श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्यशीतितमः सर्गः
ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम् ।
प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया ॥ 2.83.1 ॥
अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः ।
अधिरुह्य हयैर्युक्तान् रथान् सूर्यरथोपमान् ॥ 2.83.2 ॥
तत इति । काल्यम् अहर्मुखम् । “प्रत्यूषो ऽहर्मुखं काल्यम्” इत्यमरः । प्राप्येति शेषः ॥ 2.83.12 ॥
नवनागसहस्राणि कल्पितानि यथाविधि ।
अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम् ॥ 2.83.3 ॥
यथाविधि कल्पितानि भरतनियोगमनतिक्रम्य कल्पितानि । नवनागसहस्राणीत्यनेन पुरस्थगजेषु नवनागसहस्रमात्रं प्रयाणे कल्पितमित्यवगम्यते ॥ 2.83.3 ॥
षष्टीरथसहस्राणि धन्विनो विविधायुधाः ।
अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ 2.83.4 ॥
धन्विनो विविधायुधाश्चेत्यनेन योधा उक्ताः ॥ 2.83.4 ॥
शतं सहस्राण्यश्वानां समारूढानि राघवम् ।
अन्वयुर्भरतं यान्तं सत्यसन्धं जितेन्द्रियम् ॥ 2.83.5 ॥
समारूढानि सादिभिरिति शेषः ॥ 2.83.5 ॥
कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ।
रामानयनसंहृष्टा ययुर्यानेन भास्वता ॥ 2.83.6 ॥
कैकेयीति । अग्रतो गमनं पश्चात्तापातिशयात् । यानेनेत्येकवचनं प्रत्येकापेक्षया ॥ 2.83.6 ॥
प्रयाताश्चार्यसङ्घाता रामं द्रष्टुं सलक्ष्मणम् ।
तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः ॥ 2.83.7 ॥
आर्यसङ्घाताः त्रैवर्णिकसङ्घाः । तस्यैव कथाः तत्सम्बन्धिवार्त्ताः ॥ 2.83.7 ॥
मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् ।
कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् ॥ 2.83.8 ॥
ता एवाह–मेघेत्यादिना । मेघश्यामं दूरस्थितत्वेपि त्यक्तुमशक्यं सौन्दर्य्यमुच्यते । धर्माभितप्ताः पर्जन्यमितिवत् । मेघश्यामं दर्शनमात्रेण सर्वसन्तापहरम् । महाबाहुम् ‘आयताश्च सुवृत्ताश्च’ इति ह्युक्तम् । महाबाहुं तादृशसौन्दर्य्यानुभवदानविषयौदार्ययुक्तम् । महाबाहुं तादृशसौन्दर्यभोगप्रदानसमर्थं “राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम्” इतिवत् । स्थिरसत्त्वं स्थिरव्यवसायम् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु” इत्यमरः । स्थिरचित्तमिति च पाठः । आश्रितप्रातिकूल्येनाप्यविकृतमनस्कम् । दृढव्रतम् अन्तरङ्गैरप्यप्रकम्प्याश्रितरक्षणदीक्षम् । कदा द्रक्ष्यामहे रामं तन्मुखावलोकनमात्रं लभ्यते चेत् कैकेयीवचनजनिततापाः सर्वेपि निवर्त्तेरन् । जगतः शोकनाशनम् तस्मिन् सर्वलोकशोकनिवर्त्तके सति कथं वयं शोकाकुलाः स्याम । तदीय सर्वलोकशोकनिवर्तकत्वस्य अस्मच्छोकस्य च कः सम्बन्धः । मा शुच इत्युक्तवतोप्यस्यातिशय उक्तः ॥ 2.83.8 ॥
दृष्ट एव हि नः शोकमपनेष्यति राघवः ।
तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः ॥ 2.83.9 ॥
