श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकनवतितमः सर्गः
कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा ।
भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥ 2.91.1 ॥
कृतेति । तत्रैवाश्रमे निवासाय कृतबुद्धिं निश्चितबुद्धिं भरतं स मुनिः आतिथ्येन भोजनपर्य्यन्तातिथिसत्काराय न्यमन्त्रयत् प्रार्थयामास ॥ 2.91.1 ॥
अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् ।
पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ॥ 2.91.2 ॥
अब्रवीदिति । वने यत्फलमूलादिकम् उपपद्यते लभ्यते तेन तापसाहारेणातिथ्यं कृतम्, ननु एतावन्मात्रेण तुष्टो ऽस्मीति भावः ॥ 2.91.2 ॥
अथोवाच भरद्वाजो भरतं प्रहसन्निव ।
जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥ 2.91.3 ॥
अथेति । प्रहसन्निव प्रहासावेदकानुभावयुक्तः । मुनिरितःपरं किं करिष्यतीति भरताशयज्ञानेन हासः, त्वां प्रीतिसंयुक्तं मद्विषये सन्तुष्टं जाने अत एव केनचिदुपचारेण तुष्येः तुष्टो भवेः ॥ 2.91.3 ॥
सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् ।
मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ॥ 2.91.4 ॥
सेनाया इति । भुज्यत इति भोजनमन्नम् । अत्रादौ तथापीत्युपस्कार्य्यम्, तथापि मम प्रीतिर्यथारूपा यादृशप्रकारा तथा त्वमर्हः, त्वं तथा प्रीतो भवितुमर्ह इत्यर्थः, तथानुमन्तुमर्हसीत्यर्थो वा ॥ 2.91.4 ॥
किमर्थं चापि निक्षिप्य दूरे बलमिहागतः ।
कस्मान्नेहोपयातोसि सबलः पुरुषर्षभ ॥ 2.91.5 ॥
किमर्थमिति । उक्तमेवार्थं व्यतिरेकमुखेनाप्याह–कस्मादित्यादिना ॥ 2.91.5 ॥
भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् ।
ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ॥ 2.91.6 ॥
भरत इति । भगवद्भयात् भवान् कुप्येदिति भयात् ॥ 2.91.6 ॥
राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा ।
यत्नतः परिहर्त्तव्या विषयेषु तपस्विनः ॥ 2.91.7 ॥
राज्ञेति । विषयेषु तपस्विनः स्वकीयदेशेषु वर्तमानाः ऋषयः यत्नतः परिहर्तव्याः, ससैन्येन तत्समीपं न गन्तव्यमित्यर्थः ॥ 2.91.7 ॥
वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः ।
प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥ 2.91.8 ॥
ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा ।
न हिंस्युरिति तेनाहमेक एव समागतः ॥ 2.91.9 ॥
कोपनिमित्तमाह–वाजिमुख्या इत्यादिना । उटजान् पर्णशालाः ॥ 2.91.89 ॥
आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा ।
ततस्तु चक्रे भरतः सेनायाः समुपागमम् ॥ 2.91.10 ॥
आनीयतामिति । ततः सेनानिवेशस्थलात् । इतः इह । समुपागमं समानयनम् ॥ 2.91.10 ॥
अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च ।
आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ 2.91.11 ॥
अग्निशालामिति । अग्निशालाप्रवेशः पावनत्वार्थः, देवतासन्निधानस्थलत्वात् । अपः पीत्वा, त्रिरिति शेषः । “त्रिराचामेत्” इति श्रुतेः । परिमृज्य आस्यम्, द्विरिति शेषः । “द्विःपरिमृज्य” इति श्रुतेः । चकारेण सकृदुपस्पृश्य शिरश्चक्षुषी नासिके श्रोत्रे हृदयमारभ्य इत्युक्तसंग्रहः । अनेन सर्वकर्म्माङ्गमाचमनमिति दर्शितम् । क्रियाहेतोः करणनिमित्तम् ॥ 2.91.11 ॥
आह्वये विश्वकर्माणमहं त्वष्टारमेव च ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ 2.91.12 ॥
आह्वानमन्त्रमाह–आह्वय इत्यादिना । आह्वय इत्यात्मनेपदमार्षम् । विश्वकर्मा सर्वशिल्पकर्ता । त्वष्टा तु तक्षणेन गृहादिनिर्माता । यद्वा त्वष्टारमेव चेत्यवधारणेनासुरविश्वकर्म्मा मयो व्यावर्त्यते । तत्रातिथ्यनिमित्तं संविधीयतां गृहादिसंविधानं क्रियताम् ॥ 2.91.12 ॥
आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ 2.91.13 ॥
