०९५ मन्दाकिनीसौन्दर्यम्-अधिकापातः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चनवतितमः सर्गः

अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः ।

अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ॥ 2.95.1 ॥

एवं वनगिरिप्रदर्शनेनोपलाल्य नदीप्रदर्शनेनापि लालयति–अथेत्यादिना ॥ 2.95.1 ॥

अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् ।

विदेहराजस्य सुतां रामो राजीवलोचनः ॥ 2.95.2 ॥

अब्रवीदिति । वचने हेतुः तत्सौन्दर्यमित्याशयेनोक्तम्–वरारोहामित्यादि । वरारोहाम् आरुह्यत इति आरोहो जघनम्, गुरुजघनामित्यर्थः । चारुचन्द्रनिभाननामित्यनेन रतिरमणनिदर्शितवनगिरिविलोकनकुतूहलविकसितवदनत्वमुक्तम् । राजीवलोचनः विस्मयोत्फुल्लनयन इत्यर्थः ॥ 2.95.2 ॥

विचित्रपुलिनां रम्यां हंससारससेविताम् ।

कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ॥ 2.95.3 ॥

विचित्रेति । पुलिनस्य विचित्रत्वं नवोलपालङ्कृतत्वात् । सारसाः हंसविशेषाः । अत्र वस्तुना पृथुजघनकलनूपुरसुन्दरकरपदवदनवती भवतीव भातीत्यलङ्कारध्वनिः ॥ 2.95.3 ॥

नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमैः ।

राजन्तीं राजराजस्य नलिनीमिव सर्वतः ॥ 2.95.4 ॥

नानेति । राजराजस्य कुबेरस्य । नलिनीं सौगन्धिकसरसीम् ॥ 2.95.4 ॥

मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् ।

तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ॥ 2.95.5 ॥

मृगयूथेति । मृगयूथनिपीतानि अत एव कलुषाणि, रमणीयानि कुङ्कुमरसाभानि अम्भांसि येषु तानि तीर्थानि अवताराः । रतिम् अवगाहनविषयां प्रीतिम् ॥ 2.95.5 ॥

जटाजिनधराः काले वल्कलोत्तरवाससः ।

ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ॥ 2.95.6 ॥

जटेति । काले स्वनियमोचितकाले । अवगाहन्ते मज्जन्ति । प्रिये इत्यन्यत्र दृष्टिर्निवार्यते ॥ 2.95.6 ॥

आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहवः ।

एते परे विशालाक्षि मुनयः संशितव्रताः ॥ 2.95.7 ॥

आदित्यमिति । उपतिष्ठन्ते । “उपान्मन्त्रकरणे” इत्यात्मनेपदम् । नियमाद्धेतोः परे पूर्वोक्तमुनिभ्यो ऽन्ये । संशितव्रताः तीक्ष्णनियमाः ॥ 2.95.7 ॥

मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः ।

पादपैः पत्त्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ 2.95.8 ॥

मारुतोद्धूतशिखरैः वायुकम्पितशाखैः । पुष्पाणि सृजद्भिः मुञ्जद्भिः पादपैः प्रनृत्त इव नृत्यङ्कर्त्तुमुद्युक्त इव । आदिकर्मणि क्तः । लोके हि नृत्तोद्युक्तः पुष्पाणि परिविकीर्य्य हस्तौ चालयति तद्वदित्युत्प्रेक्षा ॥ 2.95.8 ॥

क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् ।

क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥ 2.95.9 ॥

क्वचिदिति । मणिनिकाशोदां मुक्तामणिनिभजलाम् । उदकस्योदभाव आर्षः । क्वचित्तीरे सिद्धजनेनावगाहनोद्युक्तेनावकीर्णाम् । एतेन श्वेतवसना पृथुजघना कामुकावृता नारी द्योत्यते ॥ 2.95.9 ॥

निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् ।

पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ॥ 2.95.10 ॥

निर्द्धूतानिति । वायुना निर्द्धूतान् विततान् तीरे व्याप्तान् पुष्पसञ्चयान् पश्य जलमध्यगान् पोप्लूयमानान् भृशं पुनःपुनर्वा प्लवमानान् अपरान् पुष्पसञ्चयांश्च त्वं पश्य । प्रियहृतार्धगलितवसना नारीव लक्ष्यत इति व्यङ्ग्यम् ॥ 2.95.10 ॥

तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः ।

अधिरोहन्ति कल्याणि विकूजन्तः शुभा गिरः ॥ 2.95.11 ॥

तानिति । वल्गुवचसः रत्यर्थाह्वानकालिकरम्यवचसः शुभाः गिरः विकूजन्तः रतिकालिकस्वरान् कुर्वन्तः । रथाङ्गाह्वयनाः चक्राह्वयाः द्विजाश्चक्रवाकाः तान् पुष्पसञ्चयान् । अधिरोहन्ति शयनमारोहन्तीत्यर्थः । अनेन चक्रवाकरतिर्दर्शिता ॥ 2.95.11 ॥

दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने ।

अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ॥ 2.95.12 ॥

दर्शनमिति । हे शोभने निर्मत्सरे चित्रकूटस्य दर्शनं पुरवासाधिकं चित्रकूटवासः पुरवासादप्यधिकसुखावहः, एकान्तभोगस्थानत्वादिति भावः । मन्दाकिन्या दर्शनं तव दर्शनादप्यधिकसुखकरम्, उद्दीपनत्वादिति भावः ॥ 2.95.12 ॥

विधूतकलुषैः सिद्धैस्तपोदमशमान्वितैः ।

नित्यविक्षोभितजलां विगाहस्व मया सह ॥ 2.95.13 ॥

विधूतकलुषैरिति । तपोदमशमान्वितैः अत एव विधूतकलुषैः निष्पापैः सिद्धैः सिद्धसाधननिष्ठैः । नित्यविक्षोभितजलां सदा तत्स्नानेन तत्पादरेणुधन्यां मन्दाकिनीं मया सह विगाहस्व मामप्रधानीकृत्य जलक्रीडारसमनुभवेत्यर्थः । नित्यविक्षोभितजलामित्यनेन जलक्रीडोपकरणकुसुम्भादिसामग्री दर्शिता ॥ 2.95.13 ॥

सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् ।

कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ॥ 2.95.14 ॥

सखीवदिति । सख्या यथा सलिलमवगाहसे तथा मया सह विगाहस्व । कमलानि रक्ताब्जानि । पुष्कराणि सिताम्भोजानि । अवमज्जन्ती अवमज्जयन्ती स्तनजघनाघातजनिततरङ्गैरिति भावः । यद्वा तव वदनकान्तिनिर्जिततया लज्जया अवमज्जयन्तीवेत्युत्प्रेक्षा ॥ 2.95.14 ॥

त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् ।

मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ 2.95.15 ॥

त्वमिति । त्वं व्यालान् वनचरजन्तून् पौरजनवत्पश्य, पौरजनप्रीतिं व्यालेषु कुर्वित्यर्थः । एवमुत्तरत्रापि । अतः पौरजनाद्यनवलोकनक्लेशो न कार्य्य इति भावः ॥ 2.95.15 ॥

लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः ।

त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ 2.95.16 ॥

लक्ष्मण इति । सौभ्रात्रम् अनुकूलभार्य्यत्वं च सौख्यरसायनमिति भावः । ॥ 2.95.16 ॥

उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः ।

नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह ॥ 2.95.17 ॥

उपस्पृशन्निनि । हे वैदेहि त्वया सह त्रिषवणं त्रिसन्ध्यम् । उपस्पृशन् स्नानं कुर्वन् । मधुमूलफलाशनोहमयोध्यायै न स्पृहये राज्याय च न स्पृहये । “स्पृहेरीप्सितः” इति सम्प्रदानसंज्ञा ॥ 2.95.17 ॥

इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरैः ।

सुपुष्पितैः पुष्पधरैरलङ्कृतां न सो ऽस्ति यः स्यादगतक्लमः सुखी ॥ 2.95.18 ॥

इमामिति । इमां मन्दाकिनीम् । मृगयूथशालिनीम्, मृगयूथलोलितामिति च पाठः । गजसिंहवानरैः, आश्रममहिम्ना शान्तवैरैरित्यर्थः । निपीततोयामिति पापहरत्वमुक्तम् । पुष्पधरैः वृक्षैः अनेनोद्दीपनत्वमुक्तम् । उपस्पृशन्नित्यनुषज्यते । यः अगतक्लमः सुखी न स्यात् स नास्ति सर्वोप्यत्र स्नात्वा गतक्लमो भवतीत्यर्थः ॥ 2.95.18 ॥

इतीव रामो बहुसङ्गतं वचः प्रियासहायः सरितं प्रति ब्रुवन् ।

चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्द्धनः ॥ 2.95.19 ॥

इत्यार्षे श्रीरामायणे वाक्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चनवतितमः सर्गः ॥ 95॥

इतीति । प्रियासहायो रामः सरितं प्रति सरिद्विषये सङ्गतं प्रसक्तानुप्रसक्तं बहुवचो ब्रुवन् सन् । नयनाञ्जनप्रभं नयनयोग्याञ्जनकान्तिम्, तद्वन्नित्यर्थः । चित्रकूटं चचार, चित्रकूटप्रान्ते चचारेत्यर्थः । एतेन पुनः पुरवासनिस्पृहत्वद्योतनाया रामस्य वनवासनिर्भरत्वमुक्तम् ॥ 2.15.19॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चनवतितमः सर्गः ॥ 95॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चनवतितमः सर्गः ॥ 95॥