श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टाशीतितमः सर्गः
तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः ।
इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् ॥ 2.88.1 ॥
अब्रवीज्जननीः सर्वा इह तेन महात्मना ।
शर्वरी शयिता भूमाविदमस्य विमर्दितम् ॥ 2.88.2 ॥
तदित्यादिश्लोकद्वयमेकं वाक्यम् । निपुणं सावधानमित्यर्थः । तेन रामेण । इह भूमौ । शर्वरीशयिता शर्वर्य्यां शयनं कृतम् । निष्ठाया अधिकरणत्वस्याभिहितत्वाच्छर्वरीशब्दात् प्रथमा, इदमेषामासितमितिवत् । इदमस्य विमर्दितमित्यत्राप्यधिकरणे निष्ठा । “क्तस्य च वर्त्तमाने” इति कर्त्तति षष्ठी । अस्मिन्नेतत्कर्तृकं विमर्दनमित्यर्थः ॥ 2.88.12 ॥
महाभागकुलीनेन महाभागेन धीमता ।
जातो दशरथे नोर्व्यां न रामः स्वप्तुमर्हति ॥ 2.88.3 ॥
महाभागेति । महाभागेन महानुभावेन । दशरथेनेति पञ्चम्यर्थे तृतीया ॥ 2.88.3 ॥
अजिनोत्तरसंस्तीर्णे वरास्तरणसञ्चये ।
शयित्वा पुरुषव्याघ्रः कथं शेते महीतले ॥ 2.88.4 ॥
अजिनेति । अजिनोत्तरसंस्तीर्णे अजिनरूपोत्तरच्छदेन संस्तीर्णे । अजिनशब्देन “कदलीकन्दलीचीनश्चमूरुप्रियकावपि । समूरुश्चेति हरिणा अमी अजिनयोनयः ॥” इत्युक्तकदल्याद्यजिनं विवक्षितम्। वरास्तरणसञ्चये वराणि अमूल्यानि आस्तरणानि येषु पर्य्यङ्केषु तेषां सञ्चये समूहे। पर्य्यङ्कानां बहुत्वं शीतोष्णादिकालोचितान्तर्गृहशिरोगृहादिबाहुल्यात्। यद्वा मार्द्दवातिशयायानेकास्तरणत्वम्। अतिमृदुत्वादजिनस्योपर्यास्तरणत्वम् ॥ 2.88.4 ॥
प्रासादाग्रविमानेषु वलभीषु च सर्वदा ।
हैमराजतभौमेषु वरास्तरणशालिषु ॥ 2.88.5 ॥
प्रासादेति । प्रासादाग्रविमानेषु विमानतुल्यप्रासादशिखरेषु । वलभीषु कूटागारेषु “कूटागारे तु वलभी” इति वैजयन्ती । हैमराजतभौमेषु हैमानि राजतानि भौमानि भूतलानि येषु तेषु । वरास्तरणशालिषु चित्रकम्बलादिशालिषु ॥ 2.88.5 ॥
पुष्पसञ्चयचित्रेषु चन्दनागरुगन्धिषु ।
पाण्डराभ्रप्रकाशेषु शुकसङ्घरुतेषु च ॥ 2.88.6 ॥
पुष्पसञ्चयचित्रेषु चित्रपुष्पसमूहेषु । चन्दनागरुगन्धिषु चन्दनागरुधूपगन्धिषु । पाण्डराभ्रप्रकाशेषु तद्वद्धवलेषु । शुकसङ्घरुतेषु शुकसमूहनादवत्सु । अर्शआदित्वादच्मत्वर्थीयः ॥ 2.88.6 ॥
प्रासादवरवर्य्येषु शीतवत्सु सुगन्धिषु ।
उषित्वा मेरुकल्पेषु कृतकाञ्चनभित्तिषु ॥ 2.88.7 ॥
प्रासादवरवर्येषु प्रासादवराणामुत्तमेषु । शीतवत्सु शैत्यवस्तु । “शीतं गुणे तद्वत्” इत्यमरः । सुगन्धिषु घनसारादिभिरिति शेषः । उषित्वा शयित्वेत्यर्थः । उपरि प्रतिबोधोक्तेः । मेरुतुल्यत्वे हेतुः कृतकाञ्चनभित्तिष्विति ॥ 2.88.7 ॥
