श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चषष्टितमः सर्गः
अथ रात्र्यां व्यतीतायां प्रातरेवापरे ऽहनि ।
वन्दिनः पर्युपातिष्ठंस्तत्पार्थिवनिवेशनम् ॥ 2.65.1 ॥
सूताः परमसंस्कारामङ्गलाश्चोत्तमश्रुताः ।
गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक् ॥ 2.65.2 ॥
अथेत्यादिश्लोकद्वयमेकवाक्यम् । रात्र्यां रात्रिशेषे । परमसंस्काराः व्याकरणाद्युत्तमसंस्कारयुक्ताः श्रेष्ठालङ्कारयुक्ता वा । वन्दिन इति पूर्वमुक्तत्वात् सूताः वंशावलिकीर्त्तकाः । मङ्गलाः मङ्गलपाठकाः । उत्तमं श्रुतं गान्धर्वशास्त्रश्रवणं येषां ते उत्तमश्रुताः । एतद्विशेषणद्वयं गायकमात्रविशेषणम् । अन्यत्सर्वविशेषणम् सर्वत्र पर्युपातिष्ठन्नितिक्रियापदम् ॥ 2.65.12 ॥
राजानं स्तुवतां तेषामुदात्ताभिहिताशिषाम् ।
प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥ 2.65.3 ॥
राजानमिति । उदात्ताभिहिताशिषाम् उदात्तेन उच्चैःस्वरेण अभिहिताः प्रयुक्ताः आशिषो यैस्तेषाम् । प्रासादाभोगविस्तीर्णः प्रासादेषु आभोगः परिपूर्णता तया विस्तीर्णः “आभोगः परिपूर्णत” इत्यमरः ॥ 2.65.3 ॥
ततस्तु स्तुवतां तेषां सूतानां पाणिवादकाः ।
अपदानान्युदाहृत्य पाणिवादानवादयन् ॥ 2.65.4 ॥
तत इति । स्तुवतां स्तुवत्सु सत्सु । पाणिवादकाः तालगत्या विविधं पाणिभ्यां वादयन्तीति पाणिवादकाः । अपदानानि वृत्तान्यद्भुतकर्माणि । पाणिवादानवादयन् पाणिवादानकुर्वन्नित्यर्थः ॥ 2.65.4 ॥
तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः ।
शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥ 2.65.5 ॥
तेनेति । शाखास्थाः गृहारामवृक्षशाखासु वर्तमानाः । राजकुलगोचराः राजगृहे दृश्यमानाः विहगाः शुकादयः ॥ 2.64.5 ॥
व्याहृताः पुण्यशब्दाश्च वीणानां चापि निस्वनाः ।
आशीर्गेयं च गाथानां पूरयामास वेश्म तत् ॥ 2.65.6 ॥
व्याहृता इति । व्याहृताः ब्राह्मणैरुक्ताः । पुण्यशब्दाः पुण्यपुरुषक्षेत्रतीर्थकीर्त्तनादिरूपाः । पूरयामासुरिति विपरिणामेन योजनीयम् । गाथानां दशरथविषयप्रबन्धविशेषाणां सम्बन्धि आशीर्गेयं आशीर्वादरूपगानम् ॥ 2.65.6 ॥
ततः शुचिसमाचाराः पर्युपस्थानकोविदाः ।
स्त्रीवर्षधरभूयिष्ठा उपतस्थुर्यथापुरम् ॥ 2.65.7 ॥
तत इति । पर्युपस्थानकोविदाः कालोचितपरिचर्याविचक्षणाः । स्त्रीवर्षधरभूयिष्ठाः अन्तःपुराध्यक्षस्त्रीभिः वर्षधरैः षण्ढैश्च समृद्धाः, परिचारका इति शेषः ॥ 2.65.7 ॥
हरिचन्दनसंपृक्तमुदकं काञ्चनैर्घटैः ।
आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि ॥ 2.65.8 ॥
हरिचन्दनसंपृक्तमिति । हरिचन्दनसंपृक्तं हरिनचन्दनसंमिश्रम् । स्नानशिक्षाज्ञाः स्नानप्रकारज्ञाः यथाविधि यथानियमम् ॥ 2.65.8 ॥
मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान् ।
उपनिन्युस्तथाप्यन्याः कुमारीबहुलाः स्त्रियः ॥ 2.65.9 ॥