वक्ष्यमाणान्नपानादिरक्षणाय लोकपालानाह्वयति–आह्वय इति । शक्रमुखान् इन्द्रप्रधानात् । शक्रस्य पृथङ्निर्देशात् त्रीन् लोकपालान् यमवरुणकुबेरान् देवानित्यग्न्यादय उच्यन्ते । संविधीयतां पालनं क्रियताम् ॥ 2.91.13 ॥
प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च ।
पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः ॥ 2.91.14 ॥
सर्वा नदीर्द्वेधा विभज्याह्वयति–प्राक्स्रोतस इति । सह युगपत् ॥ 2.91.14 ॥
अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् ।
अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ 2.91.15 ॥
तासां कर्त्तव्यमाह–अन्या इति । अन्याः काश्चन मैरेयं मिरादेशे भवं खर्जूरादिहेतुकं मद्यविशेषम् । सुरां “गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा” इत्युक्तां त्रिविधां सुराम् । सुनिष्ठितां सुनिष्पादिताम् । इक्षुकाण्डरसोपमम् । काण्डो वर्गः ॥ 2.91.15 ॥
आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् ।
तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वशः ॥ 2.91.16 ॥
गानार्थमाह्वयति–आह्वय इति । देवगन्धर्वान् मनुष्यगन्धर्वभिन्नान् । हहाहुहूनितिच्छान्दसो ह्रस्वः । अप्सरसां द्वैविध्यमाह–देवीर्गन्धर्वीरिति । देवीः देवजातीः । गन्धर्वीः गन्धर्वजातीः । अत एव “एते वै गन्धर्वाप्सरसां गृहाः” इति श्रौतप्रयोगः ॥ 2.91.16 ॥
घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् ।
नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥ 2.91.17 ॥
आवश्यकत्वेन प्रधानाप्सरसो विशिष्याह्वयति–घृताचीमित्यादिना । घृतवदञ्च्यते पूज्यत इति घृताची । विश्वैः समस्तैः अञ्च्यत इति विश्वाची । मिश्रकेशीं निरन्तरकेशीं श्रेष्ठकेशीं वा । बुसेभ्योलमलम्बुसाम् । बुसा बुधाः देवाः वर्णविपर्ययः । नागानां दन्ता इव शुभ्राः दन्ताः यस्यास्तां नागदन्ताम् । हेमां हेमवर्णाम् । पुनश्च हेमामिति पाठे–पूर्वोक्तहेमापेक्षया अस्या व्यावृत्तिमाह अनिद्रकृतस्थलामिति । अद्रौ महेन्द्रे मयेन कृतनिवासां स्वयम्प्रभाबिलस्थामित्यर्थः । हिमामिति पाठे–हिमवच्छीतलाङ्गीम् । यद्वा हिममस्यास्तीति हिमा । अद्रिकृतस्थला चान्या एवमेतान्यन्वर्थनामानि ॥ 2.91.17 ॥
शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषितः ।
सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदाः ॥ 2.91.18 ॥
शक्रमिति । शक्रं या उपतिष्ठन्ति रम्भोर्वशीमेनकादयः । ब्रह्माणं चतुर्मुखं तल्लोकेप्यप्सरसः सन्ति । “तं पञ्चशतान्यप्सरसां प्रतिधावन्ति” इति श्रुतेः । इदं च मत्तान्तरमनुसृत्योक्तम् । तुम्बुरुणा तासां गानशिक्षकेण सपरिच्छदाः । नृत्यगीताद्युपकरणसहिताः सालङ्कारा वा ॥ 2.91.18 ॥
वनं कुरुषु यद्दिव्यं वासोभूषणपत्त्रवत् ।
दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥ 2.91.19 ॥
भोगोपकरणान्याहूय भोगस्थानान्याह्वयति–वनमिति । वनं चैत्ररथाख्यम्, तच्चोत्तरकुरुदेशे वर्त्तते । दिव्यं देवार्हम् । वासोभूषणान्येव पत्राण्यस्मिन् सन्तीति वासोभूषणपत्रवत् । शश्वत् सर्वदा । दिव्यनार्य्य एव फलानि यस्मिन् तत् तथा । एवम्भूतं यत्कौबेरमस्ति तत् इह वने एतु आगच्छतु । उत्तरदिक्पालत्वेन कुबेराधिष्ठितत्वात् कौबेरमित्युक्तम् । इयं च कुबेरं प्रत्येवोक्तिः । नदीनामिव वनस्याह्वानं तदधिष्ठातृदेवताद्वारा ॥ 2.91.19 ॥
इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् ।
भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ 2.91.20 ॥
एवं कुबेरं प्रत्युक्त्वा अन्नपतिं चन्द्रं प्रत्याह–इहेति । मे मन्निमित्तम् । भगवान् माहात्म्यवान् । सोम ओषधीनामधिपतिश्चन्द्रः उत्तममन्नं विधत्तां सम्पादयतु । अन्नं चतुर्विधत्वेन विशेषयति–भक्ष्यमित्यादि । भक्ष्यं खाद्यमपूपादि । भोज्यम् ओदनादि । चोष्यं शुष्कादि । लेह्यं रसायनादि । विविधम् एकैकमनेकविधं । तदपि बहु अनल्पम् ॥ 2.91.20 ॥
विचित्राणि च माल्यानि पादपप्रच्युतानि च ।
सुरादीनि च पेयानि मांसानि विविधानि च ॥ 2.91.21 ॥