गीतवादित्रनिर्घोषैर्वराभरणनिस्वनैः ।
मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः ॥ 2.88.8 ॥
वन्दिभिर्वन्दितः काले बहुभिः सूतमागधैः ।
गाथाभिरनुरूपाभिस्तुतिभिश्च परन्तपः ॥ 2.88.9 ॥
गीतवादित्रनिर्घोषैः गीतैस्तदनुगुणवीणादिरावैः । वराभरणनिस्वनैः परिचारिका पाणिचरणनूपुरकङ्कणाद्याभरणशिञ्जितैः । मृदङ्गवरशब्दैः मर्दलविशेषध्वनिभिश्च सततं प्रतिबोधितः । अथ प्रबोधनानन्तरम् । काले प्रातःकाले । वन्दिभिः कर्तृभिः सूतमागधैश्च । गाथाभिः गद्यविशेषैः (पद्यविशेषैः) । स्तुतिभिः स्तोत्रप्रबन्धैश्च वन्दितः स्तुतः । “वदि अभिवादनस्तुत्योः” इति धातुः । परन्तपः अन्यराजशिक्षणपरो रामः (अथ राज्यशिक्षणपरो रामः) कथं भूमौ केवलायां शेते कथं श्वापदरवैः प्रतिबोध्यते कथमेकाकी तिष्ठतीति चोपस्कार्यम् । गम्यमानत्वादप्रयोगः । “यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः ॥” इत्यादिवत् ॥ 2.88.89 ॥
अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा ।
मुह्यते खलु मे भावः स्वप्नो ऽयमिति मे मतिः ॥ 2.88.10 ॥
अश्रद्धेयमिति । इदं रामस्य तृणशय्याशयनादिकम् अश्रद्धेयम् । लोके पश्यामि “लोकृ दर्शने” इति धातुः । तत्र हेतुमाह न सत्यमिति । किञ्च मे भावः हृदयं मुह्यते खलु मुह्यति किमु । रामस्य भूमिशयनश्रवणादिकं भ्रमो वेत्यर्थः । अथवा अयं पूर्वोक्तश्रवणम् । स्वप्नापेक्षया पुल्लिङ्गत्वम् । स्वप्न इति मे मतिः मतम्, सिद्धान्त इत्यर्थः ।
कथमन्यथा सर्वमिदमसम्भाव्यं सम्भाव्यत इति भावः ॥ 2.88.10 ॥
न नूनं दैवतं किञ्चित् कालेन बलवत्तरम् ।
यत्र दाशरथी रामो भूमावेव शयीत सः ॥ 2.88.11 ॥
नेति । कालेन कालात् । दैवतं बलवत्तरं न नूनं काल एव बलीयानित्यर्थः । यत्र यस्मात् दाशरथिः दशरथपुत्रोपि भूमावेव शयीत तस्मादित्यर्थः ॥ 2.88.11 ॥
विदेहराजस्य सुता सीता च प्रियदर्शना ।
दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥ 2.88.12 ॥
विदेहराजस्येति । प्रियदर्शना अतदर्हेत्यर्थः । दयिता रामस्य प्राणेभ्योपि प्रेयसी शयिता शयितवती । कर्तरि क्तः । हन्तेति शेषः ॥ 2.88.12 ॥
इयं शय्या मम भ्रातुरिदं हि परिवर्त्तितम् ।
स्थण्डिले कठिने सर्वं गात्रैर्विमृदितं तृणम् ॥ 2.88.13 ॥
इयमिति । परिवर्त्तितं परिवर्त्तनं स्वापकाले श्रमातिशयादितस्ततः शरीरपरिवर्त्तनपरम् । परिवर्तनज्ञापकमाह स्थण्डिल इति । स्थण्डिले भूतले कठिनस्थलत्वात् गात्रैः विमृदितं क्षुण्णं तृणम् इदमित्यनुषङ्गः ॥ 2.88.13 ॥
