श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडशीतितमः सर्गः
आचचक्षे ऽथ सद्भावं लक्ष्मणस्य महात्मनः ।
भरतायाप्रमेयाय गुहो गहनगोचरः ॥ 2.86.1 ॥
आचचक्ष इत्यादि । अथ आश्वासनानन्तरम् । सद्भावं ज्येष्ठानुवर्तनरूपं समीचीनस्वभावम् । आचचक्ष इत्यादि भगवद्विषयोपदेशे नूतनपुरातनविभागो नास्ति । देशिका वक्तारः सादराः श्रोतार इत्याह । आङीषदर्थे । स्ववागिन्द्रियविषयमेवावदत् नतु कार्त्स्न्येन । अथ भरतस्वभावज्ञानानन्तरम् । सद्भावं ‘बाल्यात्प्रभृति सुस्निग्धः’ इति सत्ताव्याप्तं स्वभावम् । लक्ष्मणस्य महात्मनः । पयोधिं पाणिना परिच्छेत्तुमुद्युक्तः भरतायाप्रमेयाय एतादृशस्योपदेष्टेति नास्ति, गुहो गहनगोचरः वन्यवृक्षादितारतम्यमात्रज्ञः एतादृशस्वभावमविज्ञातवान् । यद्वा रामविरहेण कुत्रचित् कुञ्जे स्थितः तद्देशीयागमने समुत्थाय निर्गतः ॥ 2.86.1 ॥
तं जाग्रतं गुणैर्युक्तं शरचापासिधारिणम् ।
भ्रातृगुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रुवम् ॥ 2.86.2 ॥
इयं तात सुखा शय्यात्वदर्थमुपकल्पिता ।
प्रत्याश्वसि हि शेष्वास्यां सुखं राघवनन्दन ॥ 2.86.3 ॥
भरतस्य रामविषयस्नेहमभिवर्द्धयितुं लक्ष्मणस्य ज्येष्ठानुवर्तनरूपं पूर्ववृत्तान्तमाह–तं जाग्रतमित्यादिना । भ्रातृगुप्त्यर्थम् अत्यन्तं जाग्रतं शरचापासिधारिणम् एकहस्ते शरयुक्तचापम् अपरहस्ते असिं च दधानमित्यर्थः । गुणैर्भ्रातृभक्यादिगुणैर्युक्तम् ॥ 2.86.23 ॥
उचितो ऽयं जनः सर्वो दुःखानां त्वं सुखोचितः ।
धर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम् ॥ 2.86.4 ॥
उचित इति । तस्य रामस्य ॥ 2.86.4 ॥
नहि रामात् प्रियतरो ममास्ति भुवि कश्चन ।
मोत्सुकोभूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः ॥ 2.86.5 ॥
नहीति । मोत्सुकोभूः अस्यां रात्रौ रामरक्षणौत्सुक्यं मा कृथा इत्यर्थः । एतद्रक्षणं प्रति तवाग्रतः असत्यं ब्रवीम्यपि ब्रवीमि किम् ? न ब्रवीम्येवेत्यर्थः ॥ 2.86.5 ॥
अस्य प्रसादादाशंसे लोके ऽस्मिन् सुमहद्यशः ।
धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम् ॥ 2.86.6 ॥
स्वस्यैहिकमामुष्मिकं च फलं रामायत्तमित्याह–अस्येत्यादिना । धर्मावाप्तिम् आमुष्मिकफलसाधनसिद्धिम् केवलां न्यायप्राप्तामिति यावत् ॥ 2.86.6 ॥
सो ऽहं प्रियसखं रामं शयानं सह सीतया ।
रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर्ज्ञातिभिः सह ॥ 2.86.7 ॥
नहि मे ऽविदितं किञ्चिद्वने ऽस्मिंश्चरतः सदा ।
चतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि ॥ 2.86.8 ॥
एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना ।
अनुनीता वयं सर्वे धर्ममेवानुपश्यता ॥ 2.86.9 ॥
कथं दाशरथौ भूमौ शयाने सह सीतया ।
शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥ 2.86.10 ॥
यो न देवासूरैः सर्वैः शक्यः प्रसहितुं युधि ।
तं पश्य गुह संविष्टं तृणेषु सह सीतया ॥ 2.86.11 ॥
नेति । मेविदितमित्यत्र अविदितमिति पदच्छेदः ॥ 2.86.811 ॥
महता तपसा लब्धो विविधैश्च परिश्रमैः ।
एको दशरथस्यैष पुत्रः सदृशलक्षणः ॥ 2.86.12 ॥
महतेति । तपसा अनशनेन । परिश्रमैः यज्ञादिभिरित्यर्थः । एकः मुख्यः “एके मुख्यान्यकेवलाः” इत्यमरः ॥ 2.86.12 ॥
अस्मिन् प्रव्राजिते राजा न चिरं वर्त्तयिष्यति ।
विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ 2.86.13 ॥
