श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिनवतितमः सर्गः
तया महत्या यायिन्या ध्वजिन्या वनवासिनः ।
अर्द्दिता यूथपा मत्ताः सयूथाः सम्प्रदुद्रुवुः ॥ 2.93.1 ॥
तयेत्यादि । यायिन्या गच्छन्त्या । अर्दिताः पीडिताः । यूथपाः गजादियूथनाथाः । “यूथनाथस्तु यूथपः” इत्यमरः ॥ 2.93.1 ॥
ऋक्षाः पृषतसङ्घाश्च रुरवश्च समतन्तः ।
दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ॥ 2.93.2॥
ऋक्षा इति । पृषतसङ्घाः बिन्दुमन्मृगसङ्घाः । ऋक्षाः भल्लूकाः । रुरवो बिन्दुरहिताः स्थूलकायाः विकटश्रृङ्गा मृगाः । दृश्यन्ते अदृश्यन्त । वनराजीष्वित्यादिना अपूर्वमनुष्यादिदर्शनेन स्तब्धेक्षणाः स्थिता इत्युच्यन्ते ॥ 2.93.2 ॥
स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः ।
वृतो महत्या नादिन्या सेनया चतुरङ्गया ॥ 2.93.3 ॥
स इति । नादिन्या रथघोषहेषितबृंहितादिभिरिति शेषः ॥ 2.93.3 ॥
सागरौघनिभा सेना भरतस्य महात्मनः ।
महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुदः ॥ 2.93.4 ॥
सागरौघेति । द्यामाकाशम् ॥ 2.93.4 ॥
तुरङ्गौघैरवतता वारणैश्च महाजवैः ।
अनालक्ष्याचिरं कालं तस्मिन् काले बभूव भूः ॥ 2.93.5 ॥
तुरङ्गौघैरिति । अवतता निरन्तरा । तस्मिन् काले गमनकाले । चिरकालमित्यनेन कदाचिल्लक्ष्यत इति गम्यते ॥ 2.93.5 ॥
स यात्वा दूरमध्वानं सुपरिश्रान्तवाहनः ।
उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम् ॥ 2.93.6 ॥
स इति । मन्त्रिणां मन्त्रविदाम् । यद्वा औचित्यान्मन्त्रशब्दः कार्य्यविचारे वर्त्तते ॥ 2.93.6 ॥
यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया ।
व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ॥ 2.93.7 ॥
यादृशमिति । अस्य देशस्य यादृशं रूपं लक्ष्यते । मन्दाकिनी । चित्रकूटमध्यवर्त्तित्वरूपं मया च यथा येन प्रकारेण श्रुतं भरद्वाजात् तथा दृश्यत इति शेषः ॥ 2.93.7 ॥
अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी ।
एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ॥ 2.93.8 ॥
तदेवाह–अयमित्यादिना । अयं पुरोवर्त्ती गिरिश्चित्रकूटो भवति तथेयं मन्दाकिनी भवति । एतत् अनयोर्मध्यवर्त्ति वनं नीलमेघनिभं प्रकाशते ॥ 2.93.8 ॥
गिरेः सानूनि रम्याणि चित्रकूटस्य सम्प्रति ।
वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः ॥ 2.93.9 ॥
अथ तद्देशप्राप्तिं दर्शयति–गिरेः सानूनीति । सानूनि एतानीति सिद्धम् । अवमृद्यन्ते भज्यन्ते ॥ 2.93.9 ॥
मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु ।
नीला इवातपापाये तोयं तोयधरा घनाः ॥ 2.93.10 ॥
अथ रामनिवासत्वेन भोग्यताबुद्ध्या तद्वनं भ्रातरं प्रति वर्णयति–मुञ्चन्तीत्यादिना । एते वकुला इत्यर्थः । आतपापाये घर्मान्ते, वर्षाकाल इति यावत् । तोयधरा इति नीलत्वे हेतुः ॥ 2.93.10 ॥
किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् ।
मृगैः समन्तादाकीर्णं मकरैरिव सागरम् ॥ 2.93.11 ॥
किन्नरेति । किन्नराचरितं देशं किन्नराचरितदेशरूपं पर्वतम् ॥ 2.93.11 ॥
एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः ।
वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ॥ 2.93.12 ॥
एत इति । प्रचोदिताः सैनिकैरिति शेषः । प्रविद्धा प्रेरितेति यावत् ॥ 2.93.12 ॥
कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी ।
मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः ॥ 2.93.13 ॥
कुर्वन्तीति । अमी भटाः मेघप्रकाशैः फलकैः केशबन्धविशेषैः वनसञ्चारार्थं कल्पितैरुपलक्षिताः सन्तः । दाक्षिणात्या नरा यथा दाक्षिणात्या नरा इव । शिरस्सु कुसुमापीडान् कुसुमशेखरान् कुर्वन्ति । “आपीडशेखरोत्तंसावतंसाः शिरसि स्रजः ।” इति हलायुधः । दाक्षिणात्या हि केशानुद्धृत्य बद्ध्वा कुसुमापीडैरलङ्कुर्वन्ति ॥ 2.93.13 ॥
निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् ।
अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ॥ 2.93.14 ॥
