०९४ चित्रकूटे सीतारामसंवादः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्नवतितमः सर्गः

दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रियः ।

वैदेह्याः प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ॥ 2.94.1 ॥

अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् ।

भार्य्याममरसङ्काशः शचीमिव पुरन्दरः ॥ 2.94.2 ॥

एवमेतावत्पर्य्यन्तं भरतकथां प्रस्तुत्य रामस्य चित्रकूटप्रवेशानन्तरदिनेषु विहारतारतम्याभावात् भरतप्राप्तिदिनसम्भूतविहारविशेषान् वर्णयति–दीर्घकालेत्यादिना सर्गद्वयेन । आदौ श्लोकद्वयमेकान्वयम् । अथ प्रातःकर्त्तव्यकर्मानुष्ठानानन्तरम् । तस्मिन् गिरौ चिरपरिचयेपि वैलक्षण्यातिशयादपूर्ववद्भासमाने । दीर्घकालोषितः मासमात्रमुषितोपि गिरिवनप्रियः “नवंनवं प्रीतिरहो करोति” इत्युक्तरीत्या गिरिवनयोः नवनवत्वापादकप्रीतिकः । वैदेह्याः प्रियेण सहैव वनदर्शनकुतूहलायाः । प्रियं प्रीतिमाकाङ्क्षन् तद्द्वारा स्वचित्तं च विलोभयन् प्रीणयन् । अमरसङ्काशः कुत्रापि निर्भय इत्यर्थः । दाशरथिः रामः । चित्रमन्वर्थं चित्रकूटम् । भार्यां सर्वात्मना भरणीयां सीतां शचीं पुरन्दर इव अदर्शयत् । “गतिबुद्धि–” इत्यादिना द्विकर्मकत्वम् ॥ 2.94.12 ॥

न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः ।

मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥ 2.94.3 ॥

नेति । राज्यात् भक्तजनपूर्णात् । विनाभवो विनावस्थानम् । अप्छान्दसः । दृष्ट्वा स्थितस्येति शेषः । मनो न बाधते न दुःखाकरोतीत्यर्थः । अयोध्यावासिजनविरहजः खेदः सर्वो निवृत्त इति भावः ॥ 2.94.3 ॥

पश्येममचलं भद्रे नानाद्विजगणायुतम् ।

शिखरैः खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम् ॥ 2.94.4 ॥

स्वचित्तविलोवभनमुक्त्वा मैथिलीप्रियकरणं दर्शयति–पश्येति । खमाकाशम् । उद्विद्धैरिव स्थितैः विद्ध्वोत्थितैरिव स्थितैः । अभ्रंलिहैरिति यावत् । कर्तरि निष्ठा ॥ 2.94.4 ॥

केचिद्रजतसङ्काशाः केचित् क्षतजसन्निभाः ।

पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः ॥ 2.94.5 ॥

केचिदिति । धातुविभूषिताः नानाधात्वलङ्कृताः । अत एवाचलेन्द्रस्य चित्रकूटस्य केचिद्देशाः रजतसङ्काशाः अत्यन्तशुभ्राः । केचित् क्षतजसङ्काशाः रुधिरसदृशवर्णाः । मणिवरप्रभाः इन्द्रनीलप्रभाः ॥ 2.94.5 ॥

पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभाः ।

विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिताः ॥ 2.94.6 ॥

पुष्पार्ककेतकाभाः पुष्पः पुष्परागः अर्कः स्फटिकः । “अर्कः स्फटिकसूर्ययोः” इत्यमरः । केतकाभाः ईषत्पाण्डुराः । ज्योतीरसप्रभाः ज्योतीषि तारा ज्वाला वा । “ज्योतिस्ताराग्निभाज्वालदृक्पुत्रार्थाध्वराग्निषु” इति वैजयन्ती । रसः पारदः । श्वेतवर्णा वान्तरभेदा उच्यन्ते ॥ 2.94.6 ॥

नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतः ।

अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुतः ॥ 2.94.7 ॥

नानेति । द्वीपी महाव्याघ्रः । तरक्षुः क्षुद्रव्याघ्रः । अदुष्टैः मुनिजनसन्निधानेन शान्ततया हिंसादिदोषरहितैः ॥ 2.94.7 ॥

आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः ।

अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः ॥ 2.94.8 ॥

काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा ।

बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः ॥ 2.94.9 ॥

पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः ।

एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ॥ 2.94.10 ॥

आम्रेत्यादि । असनैः पीतसालैः । लोघ्रैः तिरीटैः । प्रियालैः राजादनैः । अङ्कोलैः भव्यैः । न्युब्जैः तिनिशैः । स्यन्दनैः बिल्वैः । तिन्दुकैः कालस्कन्धैः । वेणुभिः वंशैः । काश्मरीभिः मधुपर्णिकाख्यैर्वृक्षैः । अरिष्टैः निम्बैः । वरुणैः तिक्तशाकैः । मधूकैः गुडपुष्पैः । तिलकैः क्षुरकैः । बदरीभिः आमलकैः । नीपैः कदम्बैः । वेत्रैः । धन्वनैः इन्द्रवृक्षैः । बीजकैः बीजप्रचुरफलैः दाडिमैः । पुष्पवद्भिरित्यादि सर्ववृक्षविशेषणम् । पुष्यति वर्द्धयति ॥ 2.94.810 ॥

शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् ।

किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विनः ॥ 2.94.11 ॥

शैलप्रस्थेष्विति । रोमहर्षणान् दर्शनमात्रतः पुलककरान् । द्वन्द्वशः स्त्रीपुरुषौ द्वौद्वावित्यर्थः । मनस्विनः अन्योन्यबद्धमनस्कान् ॥ 2.94.11 ॥

शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च ।

पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ॥ 2.94.12 ॥

शाखेति । खड्गादीनि विद्याधराणामेव । विद्याधराः देवयोनिविशेषाः ॥ 2.94.12 ॥

जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् ।

स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः ॥ 2.94.13 ॥

जलप्रपातैः निर्झरैः । उद्भेदैर्भुवमुद्भिद्य निर्गतैः । स्रवद्भिरिति सर्वविशेषणम् ॥ 2.94.13 ॥

गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् ।

घ्राणतर्प्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥ 2.94.14 ॥

गुहेति । घ्राणतर्प्पणमिति क्रियाविशेषणम् ॥ 2.94.14 ॥

यदीह शरदो ऽनेकास्त्वया सार्द्धमनिन्दिते ।

लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ॥ 2.94.15 ॥

यदीति । हे अनिन्दिते सर्वाङ्गसुन्दरि इह वने अनेकाः शरदः संवत्सरान् त्वया लक्ष्मणेन कैङ्कर्य्यलक्ष्मीवता च सार्द्धं यदि वत्स्यामि तदा मां शोकः नगरत्यागजं दुःखं न प्रधक्ष्यति न पीडयिष्यतीत्यर्थः । अत्र यदीत्युक्त्या भाविविवासस्सूच्यते ॥ 2.94.15 ॥

बहुपुष्पफले रम्ये नानाद्विजगणायुते ।

विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ॥ 2.94.16 ॥

बहुपुष्पेति । घ्राणरसनचक्षुस्त्वक्श्रोत्रप्रीतिकरे ऽस्मिन्वने रतवानस्मि प्रीतियुक्तो ऽस्मि । भामिनि विशेषतस्त्वत्सन्निधानादिति भावः ॥ 2.94.16 ॥

अनेन वनवासेन मया प्राप्तं फलद्वयम् ।

पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥ 2.94.17 ॥

न केवलं सुखस्य लाभः किन्तु पित्रानृण्यबन्धुहर्षावपीत्याह–अनेनेति । फलद्वयमेवाह पितुरिति । धर्मेविषये पितुः अनृणता आनृण्यम्, तद्वाक्यकरणमित्यर्थः । भरतस्य प्रियं च भरतस्य भाविस्वकैङ्कर्य्यमिति भावः ॥ 2.94.17 ॥

वैदेहि रमसे कच्चिच्चित्रकूटे मया सह ।

पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ॥ 2.94.18 ॥

एवं स्वप्रीतिमुक्त्वा सीताप्रीतिं पृच्छति–वैदेहीत्यादिना । वैदेहि ‘भोगोपोद्धातकेलीचुलकितभगद्वैश्वरूप्यानुभावां’ त्वां जानासि किं मया भोगस्रोतसि त्वां प्रधानीकुर्वन्तं मां जानासि । (पाठभेदः । मया भोगस्रोतसि त्वामप्रधानीकुर्वन्तं मां जानासि किं चित्रकूटे भोगस्थानसौभाग्यमपि वाङ्मनसाविषयं जानासि ।) तटस्थोद्दीपनविभावानप्याह पश्यन्तीति । मनोवाक्कायाः संयताः यैस्तान् स्ववशीकृतजनमनोवाक्कायानित्यर्थः । मनोवाक्कायसंयतेति पाठे सन्नियमितकरणत्रयेत्यर्थः । विविधान् मलयानिलकोकिलालापभ्रमरझङ्कारपुष्पहासप्रभृतिभेदान् । भावान् विभावान् पश्यन्ती रमसे कच्चित् । यद्वा भावान् किन्नरमृगादीनां चेष्टा । “भावो लीला क्रिया चेष्टा भूत्यभिप्रायजन्तुषु ।” इति वैजयन्ती ॥ 2.94.18 ॥

