति राघवः प्रत्युवाचेति पूर्वेणान्वयः ॥ 2.97.26 ॥
वृक्षाग्रादवरोह त्वं कुरु लक्ष्मण मद्वचः ।
इतीव रामो धर्मात्मा सौमित्रिं तुमवाच ह ॥ 2.97.27 ॥
वृक्षाग्रादिति । मद्वचः भरतविषये शान्तो भवेति मत्सूचितं वचः । प्रथममर्धमुत्तरार्धेन योजनीयम् ॥ 2.97.27 ॥
अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जयः ।
लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः ॥ 2.97.28 ॥
अवतीर्येति । समितिं परसैन्यं जयतीति समितिञ्जयः । “संज्ञायां भृतृ़वृजिधारिसहितपिदमः” इत्यत्र योगविभागेन खच् मुमागमश्च । सन्नद्ध इति यावत् । पार्श्वतः भ्रातर्यस्थाने भयशङ्कयेति भावः ॥ 2.97.28 ॥
भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिति ।
समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ॥ 2.97.29 ॥
भरतेनेति । सम्मर्दः रामाश्रमस्य पीडा न भवेदिति भरतेन सन्दिष्टा आज्ञप्ता । सेना तस्य शैलस्य समन्तात् नतु तदाश्रमसमीपे ॥ 2.97.29 ॥
अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा ।
पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ॥ 2.97.30 ॥
अध्यर्द्धमिति । अधिकमर्धं यस्मिन् तत् अध्यर्धं योजनम् सार्धयोजनमित्यर्थः । पर्वतस्य पार्श्वे आवृत्त्य न्यविशत् मण्डलाकारेण स्थिता ॥ 2.97.30 ॥
सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्प्पम् ।
प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता ॥ 2.97.31 ॥
सेति । चित्रकूटे चित्रकूटसमीपे । नीतिमता सेनयोपरोधे रामस्य प्रसादो न स्यादिति नीतिज्ञेन भरतेन । धर्मं पुरस्कृत्य विनीतवेषेण राजाभिगन्तव्य इति धर्ममनुसृत्य । दर्पं विधूय स्थितेन रघुनन्दनस्य प्रसादनार्थं प्रणीता आनीता सा सेना विराजते भाति स्म ॥ 2.97.31 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तनवतितमः सर्गः ॥ 97 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तनवतितमः सर्गः ॥ 97 ॥