निष्कूजमिति । घोरप्रदर्शनं क्रूरदर्शनमिदं वनं पुरा निष्कूजमिव भूत्वा निर्जनं भूत्वेति यावत् । सम्प्रति जनाकीर्णा अयोध्या सौम्यनगरीव मा मां प्रतिभाति ॥ 2.93.14 ॥
खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति ।
तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम् ॥ 2.93.15 ॥
खुरैरिति । हयादिखुरैरुदीरितः उत्थापितो रेणुर्दिवं प्रच्छाद्य तिष्ठति । वहति द्रुतमपनयति । कुर्वन्निव मम प्रियं रामाश्रमदर्शनप्रदानादिति भावः । अनेनावगम्यते रामाश्रमवर्णनं तदधिष्ठितत्वेन प्रीतिहेतुत्वादिति ॥ 2.93.15 ॥
स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् ।
एतान् सम्पततः शीघ्रं पश्य शत्रुघ्न कानने ॥ 2.93.16 ॥
वक्ष्यमाणत्रासहेतुत्वेनाह–स्यन्दनानिति । सूतमुख्यैः सारथिमुख्यैः । सम्पततः रामदर्शनकुतूहलेन सम्यग्गच्छतः ॥ 2.93.16 ॥
एतान् वित्रासितान् पश्य बर्हिणः प्रियदर्शनान् ।
एतमाविशतः शीघ्रमधिवासं पतत्ित्रणः ॥ 2.93.17 ॥
एतानिति । वित्रासितान् रथैरिति शेषः । बर्हिणः मयूरान् । एतं शैलम् । पतत्त्रिणः प्रशस्तपक्षानिति बर्हिविशेषणम् ॥ 2.93.17 ॥
अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा ।
तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा ॥ 2.93.18 ॥
अतिमात्रमिति । अतिमात्रं मनोज्ञ इति सम्बन्धः । अत एव स्वर्गपथो यथा स्वर्गप्रदेश इव । मा मां प्रतिभाति ॥ 2.93.18 ॥
मृगा मृगीभिः सहिता बहवः पृषता वने ।
मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिताः ॥ 2.93.19 ॥
मृगा इति । पृषताः बिन्दुमृगाः ॥ 2.93.19 ॥
साधुसैन्याः प्रतिष्ठन्तां विचिन्वन्तु च कानने ।
यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥ 2.93.20 ॥
भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः ।
विविशुस्तद्वनं शूरा धूमं च ददृशुस्ततः ॥ 2.93.21 ॥
साध्विति । साधुसैन्याः उचिताः सैनिकाः । “साधुः स्त्रिषूचिते सौम्ये सज्ज्ने वार्द्धुषौ पुमान् ।” इति वैजयन्ती । प्रतिष्ठान्तां गच्छन्त्वित्यर्थः । दृश्येते दृश्येयाताम् । लकारव्यत्यय आर्षः ॥ 2.93.2021 ॥
ते समालोक्य धूमाग्रमूचुर्भरतमागताः ।
नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ॥ 2.93.22 ॥
त इति । धूमाग्रं धूमशिखाम् । अमनुष्ये मनुष्यरहिते देशे । अग्निः धूमरेखाविशेषनिश्चितः न भवति । अत्र अत्रैव वह्निमत्प्रदेशे राघवौ स्तः । व्यक्तं ध्रुवम् ॥ 2.93.22 ॥
अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ ।
मन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः ॥ 2.93.23 ॥
अथेति । अथ यदि न स्त इत्यर्थः । तपस्विनः सन्ति, ते प्रष्टव्या इति भावः ॥ 2.93.23 ॥
तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् ।
सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः ॥ 2.93.24 ॥
तदिति । साधुसम्मतं साधूनां न्यायविदां सम्मतम् । अमित्रबलमर्दनः अमोघशासन इति यावत् ॥ 2.93.24 ॥
यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः ।
अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ॥ 2.93.25 ॥
एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः ।
भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥ 2.93.26 ॥
यत्ता इति । यत्ताः निश्शब्दाः । इतः अस्माद्देशात् । परम् अग्रतः भवद्भिर्न गन्तव्यम् । अहमेव राजसु मन्त्रिषु सुमन्त्र एव ऋत्विक्षु गुरुर्वसिष्ठ एव । धृतिरिति पाठे–सुमन्त्र एवोच्यते ॥ 2.93.2526 ॥
व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रतः ।
बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ॥ 2.93.27 ॥
व्यवस्थितेति । अग्रतो धूमं निरीक्षमाणापि च । अनेन रामदर्शनत्वरातिशयः सूच्यते । व्यवस्थित भरतेन व्यवस्थापितेत्यर्थः । भरतेन हेतुना व्यवस्थिता वा । सा चमूः प्रियस्य रामस्य नचिरेण अचिरेण । समागमं जानतौ सती तदा व्यवस्थाकालेपि हृष्टा बभूव । जानकीप्रियस्येति च पाठः ॥ 2.93.27 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिनवतितमः सर्गः ॥ 93 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिनवतितमः सर्गः ॥ 93 ॥