इदमेवामृतं प्राहू राज्ञि राजर्षयः परे ।

वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ॥ 2.94.19 ॥

न केवलमयं वनवासो भोगाय आमुष्मिकसाधकश्चेत्याह–इदमिति । वनवासं वनवासरूपम् । इदम् अमृतम् अमृतवद्भोग्यं वस्तु । मे प्रपितामहाः मत्पितृवंश्याः । परे पूर्वे राजर्षयः । प्रेत्य प्रारब्धशरीरवियोगं प्राप्य । भवार्थाय संसारविनाशायेत्यर्थः । ‘तमसे दीपो मशकार्थो धूमः’ इत्यादिवन्निर्देशः । प्राहुः प्रोचुः । यद्वा इदमिति लिङ्गव्यत्यय आर्षः । इदम् इमम् । वनवासं वानप्रस्थोचितनियमसहितं वनवासम् । अमृतं प्राहुः मोक्षसाधनं प्राहुः । “अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते । अयाचिते च मोक्षे च धन्वन्तरिसुवर्णयोः ॥” इति वैजयन्ती। प्रेत्यभावार्थाय देवादिदेहान्तरपरिग्रहरूपप्रयोजनाय च प्राहुः। रघुवंश्या राजर्षयः वानप्रस्थोचितं वनवासं स्वर्गसाधनम् अपवर्गसाधनं च प्राहुरित्युक्तं भवति ॥ 2.94.19 ॥

शिलाः शैलस्य शोभन्ते विशालाः शतशो ऽभितः ।

बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः ॥ 2.94.20 ॥

शिला इति । विशालाः विपुलाः । बहुलैः उल्बणैः नीलादिभिर्वर्णैरुपलक्षिताः । बहुलाः बहुविधाः । शैलस्य चित्रकूटस्य । शिलाः शतशः अभितः शोभन्ते ॥ 2.94.20 ॥

निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव ।

ओषध्यः स्वप्रभालक्ष्या भ्राजमानाः सहस्रशः ॥ 2.94.21 ॥

निशीति । अचलेन्द्रस्य ओषध्यः महौषधयः । स्वप्रभालक्ष्याः प्रभालक्ष्यस्वस्वरूपाः अत एव भ्राजमानाः भासमानाः । निशि सहस्रशो भान्ति ॥ 2.94.21 ॥

केचित् क्षयनिभा देशाः केचिदुद्यानसन्निभाः ।

केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥ 2.94.22 ॥

भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः ।

चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वतः शुभः ॥ 2.94.23 ॥

केचिदिति । अस्य पर्वतस्य देशाः केचित् क्षयनिभाः गृहसदृशाः । “धिष्ण्यं धाम निकेतनं च सदनं वस्त्यं च वास्तु क्षयः” इति हलायुधः । बहुगुहावत्त्वादिति भावः । उद्यानसन्निभाः बहुलतावृक्षवत्त्वात् । एकशिलाः शिलाभेदरहिताः ॥ 2.94.2223 ॥

कुष्ठपुन्नागस्थगरभूर्जपत्रोत्तरच्छदान् ।

कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ॥ 2.94.24 ॥

कुष्ठेति । कुष्ठं पारिभाव्यम् । “व्याधिः कुष्ठं पारिभाव्यं वाप्यं पाकलमुत्पलम्” इत्यमरः । पुन्नागपुष्पाणि स्थगराणि पुत्रकसंज्ञिकवृक्षविशेषपुष्पणि । भूर्जपत्राणि भूर्जवृक्षत्वचः । एतानि उत्तरच्छदाः उपर्यास्तरणानि येषां तान् । कुशेशयदलायुतान् पद्मदलव्याप्तान् स्वास्तरान्, शयनानीत्यर्थः ॥ 2.94.24 ॥

मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः ।

कामिभिर्वनिते पश्य फलानि विविधानि च ॥ 2.94.25 ॥

मृदिता इति । मृदिताः कृतमर्दनाः, घ्राणादिभोगेन म्लाना इत्यर्थः । अपविद्धाः त्यक्ताः । फलानीत्यत्रापि मृदितान्यपविद्धानीति योज्यम् ॥ 2.94.25 ॥

वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् ।

पर्वतश्चित्रकूटो ऽसौ बहुमूलफलोदकः ॥ 2.94.26 ॥

वस्वौकसारामिति । वस्वौकसारा पूर्वदिगवस्थिता शक्रपुरी । “वस्वौकसारा शक्रस्य पूर्वस्यां दिशि संस्थिता” इति श्रीविष्णुपुराणवचनात् । यद्वा वस्वौकसारा कुबेरपुरी । “पुरी वस्वौकसारा स्याद्विमानं पुष्पको ऽस्त्रियाम्” इति

यादवः । नलिनीं मानससरसीम्, सौगन्धिकाख्यसरसीं वा । अत्येतीव रमणीयतया अतिक्रामतीव ॥ 2.94.26 ॥

इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च ।

रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमैः परैः स्थितः ॥ 2.94.27 ॥

इमतिति । हे वनिते सीते परैः श्रेष्ठैः नियमैः सतां राजर्षीणां पथि स्थितः सन् इमं कालं चतुर्दशसमासम्मितं कालं त्वया लक्ष्मणेन च सह इह चित्रकूटे विजह्रिवान् विहृतवान् । विपूर्वाद्धरतेर्लिटः क्वसुरादेशः । पश्चात्कुलधर्मवर्द्धनीं कुलधर्मः प्रजापालनं तद्वर्द्धनीम् । रतिं राज्यसुखं प्रपत्स्ये ॥ 2.94.27 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्नवतितमः सर्गः ॥ 94 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुर्नवतितमः सगः ॥ 94 ॥