मन्ये साभरणा सुप्ता सीतास्मिन् शयनोत्तमे ।
तत्रतत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः ॥ 2.88.14 ॥
मन्य इति । साभरणा सुप्ता मार्गश्रमादाभरणमनुन्मुच्य सुप्तवती । शयनोत्तमे भर्तृशय्यात्वादितरतल्पेभ्यः श्रेष्ठतमे । साभरणा सुप्तेत्यत्र सूचकमाह तत्रतत्रेति । तत्रतत्र तृणेषु सक्ताः कनकबिन्दवः जाम्बूनदाभरणनिर्गलिताः सूक्ष्मरेणवः ॥ 2.88.14 ॥
उत्तरीयमिहासक्तं सुव्यक्तं सीतया तदा ।
तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः ॥ 2.88.15 ॥
उत्तरीयमिति । इह कुशाग्रेषु आसक्तम् इदमासञ्जनं सुव्यक्तं सीतया सीतायाः ॥ 2.88.15 ॥
मन्ये भर्त्तुः सुखा शय्या येन बाला तपस्विनी ।
सुकुमारी सती दुःखं न विजानाति मैथिली ॥ 2.88.16 ॥
मन्य इति । या कापि भर्तुः शय्या पतिव्रतायाः सुखेति मन्ये । यतः सुकुमारी मैथिली सती पतिव्रता अस्मिन्नपि शयने शयिता दुःखं न जानाति ॥ 2.88.16 ॥
हा हन्तास्मि नृशंसो ऽहं यत् सभार्यः कृते मम ।
ईदृशीं राघवः शय्यामधिशेते ह्यनाथवत् ॥ 2.88.17 ॥
हाहन्तेति । हाहन्तेत्येकनिपातः खेदार्थः । अहं नृशंसोस्मि निर्दयोस्मि । मम कृते मन्निमित्तम् । कृते इत्यव्ययम् ॥ 2.88.17 ॥
सार्वभौमकुले जातः सर्वलोकस्य सम्मतः ।
सर्वलोकप्रियस्त्यक्त्वा राज्यं सुखमनुत्तमम् ॥ 2.88.18 ॥
कथमिन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः ।
सुखभागी न दुःखार्हः शयितो भुवि राघवः ॥ 2.88.19 ॥
जन्मना शक्तिमत्तया प्रजारञ्जकत्वेन शरीरलक्षणेन च राज्यार्हो रामः कथमेतादृशीं दुर्दशां प्राप्त इति खिद्यति–सार्वभौमकुले जात इत्यादिना श्लोकद्वयेन ॥ 2.88.1819 ॥
धन्यः खलु महाभागो लक्ष्मणः शुभलक्षणः ।
भ्रातरं विषमे काले यो राममनुवर्त्तते ॥ 2.88.20 ॥
धन्य इति । विषमे काले सङ्कटे काले ॥ 2.88.20 ॥
सिद्धार्था खलु वैदेही पतिं यानुगता वनम् ।
वयं संशयिताः सर्वे हीनास्तेन महात्मना ॥ 2.88.21 ॥
सिद्धार्थेति । पतिमनु पतिमनुसृत्य वनं गतेति सम्बन्धः । संशयिताः अस्मत्सेवां रामो ऽङ्गीकरिष्यति नवेति संशयिताः ॥ 2.88.21 ॥
अकर्णधारा पृथिवी शून्येव प्रतिभाति मा ।
गते दशरथे स्वर्गं रामे चारण्यमाश्रिते ॥ 2.88.22 ॥
अकर्णधारेति । अकर्णधारा प्रधानपुरुषरहितेति यावत् । अत एव शून्येव प्रतिभाति ॥ 2.88.22 ॥
न च प्रार्थयते कश्चिन्मनसापि वसुन्धराम् ।
वने ऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम् ॥ 2.88.23 ॥