दृष्ट इति । दृष्ट एव रामः सन्निहितश्चेत्स मन्दस्मितो माभूत् कटाक्षपूर्वकं किञ्चित् प्रियवचनं च मावोचत् । अस्माभिश्च न यत्नः कार्यः किन्तु दूरे दर्शनमात्रेणास्मच्छोकाः सर्वे विनश्येयुः । तम इत्यादि । यथोद्यन् आदित्यो दूरस्थितोपि सकललोकान्धकारं निवर्त्तयति ॥ 2.83.9 ॥
इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथाः शुभाः ।
परिष्वजानाश्चान्योन्यं ययुर्नागरिका जनाः ॥ 2.83.10 ॥
इतीति । परिष्वजानाः परिष्वजमानाः । नगरे चरन्तीति नागरिकाः । “चरति” इति ठक् ॥ 2.83.10 ॥
ये च तत्रापरे सर्वे सम्मता ये च नैगमाः ।
रामं प्रति ययुर्हृष्टाः सर्वाः प्रकृतयस्तथा ॥ 2.83.11 ॥
य इति । तत्र नगरे ये रामस्य सम्मताः ये च नैगमाः वणिजः ते सर्वे सर्वाः प्रकृतयः पौरश्रेणयश्च रामं प्रति ययुः ॥ 2.83.11 ॥
मणिकाराश्च ये केचित् कुम्भकाराश्च शोभनाः ।
सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः ॥ 2.83.12 ॥
मायूरकाः क्राकचिका रोचका वेधकास्तथा ।
दन्तकाराः सुधाकारास्तथा गन्धोपजीविनः ॥ 2.83.13 ॥
सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः ।
स्नापकोच्छादका वैद्या धूपकाः शौण्डिकास्तथा ॥ 2.83.14 ॥
ताः प्रपञ्चयति–मणीत्यादिना । अत्र यच्छब्दरहितस्थले सो ऽनुषञ्जनीयः । मणिकाराः पद्मरागादिमणिसंस्कारकाः । कुम्भकाराः कुलालाः । शोभनाः स्वकार्यदक्षा इति यावत् । सूत्रकर्मकृतः तन्तुवायादयः । शस्त्रोपजीविनः शस्त्रकारकाः । मायूरकाः मयूरपिच्छैश्छत्र्रव्यजनादिकारिणः । क्राकचिकाः क्रकचैः करपत्रैश्चन्दनादिदारुदलनकारिणः “क्रकचो़ ऽस्त्री करपत्रम्” इत्यमरः । रोचकाः दन्तकुड्यवेदिकादिषु कान्त्युत्पादकाः । वेधकाः दारुरत्नादिरन्ध्रकारिणः । दन्तकाराः दन्तैः पुत्रिकापीठशिबिकादिकारकाः । सुधाकाराः प्रासादतलकुड्यादिषु सुधालेपनकर्मकराः । गन्धोपजीविनः चन्दनकस्तूरीकर्पूरकुङ्कुमादिगन्धद्रव्यविक्रयजीविनः । सुवर्णकाराः प्रसिद्धाः । कम्बलधावकाः कम्बलशोधकाः । स्नापकोच्छादकाः स्नापकाः तैलाभ्यङ्गादिस्नानकारिणः । उच्छादकाः अङ्गमर्दकाः “उच्छादनं समुल्लेखोद्वाहनोद्वर्तनेषु च” इति विश्वः । धूपकाः गृहादिषु धूपवासकाः । शौण्डिकाः मद्यकराः । “शुण्डाकरिकरे मद्ये” इति वैजयन्ती ॥ 2.83.1214 ॥
रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः ।
शैलूषाश्च सह स्त्रीभिर्ययुः कैवर्त्तकास्तथा ॥ 2.83.15 ॥
रजकाः निर्णेजकाः “निर्णेजकः स्याद्रजकः” इत्यमरः । तुन्नवायस्तु सौचिकः” इत्यमरः । ग्रामघोषमहत्तराः घोषमहत्तराश्च, महत्तराः प्रधानभूताः । “घोष आभीरपल्ली स्यात्” इत्यमरः । शैलूषाः भूमिकाधारिणः, स्त्रीजिवनिनो वा । अत एव सह स्त्रीभिरित्ययुक्तम् । “शैलालिनस्तु शैलूषा जायाजीवाः” इत्यमरः । कैवर्ताः धीवराः । “कैवर्ते दाशधीवरौ” इत्यमरः । ते सर्वे ययुरित्यन्वयः ॥ 2.83.15 ॥
समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः ।
गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः ॥ 2.83.16 ॥