मङ्गलालम्भनीयानीति । मङ्गलालम्भनीयानि मङ्गलरूपानुलेपनानि तैलोद्वर्तनादीनि । स्पर्शनीयानि गवादीनीत्येके । प्राशनीयानि दन्तधावनानन्तरं गण्डूषत्वेन प्राशनीयानि सम्पिष्टतिलनारिकेलजीरकादिद्रव्याणि औषधविशेषानिति वार्थः, गङ्गादितीर्थोदकानीति वार्थः, अनुदिनमखिलदुरितहरणायाखिलकर्मणामधिकारापादनाय च प्राशनीयानि कुलाराधनभूतश्रीरङ्गनाथचरणारविन्दसमर्पिततीर्थोदकतुलस्यादीनीति वार्थः । तीर्थोदकभाजनावरणपेटिकादेरेव परिचारकैरानयनं ज्ञेयम् । उपस्करान् दर्पणवस्त्राभरणकुसुमादीनि । कुमारीबहुलाः कुमारीप्रायाः । स्त्रियः इति द्वितीया । वारयोषित इति यावत् ॥ 2.65.9 ॥
सर्वलक्षणसम्पन्नं सर्वं विधिवदर्चितम् ।
सर्वं सुगुणलक्ष्मीवत्तद्बभूवाभिहारिकम् ॥ 2.65.10 ॥
सर्वलक्षणसम्पन्नमिति । आभिहारिकं राज्ञे प्रातर्यदाहर्तव्यं मङ्गलार्थमानेतव्यम् । तत्सर्वं सर्वलक्षणसम्पन्नत्वादिधर्मविशिष्टं बभूव । सुगुणं च तत् लक्ष्मीवच्चेति समासः ॥ 2.65.10 ॥
तत्तु सूर्योदयं यावत्सर्वं परिसमुत्सुकम् ।
तस्थावनुपसम्प्राप्तं किंस्विदित्युपशङ्कितम् ॥ 2.65.11 ॥
तदिति । तत् पूर्वोक्तं परिजनजातम् । सूर्योदयं यावत् सूर्योदयात् पूर्वमेव । परिसमुत्सुकं राजसेवासमुत्सुकम् । अनुपसंप्राप्तम् अनागतं राजानं प्रति किंस्विदित्युपशङ्कितं सत् तस्थौ । राता नागतः तस्य किंवा स्यादिति शङ्कासंयुक्तं तस्थावित्यर्थः ॥ 2.65.11 ॥
अथा याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः ।
ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन् ॥ 2.65.12 ॥
अथेति । याः कौसल्यादिव्यतिरिक्ताः । शयनं प्रत्यनन्तराः शयनसन्निकृष्टा इत्यर्थः । प्रत्यबोधयन् प्रबोधनोचितसविनयमृदुवाक्यैः प्राबोधयन्नित्यर्थः ॥ 2.65.12 ॥
तथाप्युचितवृत्तास्ता विनयेन नयेन च ।
न ह्यस्य शयनं स्पृष्ट्वा किञ्चिदप्युपलेभिरे ॥ 2.65.13 ॥
तथेति । तथापि बोधयित्वापि । उचितवृत्ताः स्पर्शनादिव्यापारोचिताः । विनयेन प्रश्रयेण नयेन युक्त्या च अस्य शयनं शयनस्थानं स्पृष्ट्वा किंचिदपि निद्रालक्षणम् उच्छ्वासादिकम् । न लेभिरे न ज्ञातवत्यः ॥ 2.65.13 ॥
ताः स्त्रियः स्वप्नशीलज्ञाश्चेष्टासञ्चलनादिषु ।
ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः ।
प्रतिस्रोतस्तृणाग्राणां सदृशं संचकाशिरे ॥ 2.65.14 ॥
एतदेवोपपादयति–ता इति । स्वप्नशीलज्ञाः स्वापस्वभावज्ञाः । ताः पूर्वोक्ताः स्त्रियः । चेष्टासंचलनादिषु चेष्टा हस्तपादादिचलनम्, सञ्चलनं हृदयादिस्पन्दनम्, आदिशब्देन निश्वासादिकं गृह्यते । तेषु किंचिन्नोपलेभिरे इत्यनुषङ्गेण सम्बन्धः । वेपथुना कम्पेन । परीताः व्याप्ताः ताः स्त्रियः राज्ञः प्राणेषु शङ्किताः सत्यः प्रतिस्रोतस्तृणाग्राणां नदीप्रवाहाभिमुखवेतसादितृणाग्राणाम् । सदृशं तुल्यम् यथातथा संचकाशिरे, संचकम्पिर इत्यर्थः ॥ 2.65.14 ॥
अथ संवेपमानानां स्त्रीणां दृष्ट्वा च पार्थिवम् ।
यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः ॥ 2.65.15 ॥
अथेति । यत्पापं मरणरूपमाशङ्कितं तस्य निश्चयस्तदा जज्ञ इति सम्बन्धः ॥ 2.65.15 ॥
कौसल्या च सुमित्रा च पुत्रशोकपराजिते ।
प्रसुप्ते न प्रबुध्येते यथाकालसमन्विते ॥ 2.65.16 ॥
कौसल्येति । पुत्रशोकेन पराजिते आक्रान्ते अत एव यथाकालसमन्विते मृते इव प्रसुप्ते न प्रबुध्येते ॥ 2.65.16 ॥
निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ।
न व्यराजत कौसल्या तारेव तिमिरावृता ॥ 2.65.17 ॥