प्रव्राजनकालिकदशरथदशां स्मरन्नाह–अस्मिन्निति । वर्त्तयिष्यति जीविष्यति ॥ 2.86.13 ॥
विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः ।
निर्घोषोपरतं नूनमद्य राजनिवेशनम् ॥ 2.86.14 ॥
विनद्येति । सुमहानादं विनद्य, कृत्वेत्यर्थः । अद्य स्त्रियः उपरता इति मन्ये इत्युपस्कार्यम् । निवेशनं निवेशनं च ॥ 2.86.14 ॥
कौसल्या चैव राजा च तथैव जननी मम ।
नाशंसे यदि जीवेयुः सर्वे ते शर्वरीमिमाम् ॥ 2.86.15 ॥
कौसल्येति । सर्वे ते जीवेयुरिति नाशंसे यदि जीवेयुरिमां शर्वरीमेवेति सम्बन्धः ॥ 2.86.15 ॥
जीवेदपि च मे माता शत्रुघ्नस्यान्ववेक्षया ।
दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति ॥ 2.86.16 ॥
जीवेदिति । शत्रुघ्नस्यान्ववेक्षया शत्रुघ्नसम्बन्ध्यवेक्षणेच्छया । वीरसूः कौसल्या दुःखितेति यत् अतो विनशिष्यति । दुःखिता या त्विति पाठः समीचीनः । तत्पक्षे या दुःखिता वीरसूः कौसल्या सा तु विनशिष्यत्येवेत्यर्थः ॥ 2.86.16 ॥
अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् ।
राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ 2.86.17 ॥
अतिक्रान्तमिति । अतिक्रान्तमतिक्रान्तं सर्वं प्रयोजनमतीत्येत्यर्थः ॥ 2.86.17 ॥
सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्युपस्थिते ।
प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥ 2.86.18 ॥
सिद्धार्था इति । वृत्तम् अतीतम्, मृतमिति यावत् ॥ 2.86.18 ॥
रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् ।
हर्म्यप्रासादसम्पन्नां सर्वरत्नविभूषिताम् ॥ 2.86.19 ॥
गजाश्वरथसम्बाधां तूर्यनादविनादिताम् ।
सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम् ॥ 2.86.20 ॥
आरामोद्यानसम्पूर्णां समाजोत्सवशालिनीम् ।
सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ 2.86.21 ॥
रम्येत्यादि । हर्म्यप्रासादसम्पन्नां हर्म्याणि धनिनां गृहाणि, प्रासादा देवानां राज्ञां च गृहाणि तैः सम्पन्नां समृद्धाम् । सर्वरत्नविभूषितां सर्वैः श्रेष्ठवस्तुभिरलङ्कृताम् । तूर्यनादविनादितां तूर्यस्य नृत्यगीतादिकस्य नादेन विनादिताम्, हर्म्यादिषु कृतप्रतिध्वनिमित्यर्थः । सर्वकल्याणैः सर्वमङ्गलैः सम्पूर्णां सर्वोत्सवैः सम्पूर्णां वा । आरामोद्यानसम्पूर्णाम् आरामाः उपवनानि उद्यानानि राज्ञामसाधारणवनानि तैः समृद्धाम् । समाजोत्सवशालिनीम् उत्सवसमूहशालिनीम् ॥ 2.86.1921 ॥
अपि सत्यप्रतिज्ञेन सार्द्धं कुशलिना वयम् ।
निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि ॥ 2.86.22 ॥
अपीति । सत्यप्रतिज्ञेन तीर्णवनवासप्रतिज्ञेन रामेण । प्रविशेमहि, पुरीमिति शेषः ॥ 2.86.22 ॥
परिदेवयमानस्य तस्यैवं सुमहात्मनः ।
तिष्ठतो राजपुत्रस्य शर्वरी सा ऽत्यवर्त्तत ॥ 2.86.23 ॥
प्रभाते विमले सूर्ये कारयित्वा जटावुभौ ।
अस्मिन् भागीरथीतीरे सुखं सन्तारितौ मया ॥ 2.86.24 ॥
परिदेवयमानस्येति । तिष्ठतो राजपुत्रस्य राजपुत्रसम्बन्धिनी शर्वरी । अत्यवर्त्तत निरन्तरपरिदेवनेन रात्रिं यापितवानित्यर्थः ॥ 2.86.2324 ॥
जटाधरौ तौ द्रुमचीरवाससौ महाबलौ कुञ्जरयूथपोपमौ ।
वरेषुचापासिधरौ परन्तपौ व्यवेक्षमाणौ सह सीतया गतौ ॥ 2.86.25 ॥
जटाधराविति । व्यवेक्षमाणौ सर्वतो दत्तावधानौ ॥ 2.86.25 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडशीतितमः सर्गः ॥ 86 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षडशीतितमः सर्गः ॥ 86 ॥