अनायकत्वे कथं राज्यं निरुपद्रवम् ? तत्राह–न चेति । कश्चित् सामन्तः न प्रार्थयते आक्रमितुं नेच्छति ॥ 2.88.23 ॥
शून्यसंवरणारक्षामयन्त्रितहयद्विपाम् ।
अपावृतपुरद्वारां राजधानीमरक्षिताम् ॥ 2.88.24 ॥
अप्रहृष्टबलां न्यूनां विषमस्थामनावृताम् ।
शत्रवो नाभिमन्यन्ते भक्षान् विषकृतानिव ॥ 2.88.25 ॥
रामवीर्यं विना रक्षकान्तरशून्यत्वमाह शून्यसंवरणेत्यादि । शून्यसंवरणारक्षाम् अविद्यमानप्राकाररक्षकाम् । यद्वा शून्यसंवरणः गुप्तिरहितः आरक्षः गुल्मस्थानं यस्याः सा तथा । अयन्त्रिताः रक्षकाणां रामपारवश्येन तैरबद्धाः हयद्विपाः यस्यास्ताम् । अपावृतानि अपिहितानि पुरद्वाराणि यस्यास्ताम् । अप्रहृष्टबलत्वमरक्षितत्वे हेतुः । न्यूनां साधनविहीनाम् । विषमस्थां दुर्दंशापन्नाम् । अनावृतां बाह्यरक्षकरहिताम् । नाभिमन्यन्ते अभिभवितुं न स्मरन्ति । भक्षान् अपूपादीन् । विषैः विषमिश्रैः कृतान् ॥ 2.88.2425 ॥
अद्यप्रभृति भूमौ तु शयिष्ये ऽहं तृणेषु वा ।
फलमूलाशनो नित्यं जटाचीराणि धारयन् ॥ 2.88.26 ॥
तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने ।
तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति ॥ 2.88.27 ॥
वसन्तं भ्रातुरर्थाय शत्रुध्नो मा ऽनुवत्स्यति ।
लक्ष्मणेन सह त्वार्यो ह्ययोध्यां पालयिष्यति ॥ 2.88.28 ॥
उक्तसर्वानर्थस्य आत्ममूलकतया तत्प्रायश्चित्तमाह–अद्येत्यादिश्लोकद्वयमेकान्वयम् । तं प्रतिश्रवं तां प्रतिज्ञाम् । आमुच्य स्वस्मिन्नासज्य । तस्यार्थं रामार्थमित्यर्थः । उत्तरं कालं चतुर्दशवर्षात्मके काले रामानुष्ठितव्यतिरिक्तोत्तरकालं वने वत्स्यामि । मिथ्या न भविष्यति, प्रतिज्ञेति शेषः ॥ 2.88.2628 ॥
अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः ।
अपि मे देवताः कुर्युरिमं सत्यं मनोरथम् ॥ 2.88.29 ॥
अभिषेक्ष्यन्तीति । देवताः इमं मनोरथं सत्यं कुर्युरपि । सम्भावनायामपिशब्दः ॥ 2.88.29 ॥
प्रसाद्यमानः शिरसा मया स्वयं बहुप्रकारं यदि नाभिपत्स्यते ।
ततो ऽनुवत्स्यामि चिराय राघवं वने वसन्नार्हति मामुपेक्षितुम् ॥ 2.88.30 ॥
प्रसाद्यमान इति । शिरसा प्रणामपूर्वकं स्वयं न तु मन्त्रिमुखेन । नाभिपत्स्यते नाङ्गीकरिष्यति, प्रसादमिति शेषः । ततस्तदा वने वसन् राघवमनुवत्स्यामि तदनुचरो भवामि । अनुचरणं वा कथमङ्गीकरिष्यतीत्यत्राह नार्हति मामुपेक्षितुमिति । मां भ्रातरं शिष्यं दासमित्यर्थः ॥ 2.88.30 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥ 88 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टाशीतितमः सर्गः ॥ 88 ॥