निष्प्रभेति । निष्प्रभा निःश्रीका । विवर्णा पूर्ववर्णाद्विपरीतवर्णा । शोकेन सन्ना कृशा । सन्नता कार्श्येन नम्रा । तिमिरावृता उत्पातकालेत्थधूमस्तिमिरं तेनावृता तारेव तारकेव न व्यराजत ॥ 2.65.17 ॥
कौसल्यानन्तरं राज्ञः सुमित्रा तदनन्तरम् ।
न स्म विभ्राजते देवी शोकाश्रुलुलितानना ॥ 2.65.18 ॥
कौसल्यानन्तरमिति । प्रथमं राजा न विभ्राजते स्म । राज्ञो ऽनन्तरं कौसल्या शोकाश्रुलुलितानना सती न विभ्राजते स्म । तदनन्तरं देवी तथाविधा सुमित्रा न विभ्राजते स्म, मृताद्दशरथाज्जीवन्त्योः कौसल्यासुमित्रयोर्विशेषो नासीदित्यर्थः ॥ 2.65.18 ॥
ते च दृष्ट्वा तथा सुप्ते उभे देव्यौ च तु नृपम् ।
सुप्तमेवोद्गतप्राणमन्तःपुरमदृश्यत ॥ 2.65.19 ॥
ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः ।
करेणव इवारण्ये स्थानप्रच्युतयूथपाः ॥ 2.65.20 ॥
ते इति । सुप्ते ते उभे देव्यौ च दृष्ट्वा । सुप्तमेव सन्तमुद्गतप्राणं तं नृपं च अन्तःपुरम् अन्तःपुरजनः अदृश्यत अपश्यत् ॥ 2.65.1920 ॥
तासामाक्रन्दशब्देन सहसोद्गतचेतने ।
कौसल्या च सुमित्रा च त्यक्तनिद्रे बभूवतुः ॥ 2.65.21 ॥
कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ।
हा नाथेति परिक्रुश्य पेततुर्धरणीतले ॥ 2.65.22 ॥
सा कोसलेन्द्रदुहिता वेष्टमाना महीतले ।
न बभ्राज रजोध्वस्ता तारेव गगनाच्च्युता ॥ 2.65.23 ॥
तासामिति । सहसोद्गतचेतने सहसोत्पन्नप्रबोधे ॥ 2.65.2123 ॥
नृपे शान्तगुणे जाते कौसल्यां पतितां भुवि ।
अपश्यंस्ताः स्त्रियः सर्वा हतां नागवधूमिव ॥ 2.65.24 ॥
ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ।
रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः ॥ 2.65.25 ॥
नृप इति । शान्तगुणे शान्तदेहोष्णस्पन्दनादिगुणे ॥ 2.65.2425 ॥
ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ।
येन स्थिरीकृतं भूयस्तद्गृहं समनादयत् ॥ 2.65.26 ॥
ताभिरिति । स नादः कौसल्याप्रभृतीनां नादः । क्रोशन्तीभिस्ताभिः पश्चात्प्रविष्टकैकेयीप्रभृतिभिः अनुद्रुतः अनुसृतो ऽभूत् । येन अनन्तरक्रोशानुद्रुतेन पूर्वनादेन स्थिरीकृतं व्याप्तं तत्सर्वं गृहं समनादयत् महान्तं प्रतिध्वनिमजनयदित्यर्थः ॥ 2.65.26 ॥
तत्समुत्त्रस्तसम्भ्रान्तं पर्युत्सुकजनाकुलम् ।
सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम् ॥ 2.65.27 ॥
सद्योप निपतितानन्दं दीनविक्लवदर्शनम् ।
बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः ॥ 2.65.28 ॥
तदित्यादि । पर्युत्सुकजनाकुलं पूर्वं पर्युत्सुकजनाकुलं सद्म नरदेवस्य दिष्टान्तमीयुषः नरदेवे मरणं प्राप्ते सति । समुत्त्रस्तसंभ्रान्तं समुत्त्रस्तम् उद्विग्नं संभ्रान्तम् अनवस्थितं च इत्येवमादिविशेषणयुक्तं बभूवेति सम्बन्धः ॥ 2.65.2728 ॥
अतीतमाज्ञाय तु पार्थिवर्षभं यशस्विनं सम्परिवार्यपत्नयः ।
भृशं रुदन्त्यः करुणं सुदुःखिताः प्रगृह्य बाहू व्यलपन्ननाथवत् ॥ 2.65.29 ॥
अतीतमिति । आज्ञाय सम्यक् ज्ञात्वा । पत्नयः पत्न्यः । बाहूप्रगृह्य परस्परं बाहू गृहीत्वेत्यर्थः ॥ 2.65.29 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चषष्टितमः सर्गः ॥ 65 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चषष्टितमःसर्गः ॥ 65 ॥