समाहिता योगिनः । गोरथैर्वृषभयुक्तरथैः शकटैरिति यावत् ॥ 2.83.16 ॥
सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपनाः ।
सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः ॥ 2.83.17 ॥
ताम्रमृष्टानुलेपनाः रक्तवर्णसम्पूर्णाङ्गरामाः ॥ 2.83.17 ॥
प्रहृष्टमुदिता सेना सान्वयात्कैकयीसुतम् ।
भ्रातुरानयने यान्तं भरतं भ्रातृवत्सलम् ॥ 2.83.18 ॥
प्रहर्षः कायिको रोमाञ्चादिः । प्रमोदो मानसो हर्षः । आनयने आनयननिमित्तम् ॥ 2.83.18 ॥
ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः ।
समासेदुस्ततो गङ्गां श्रृङ्गिबेरपुरं प्रति ॥ 2.83.19 ॥
त इति । श्रृङ्गिबेरपुरं प्रति दूरमध्वानं गत्वा गङ्गां समासेदुरिति सम्बन्धः । यद्वा श्रृङ्गिबेरपुरं प्रतीति [“लक्षणेत्थंभूताख्यान–” इति] लक्षणे कर्म प्रवचनीयः । श्रृङ्गिबेरपुरं इत्यर्थः ॥ 2.83.19 ॥
यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः ।
निवसत्यप्रमादेन देशं तं परिपालयन् ॥ 2.83.20 ॥
यत्रेति । अप्रमादेन सावधानतया, रामविरोध्यागमनवारणपर इत्यर्थः । तत्र देशे विद्यमानं श्रृङ्गिबेरपुरं प्रतीति पूर्वेणान्वयः ॥ 2.83.20 ॥
उपेत्य तीरं गङ्गायाश्चक्रवाकैरलङ्कृतम् ।
व्यवातिष्ठत सा सेना भरतस्यानुयायिनी ॥ 2.83.21 ॥
निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम् ।
भरतः सचिवान् सर्वानब्रवीद्वाक्यकोविदः ॥ 2.83.22 ॥
उपेत्येति । व्यवातिष्ठत व्यवस्थिता अभूत् ॥ 2.83.2122 ॥
निवेशयत मे सैन्यमभिप्रायेण सर्वतः ।
विश्रान्ताः प्रतरिष्यामः श्व इदानीमिमां नदीम् ॥ 2.83.23 ॥
निवेशयतेति । अभिप्रायेण तत्तदिच्छया इदानीं विश्रान्ताः श्वो नदीं प्रतरिष्याम इति सम्बन्धः ॥ 2.83.23 ॥
दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः ।
और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम् ॥ 2.83.24 ॥
दातुमिति । और्ध्वदेहनिमित्तार्थम् ऊर्ध्वदेहभवसुखप्रयोजनायेत्यर्थः । नदीमवतीर्य पितुरौर्ध्वदेहनिमित्तार्थमुदकं दातुमिच्छामीत्यन्वयः ॥ 2.83.24 ॥
तस्यैवं ब्रुवतो ऽमात्यास्तथेत्युक्त्वा समाहिताः ।
न्यवेशयंस्तां छन्देन स्वेन स्वेन पृथक्पृथक् ॥ 2.83.25 ॥
तस्येति । छन्देन इच्छया । “छन्दः श्रुतीच्छापद्येषु” इति वैजयन्ती ॥ 2.83.25 ॥
निवेश्य गङ्गमनु तां महानदीं चमूं विधानैः परिबर्हशोभिनीम् ।
उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्त्तनम् ॥ 2.83.26 ॥
निवेश्येति । गङ्गामनु निवेश्य गङ्गामनुसृत्य निवेश्य, गङ्गाकूलानुसारेण निवेश्येति यावत् । विधानैः तत्तज्जातिव्यवस्थाकल्पनादिभिः । परिबर्हशोभिनीं परिबर्हो यात्रोपयुक्तपटवेश्माद्युपकरणम् । “तथोपकरणं प्रोक्तं परिबर्हः परिच्छदः” इति हलायुधः ॥ 2.83.26 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥ 83 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्र्यशीतितमः सर्गः ॥ 83 ॥