विचित्राणीति । पादपप्रच्युतानि, नवानीति भावः ॥ 2.91.21 ॥
एवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च ।
शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥ 2.91.22 ॥
एवमाह्वाने शक्तिविशेषं दर्शयति–एवमित्यादिना । समाधिना योगेन । तपसा ज्ञानेन । यद्वा अनशनादिकायक्लेशरूपेण अत एव तेजसा अनागमे दण्डनसामर्थ्येन च युक्तः मुनिः । शीक्षास्वरसमायुक्तं शीक्ष्यन्ते उपदिश्यन्ते वर्णस्वरादयो ऽनयेति शीक्षा । छान्दसो दीर्घः । शीक्षाप्रतिपाद्यस्वरयुक्तमिति क्रियाविशेषणम् । “दृष्टः शब्दः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतो ऽपराधात्” इति स्वरापराधस्य प्रत्यवायहेतुत्वश्रवणात् । एवम् आह्वये विश्वकर्माणमित्यारभ्योक्तरीत्या । अब्रवीत् आह्वानमन्त्रानजपदित्यर्थः ॥ 2.91.22 ॥
मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः ।
आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ 2.91.23 ॥
मनसेति । मनसा अनन्यपरेणेत्यर्थः । ध्यायतः निरन्तरं चिन्तयतः । प्राङ्मुखस्येत्यदृष्टविशेषार्थं कृताञ्जलेरिति आह्वानमुद्रोक्ता । तानि पूर्वोक्तानि । दैवतानि विश्वकर्मादीनि । मुनिदृष्टिविषयत्वाय पृथक्पृथक् आजग्मुः ॥ 2.91.23 ॥
मलयं दर्दुरं चैव ततः स्वेदनुदो़ ऽनिलः ।
उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥ 2.91.24 ॥
मलयश्चन्दनालयः । दर्दुरस्तत्समीपस्थश्चन्दनोत्पत्तिस्थानभूतो गिरिः । तदुभयं चोपस्पृश्य सुप्रियात्मा सुप्रियस्वभावः, सुगन्ध इत्यर्थः । अत एव सुखः सुखकरः । शिवः शीतलः । युक्त्या अङ्गस्पर्शेन । स्वेदनुदः स्वेदनिवर्त्तकः । “इगुपध–” इत्यादिना कप्रत्ययः । अनिलः वायुः । ततः गिरिद्वयाद्ववौ । इन्द्रा़द्याह्वानेन वाय्वाद्याह्वानमर्थसिद्धम् ॥ 2.91.24 ॥
ततोभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः ।
दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ 2.91.25 ॥
तत इति । घनाः निरन्तराः “घनं निरन्तरं सान्द्रम्” इत्यमरः । पुष्पवृष्टयो ऽभ्यवर्त्तन्त, आसन्नित्यर्थः ॥ 2.91.25 ॥
प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणाः ।
प्रजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ॥ 2.91.26 ॥
प्रववुरिति । प्रववुश्चोत्तमा वाता इति पूर्वोक्तस्यैवाविच्छेद उच्यते । वीणाः प्रमुमुचुः स्वरान्, वीणाशब्देन वीणावन्तो लक्ष्यन्ते । तदेकपरत्वव्यञ्जनाय स्वरान्मुमुचुः उत्पादयामासुः । असिश्छिनत्तीतिवत् करणे कर्तृत्वोपचारो वा ॥ 2.91.26 ॥
स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ।
विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः ॥ 2.91.27 ॥
स शब्द इति । स शब्दः द्यां च भूमिं चाधिवसतामिति शेषः । प्राणिनां श्रवणानि श्रोत्राणि विवेश । स शब्दः कीदृशः उच्चारितः वीणादिभिरुत्पादितः । श्लक्ष्णः कोमलः । समः निषादादिषु कुत्रचित् औत्कट्यरहितः । मन्द्रमध्यमतारश्रुतिसाम्ययुक्तो वा । लयगुणान्वितः लयो नाम नृत्तगीतवाद्यानामेककालविरामः, स एव गुणस्तेनान्वितः ॥ 2.91.27 ॥
तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् ।
ददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥ 2.91.28 ॥
तस्मिन्निति । अनेन गन्धर्वाप्सरसामागमनमात्रं सूचितम् । विधानं निर्माणम् । तच्च प्रपञ्चयिष्यति चतुःशालानीत्यादिना ॥ 2.91.28 ॥
बभूव हि समा भूमिः समन्तात्पञ्चयोजना ।
शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभैः ॥ 2.91.29 ॥
देवताकृत्यमाह–बभूवेति । शाद्वलैर्बालतृणवत्प्रदेशैः । छन्ना व्याप्ता । नीलवैडूर्य्यसन्निभैः इन्द्रनीलवैडूर्य्याभ्यां तुल्यैः ॥ 2.91.29 ॥
तस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः ।
आमलक्यो बभूवुश्च चूताश्च फलभूषणाः ॥ 2.91.30 ॥
तस्मिन्निति । तस्मिन् भूप्रदेशे । बीजपूरकाः मातुलुङ्गकाः । फलान्येव भूषणानि येषां ते फलभूषणा इति सर्ववृक्षविशेषणम् । आमलक्यो बभूवुरिति पाठः ॥ 2.91.30 ॥
उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् ।
आजगाम नदी दिव्या तीजैर्बहुभिर्वृता ॥ 2.91.31 ॥
उत्तरेभ्य इति । वनमाहूतं कौबेरवनं दिव्योपभोगवत् दिव्योपभोगार्हम् । नदीति जात्येकवचनम् । तीरजैः वृक्षैरिति शेषः ॥ 2.91.31 ॥
चतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम् ।
हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥ 2.91.32 ॥
चतुःशालानीति । चतुःशालानि सञ्जवनानि “चतुःशालं सञ्जवनम्” इति हलायुधः । आजग्मुरिति विपरिणामः । तोरणानि बन्धनमालाः “बन्धी बन्धनमाला तु तोरणं परिकीर्तितम्” इति हलायुधः । वन्दनमालेति पाठान्तरम् ॥ 2.91.32 ॥
सितमेघनिभं चापि राजवेश्मसु तोरणम् ।
दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ 2.91.33 ॥
चतुरश्रमसम्बाधं शयनासनयानवत् ।
दिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ।
उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ॥ 2.91.34 ॥
सितमेघेत्यारभ्य धौतनिर्मलभाजनमित्यन्तमेकं वाक्यम् । आजगामेति । क्रिया द्रष्टव्या । सितमेघनिभं सुधालेपनधवलत्वात् । दिव्यमाल्यकृताकारं दिव्यमालाभिः कृतालङ्कारम् । दिव्यगन्धैर्दिव्यचन्दनैः । समुक्षितं सिक्तम् । चतुरश्रं चतुष्कोणम् । असम्बाधं विशालम् । शयनासनयानवत् यानं शिबिकादि । रसैः शर्कदादिभिः । दिव्यभोजनवस्त्रवत् दिव्यभोजनानि सूक्ष्मशाल्यन्नादीनि दिव्यवस्त्राणि सूक्ष्मवस्त्राणि उपकल्पितानि सर्वान्नानि नानाविधापूपादीनि यस्मिन् तत् । धौतनिर्मलभाजनं धौतत्वेन निर्मलानि भाजनानि यस्मिन् तत्तथा ॥ 2.91.3334 ॥
क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् ।
प्रविवेश महाबाहुरनुज्ञातो महर्षिणा ।
वेश्म तद्रत्नसम्पूर्णं भरतः केकयीसुतः ॥ 2.91.35 ॥
क्लृप्तसर्वासनमित्यत्र स्नानभोजना़द्यासनान्युच्यन्ते । शयनासनेत्यत्र राजासनं तत्साहचर्याच्छयनं च महाशयनम्, स्वास्तीर्णशयनोत्तममित्यत्र निद्रार्थशयनम् । तत्र भरतस्य प्रवेशमाह प्रविवेशेति । महाबाहुरित्यनेन तदर्हत्वमुच्यते । केकयीसुत इत्यनेन केकयीदत्तराज्येप्यनादरः किमत्र आदरं करिष्यतीति द्योत्यते । महर्षिणा भरद्वाजेन ॥ 2.91.35 ॥
अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः ।
बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥ 2.91.36 ॥
अनुजग्मुरिति । वेश्मसंविधिं वेश्मसंविधानम् ॥ 2.91.36 ॥
तत्र राजासनं दिव्यं व्यजनं छत्रमेव च ।
भरतो मन्त्रिभिः सार्द्धमभ्यवर्त्तत राजवत् ॥ 2.91.37 ॥
तत्रेति । राजासनं राजार्हासनम् । अभ्यवर्त्तत अभितो वर्त्तिष्ट, प्रदक्षिणं कृतवानिति यावत् । राजवत् राजतुल्यं राममिवेत्यर्थः ॥ 2.91.37 ॥
आसनं पूजयामास रामायाभिप्रणम्य च ।
वालव्यजनमादाय न्यषीदत् सचिवासने ॥ 2.91.38 ॥
आसनमिति । आसनं पूजयामासेत्यत्र राजवदित्यनुकर्षः । रामाय आसनोपरि स्थितत्वेन भाविताय । वालव्यजनमादाय स्वशेषत्वानुगुणतयेति भावः । सचिवासने सचिवार्थं क्लृप्ते आसने, सिंहासनाधःप्रदेशस्थ इत्यर्थः ॥ 2.91.38 ॥
आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिताः ।
ततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः ॥ 2.91.39 ॥
आनुपूर्व्यादिति । सेनापतिः दण्डनायकः । प्रशास्ता शिबिरनियन्ता ॥ 2.91.39 ॥
ततस्तत्र मुहूर्त्तेन नद्यः पायसकर्दमाः ।
उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ 2.91.40 ॥
तत इति । मुहूर्त्तेन अल्पकालेन ॥ 2.91.40 ॥
तासामुभयतःकूलं पाण्डुमृत्तिकलेपनाः ।
रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजाः ॥ 2.91.41 ॥
तासामिति । उभयतःकूलम् उभयोः कूलयोरित्यर्थः । पाण्डुमृत्तिकलेपनाः सुधानुलिप्ता इत्यर्थः । “ङ्यापोः–” इति ह्रस्वः । ब्रह्मणः भरद्वाजस्य उपातिष्ठन्तेत्येतदनुषज्यते ॥ 2.91.41 ॥
तेनैव च मुहूर्त्तेन दिव्याभरणभूषिताः ।
आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः ॥ 2.91.42 ॥
तेनेति । आगुराजग्मुः । सहस्रमेव साहस्रम् । ब्रह्मणाचतुर्मुखेन । स्त्रियः अप्सरसः ॥ 2.91.42 ॥
सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः ।
आगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ॥ 2.91.43 ॥
सुवर्णेति । सुवर्णमणिमुक्तेन सुवर्णानि सुवर्णमयाभरणानि मणयो रत्नानि मुक्ताश्च सुवर्णमणिमुक्तं तेन । “जातिरप्राणिनाम्” इति एकवद्भावः ॥ 2.91.43 ॥
याभिर्गृहीतपुरुषः सोन्माद इव लक्ष्यते ।
आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ॥ 2.91.44 ॥
याभिरिति । गृहीत आलिङ्गितः याभिः यैरित्यर्थः । एतदर्थस्य पूर्वेण वान्वयः । कुबेरप्रहिताः गन्धर्वाप्सरसः । तथा हि श्रुतिः “गन्धार्वाप्सरसो वा एतमुन्मादयन्ति । य उन्माद्यति” इति । याभिर्गृहीताः पुरुषाः सोन्मादा इति होच्यते । इति च पाठः । तदा उच्यते श्रुत्येति शेषः । हेति प्रसिद्धौ ॥ 2.91.44 ॥
नारदस्तुम्बुरुर्गोपः प्रवराः सूर्य्यवर्चसः ।
एते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥ 2.91.45 ॥
नारद इति । नारदो ब्रह्मपुत्रादन्यः तुम्बुरुसाहचर्य्यात् । स हि पर्वतसहचरः । आह्वानसमये तुम्बुरुणेत्यस्योपलक्षणार्थत्वात् । गन्धर्वराजान इति टजभाव आर्षः ॥ 2.91.45 ॥
अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना ।
उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ॥ 2.91.46 ॥
अलम्बुसेति । भरतमुपानृत्यन् भरतमुद्दिश्याधिकमनृत्यन् । “उपो ऽधिके च” इति कर्म्मप्रवचनीयसंज्ञा । अत्र भरद्वाजस्य शासनादुपानृत्यन्नित्यनेन भरतस्य रामे वृत्तिविशेषमातिथ्यव्याजेन परीक्षितवानृषिरिति गम्यते ॥ 2.91.46 ॥
यानि माल्यानि देवेषु यानि चैत्ररथे वने ।
प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ 2.91.47 ॥
एवं भरतस्य रामशेषतयैवावस्थानम् न तु भोगलौल्येनेत्युक्त्वा सेनाभोगं प्रपञ्चयति–यानीत्यादिना । देवेषु देवोद्यानेषु, नन्दनादिष्वित्यर्थः । चैत्ररथस्य पूर्वं कुरुदेशस्थत्वेनोक्तेरिदं चैत्ररथं तद्बोध्यम् । प्रयागे प्रयागस्थितभरद्वाजाश्रमवनवृक्षेष्वित्यर्थः । तेजसा प्रभावेन ॥ 2.91.47 ॥
बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतकाः ।
अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ॥ 2.91.48 ॥
आहूतानां भरतशेषत्वेन विनियोगात् सैनिकानां नर्त्तकादीनि दर्शयति–बिल्वा इति । बिल्वाः बिल्ववृक्षाः । मार्दङ्गिकाः मृदङ्गवादकाः । “तदस्य शिल्पम्” इति ठक् । आसन् तद्रूपास्तत्कार्यकारिणो भवन्नित्यर्थः । विभीतकाः कलिवृक्षाः । शम्याग्राहास्तालग्राहका आसन् । “शम्या यज्ञायुधे ताले मशके च क्रियान्तरे” इति वैजयन्ती । भरते चोक्तं “वह्नितालशम्यातालक्रिया” इति ॥ 2.91.48 ॥
ततः सरलतालाश्च तिलका नक्तमालकाः ।
प्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाथ वामनाः ॥ 2.91.49 ॥
तत इति । सरलाः देवदारुविशेषाः । तालाः प्रसिद्धाः । तिलकाः क्षुरकनामका वृक्षाः । नक्तमालकाः करञ्जनाख्या वृक्षा । कुब्जाः स्थगुमन्तः । वामना ह्रस्वाः । सम्पेतुः सम्पन्नाः ॥ 2.91.49 ॥
शिंशुपामलकीजम्ब्वो याश्चान्याः काननेषु ताः ।
मालती मल्लिका जातिर्याश्चान्याः कानने लताः ॥ 2.91.50 ॥
प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् ।
सुराः सुरापाः पिबत पायसं च बुभुक्षिताः ।
मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ 2.91.51 ॥
अथ स्त्रीलिङ्गवृक्षाणां स्त्रीभावपरिग्रहमाह–शिंशिपेत्यादिसार्धश्लोकद्वयमेकान्वयम् । शिंशुपादयः प्रमदाविग्रहं कृत्वा यावदिच्छथ तावद्भक्ष्यन्तामित्यवदन्निति सम्बन्धः । सुरापाः हे सुरापानप्रवृत्ताः । इमाः सुराः पिबत । हे बुभुक्षिताः पायसपानेच्छवः । इदं पायसं भक्ष्यतामिति वचनविपरिणामेनानुषज्यते । सुमेध्यानि परिशुद्धानि ॥ 2.91.5051 ॥
उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु ।
अप्येकमेकं पुरुषं प्रमदाः सप्त चाष्ट च ॥ 2.91.52 ॥
संवाहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः ।
परिमृज्य तथान्योन्यं पाययन्ति वराङ्गनाः ॥ 2.91.53 ॥
उच्छाद्येति । उच्छाद्य उद्वर्त्तनं कृत्वा । “उद्वर्त्तनोच्छादने द्वे” इत्यमरः । तैलादिना शशीरमर्दनं कृत्वेत्यर्थः । वल्गुषु रम्येषु । एकमेकमिति “एकम्बहुव्रीहिवत्” इति बहुव्रीहिवद्भावाभाव आर्षः । संवाहन्त्यः संवाहयन्त्यः पादसंवाहनं कुर्वन्त्यः । परिमृज्य जलार्द्रमङ्गं वस्त्रादिना परिमृज्य अलङ्कृत्येति वार्थः । अन्योन्यं रहसि पाययन्ति, सुरा इति शेषः ॥ 2.91.5253 ॥
हयान् गजान् खरानुष्ट्रांस्तथैव सुरभेः सुतान् ।
अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥ 2.91.54 ॥
हयानिति । वाहनपाः ऋषिप्रभावसिद्धा वाहनपाः वाहनरक्षकाः तेषां हयादीनां यथाविधि यथायोग्यं भोज्यम् तत्तद्वाहनानुगुणं भोज्यमित्यर्थः । हयादीन् अभोजयन् । ण्यन्तत्वाद्द्विकर्मकत्वम् । सुरभेः सुतान् वृषभान् ॥ 2.91.54 ॥
इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् ।
इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥ 2.91.55 ॥
महाबलाः ऋषिप्रभावसिद्धवाहनपाः । इक्ष्वाकुवरयोधानां वाहनान् वाहनानि । इक्षून् मधुलाजान् मधुमिश्रलाजान् । “भक्ष्येण मिश्रीकरणम्” इति समासः । चोदयन्तः भक्षणार्थं प्रेरयन्तः सन्तः भोजयन्ति स्म ॥ 2.91.55 ॥
नाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रहः ।
मत्तप्रमत्तमुदिता नमूः सा तत्र सम्बभौ ॥ 2.91.56 ॥
अश्वं बघ्नातीत्यश्वबन्धः अश्वग्राहकः । नाजानात् न ज्ञातवान् । तत्र हेमतुमाह मत्तेति । मदकरद्रव्यसेवया मत्ताः प्रमत्ताः मधुपानादिना कार्य्याकार्य्यविवेकशून्याः । मुदिताः स्रक्चन्दनादिभोगातिशयेन हृष्टाः । तत्र तदा ॥ 2.91.56 ॥
तर्पिताः सर्वकामैस्ते रक्तचन्दनरूषिताः ।
अप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् ॥ 2.91.57 ॥
तर्पिता इति । अप्सरोगणाः वनलताभूताः न त्वाहूताः, तासां भरतवेश्मप्रवेशकथनात् । सैन्याः सेनायां समवेताः । उदैरयन् उक्तवन्तः ॥ 2.91.57 ॥
नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् ।
कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ 2.91.58 ॥
इति पादातयोधाश्च हस्त्यश्वारोह बन्धकाः ।
अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥ 2.91.59 ॥
उदीरणप्रकारमाह–नेत्यादिना । न गमिष्याम इत्यत्र विसर्गलोपश्छान्दसः । भरतस्य कुशलमस्तु भरतो यथातथावा तिष्ठत्वित्यर्थः । एव रामस्येत्यत्रापि । पादाभ्यामतन्तीति पादात्ताः । “अत सातत्यगमने” इति धातुः । ते च ते योधाश्च पादातयोधाः । चकाराद्रथिकसमुच्चयः । हस्त्यश्वानामारोहाः सादिनः हस्त्यादिबन्धकाः तद्भृत्याः तं विधिं सत्कारं लब्ध्वा अनाथाः स्वामिरहिताः, स्वतन्त्रा इति यावत् । नैवायोध्यामित्येतां वाचमुदैरयन्निति सम्बन्धः ॥ 2.91.5859 ॥
सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः ।
भरतस्यानुयातारः स्वर्गोयमिति चाब्रुवन् ॥ 2.91.60 ॥
नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः ।
समन्तात् परिधावन्ति माल्योपेताः सहस्रशः ॥ 2.91.61 ॥
सम्प्रहृष्टा इति । विनेदुः जगर्जुः ॥ 2.91.6061 ॥
ततो भुक्तवतां तेषां तदन्नममृतोपमम् ।
दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः ॥ 2.91.62 ॥
तत इति । तदन्नं पूर्वोक्तभक्ष्यादिचतुर्विधान्नम् । भक्षणे पुनर्भक्षणे । मतिरभवत्, भक्ष्यसौष्ठवादिति भावः ॥ 2.91.62 ॥
प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रशः ।
बभूवुस्ते भृशं दृप्ताः सर्वे चाहतवाससः ॥ 2.91.63 ॥
प्रेष्याः परिचारकाः । चेट्यः दास्यः । वध्वः योधाङ्गनाः । बले सेनायां तिष्ठन्तीति बलस्थाः । सर्वविशेषणमेतत् । अहतवाससः नूतनवस्त्राः । यद्वा आहतवाससः निर्णिक्तवाससः ॥ 2.91.63 ॥
कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिणः ।
बभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ 2.91.64 ॥
नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा ।
रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥ 2.91.65 ॥
कुञ्जरा इति । खरसहितोष्ट्राः खरोष्ट्राः । मृगपक्षिणः क्रीडार्थं सैनिकैरानीताः । सुभृताः सुतृप्ताः सुपुष्टा वा । तत्र सेनायाम् । अन्यः अन्यं नाकल्पयत् ऋषिकृतव्यतिरिक्तम् अन्नादिकं नाकरोदित्यर्थः ॥ 2.91.6465 ॥
आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः ।
फलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः ॥ 2.91.66 ॥
पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः ।
ददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः ॥ 2.91.67 ॥
आजैरित्यादिश्लोकद्वयमेकान्वयम् । आजैः अजमांसैः । वाराहैः वराहमांसैः । निष्ठानवरसञ्चयैः व्यञ्जनश्रेष्ठसमूहैः । “निष्ठानं व्यञ्जनं स्मृतम्” इति हलायुधः । फलनिर्यूहसंसिद्धैः सम्यङ्निष्पन्नफलयुक्तशर्करादिक्वाथरसैः । “द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके” इति वैजयन्ती । सूपैः मुद्गाढकीचणकादिसूपैः । गन्धरसान्वितैः पाकभेदोत्थगन्थरसयुक्तैः । पुष्पध्वजवतीः अलङ्कारार्थपरिकल्पितपुष्पशिल्पवतीः । शुक्लस्यान्नस्य पूर्णाः शुक्लेनान्नेन च पूर्णाः । लौही लोहमयपात्रीः । सर्वलोहेषु प्रधानत्वात् सुवर्णमत्र लोहशब्देनोच्यते ॥ 2.91.6667 ॥
बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः ।
ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुतः ॥ 2.91.68 ॥
बभूवुरिति । पायसान्येव कर्दमानि येषु ते तथोक्ताः ताः । गावः पूर्वमेव वनचर्य्यः कामदुघाः यावदभीष्टक्षीरपुरकाः आसन् । “दुहः कब्घश्च” मधुस्रुतः मधुस्राविणः । (मधुश्च्युतः मधुस्राविणः) ॥ 2.91.68 ॥
वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः ।
प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः ॥ 2.91.69 ॥
वाप्य इति । अत्रासन्नित्यनुषज्यते । प्रतप्तपिठरैः प्रतप्तपिठरसंस्कृतैः “संस्कृतं भक्षाः” इत्यण् । तस्य लुक् । पिठराः कुण्डानि । “उखा स्थाली चरुः कुम्भी पिठरः कुण्डमुच्यते” इति हलायुधः । मार्गमायूरकौक्कुटैः मृगमयूरकुक्कुटमांसैः ॥ 2.91.69 ॥
पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ।
न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ 2.91.70 ॥
स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः ।
यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ 2.91.71 ॥
ह्रदाः पूर्णा रसालस्य दघ्नः श्वेतस्य चापरे ।
बभूवुः पायसस्यान्ये शर्करायाश्च सञ्चयाः ॥ 2.91.72 ॥
पात्रीणामित्यारभ्य सञ्चया इत्यन्तमेकं वाक्यम् । पात्रीणाम् अन्नधानकुम्भीनाम् । स्थालीनां व्यञ्जनपात्राणाम् । नियुतानि लक्षाणि । न्यर्बुदानि दशकोट्यः । पात्राणि भोजनपात्राणि, अमत्राणीति यावत् । दधिपूर्णा इति स्थाल्यादित्रयविशेषणम् । स्थाल्यः पिठराः । कुम्भ्यः क्षुद्रकुम्भाः । करम्भ्यः विशालास्यगुरुस्थाल्यः । करम्भ्यः कर्कर्य इत्याहुः । सुसंस्कृताः दधिसंस्कारकशुण्ठ्यादियुक्ताः । यौवनस्थस्य नातिनूतनस्य नातिपुराणस्येत्यर्थः । मथनानन्तरं यामान्तरितस्येत्यर्थः । कपित्थस्य कपित्थपरिमलयुक्ततक्रस्येत्यर्थः । “तक्रं कपित्थं मथित्तम्” इति वैजयन्तीः । गौरस्य शुभ्रस्य । रसालस्य तक्रविशेषस्य । “अपक्वतक्रं सव्योषं चतुर्जातं गुडार्द्रकम् । सजीरकं रसालं स्यान्मज्जिका शिखरिण्यपि ॥” इति वैजयन्ती। सव्योषं शुण्ठीपिप्पलीमरिचियुक्तम्। चतुर्जातगुडार्द्रकं चतुर्जातैः एलालवङ्गकक्कोलनागपुष्पैः गुडेन शर्करया आर्द्रकेन च युक्तम्। कपित्थेन पूर्णाः अपरे ह्रदा बभूवुः। रसालेन पूर्णा अपरे ह्रदा बभूवुः। दध्ना पूर्णाश्चापरे ह्रदाः। अन्ये पायसेन पूर्णाः। पायसस्यान्य इति पाठः। सर्वत्र तृतीयार्थे षष्ठी। तद्व्यञ्जनार्थं शर्करायाः सञ्चयाः राशयश्च बभूवुरित्यर्थः। शर्करायावसञ्चया इति च पाठः। शर्करामिश्रयवविकारापूपसञ्चया इत्यर्थः ॥ 2.91.7072 ॥
कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च ।
ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥ 2.91.73 ॥
कल्कानिति । कल्कान् आमलक्यादिकल्कान् । चूर्णकषायान् चूर्णानि माषादिचूर्णानि कषायाः क्वथितानि । स्नान्त्येभिरिति स्नानानि । तैलोष्णोदकादीनि । भाजनस्थानि कटाहादिमहापात्रस्थानि । तीर्थेषु अवतारेषु ॥ 2.91.73 ॥
शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् ।
शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः ॥ 2.91.74 ॥
दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् ।
पादुकोपानहश्चैव युग्मानि च सहस्रशः ॥ 2.91.75 ॥
आञ्जनीः कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च ।
मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ 2.91.76 ॥
प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् ।
अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ॥ 2.91.77 ॥
आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् ।
नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ॥ 2.91.78 ॥
निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः ॥ 2.91.79 ॥
शुक्लानिति । शुक्लान् निर्मलान् । अंशुमतः कूर्चवतः । दन्तधावनसञ्चयान् दन्तकाष्ठसमूहान् । स्नानानन्तरमलङ्कारोपकरणानि दर्शयति–शुक्लानिति । चन्दनकल्कान् चन्दनपङ्कान् । समुद्गेषु सम्पुटकेषु । “समुद्गकः सम्पुटकः” इत्यमरः । अवतिष्ठतः वर्त्तमानान् । परिमृष्टान् निर्मलीकृतान् । पादुकाः दारुनिर्म्मिताः उपानहश्चर्म्मनिर्म्मिताः । युग्मानि द्वन्द्वानि । आञ्जनीः अञ्जनयुक्ताः करण्डिकाः । कङ्कतान् केशमार्जनान् । “कङ्कत केशमार्जनम् ।” इति निघण्टुः । कूर्चान् स्नानाद्युपयुक्तासनानि श्मश्रुप्रसाधकान् वा । शस्त्राणि योधैरलङ्कारार्थं धार्य्याणि । मर्मत्राणानि कवचादीनि । प्रतिपानह्रदान् ग्रासग्रहणानन्तरं भुक्तजीर्णार्थं पानार्हह्रदान् । अवगाह्यसुतीर्थान् अवगाहनयोग्यावतारप्रदेशयुक्तान् । सोत्पलपुष्करान् उत्पलमिन्दीवरम्, पुष्करं पद्मम् । आकाशवर्णप्रतिमान् आकाशवन्निर्म्मलानित्यर्थः । सुखप्लवान् सुखेन प्लवः स्नानं येषु तथोक्तान् । यवससञ्चयान् तृणसमूहान् । “यवसंतृणमर्ज्जुनम्” इत्यमरः । पशूनां निर्वापार्थान् पशुभ्यो विश्राणनार्थान् ॥ 2.91.7479 ॥
व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।
दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥ 2.91.80 ॥
इत्येवं रममाणानां देवानामिव नन्दने ।
भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ॥ 2.91.81 ॥
व्यस्मयन्तेति । स्वप्नकल्पत्वोक्तिरयत्नसिद्धत्वात् अपूर्वत्वात् आश्चर्य्यकरत्वाच्च तादृक् वाचामभूमिम् । भरतस्य भरताय ॥ 2.91.8081 ॥
प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् ।
भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥ 2.91.82 ॥
प्रतिजग्मुरिति । अनुज्ञाप्य अनुज्ञां कारयित्वा ॥ 2.92.82 ॥
तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिताः ।
तथैव दिव्या विविधाः स्रगुत्तमाः पृथक् प्रकीर्णा मनुजैः प्रमर्दिताः ॥ 2.91.83 ॥
इदं चातिथ्यकरणमैन्द्रजालिकवन्न मिथ्येत्याह–तथैवेति । मत्ताः दृप्ताः भोगैस्तृप्ताः मदिरोत्कटाश्च मद्येन मत्ताश्च । “मत्ते शौण्डोत्कटक्षीबाः” इत्यमरः । तथैव अनुभवकाल इवावर्त्तिषतेत्यर्थः । प्रमर्दिताः प्रकीर्णाश्च भोगवशादिति भावः । पृथक् पूर्वस्रग्भ्यो विलक्षणाः ॥ 2.91.83 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकनवतितमः सर्गः ॥ 91 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकनवतितमः सर्गः ॥ 91 ॥