श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिषष्टितमः सर्गः
प्रतिबुद्धो मुहूर्तेन शोकोपहतचेतनः ।
अथ राजा दशरथः स चिन्तामभ्यपद्यत ॥ 2.63.1 ॥
प्रतिबुद्ध इत्यादि ॥ 2.63.1 ॥
रामलक्ष्मणयोश्चैव विवासाद्वासवोपमम् ।
आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम् ॥ 2.63.2 ॥
रामलक्ष्मणयोरिति । रामलक्ष्मणयोर्विवासात् उपसर्गः महोपद्रवः पुत्रशोकरूपः । आसुरम् असुरसम्बन्धि तमः राहुः ॥ 2.63.2 ॥
सभार्ये निर्गते रामे कौसल्यां कोसलेश्वरः ।
विवक्षुरसितापाङ्गां स्मृत्वा दुष्कृतमात्मनः ॥ 2.63.3 ॥
सभार्य इति । विवक्षुः, अभूदिति शेषः । असितापाङ्गामित्यनेन निवृत्तक्रोधत्वमुक्तम् ॥ 2.63.3 ॥
स राजा रजनीं षष्ठीं रामे प्रव्राजिते वनम् ।
अर्धरात्रे दशरथः संस्मरन् दुष्कृतं कृतम् ॥ 2.63.4 ॥
स राजा पुत्रशोकार्तः स्मृत्वा दुष्कृतमात्मनः ।
कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत् ॥ 2.63.5 ॥
स राजेति । रजनीमिति सप्तम्यर्थे द्वितीया । षष्ठीं रजनीं, प्राप्येति शेषो वा । संस्मरन् स्थित इति शेषः ॥ 2.63.45 ॥
यदाचरति कल्याणि शुभं वा यदि वा ऽशुभम् ।
तदेव लभते भद्रे कर्ता कर्मजमात्मनः ॥ 2.63.6 ॥
स्मृतमात्मदुष्कृतं वक्तुं तदनुकूलां लोकस्थितिं दर्शयति–यदिति । कल्याणीति सान्त्वोक्तिः । लोके पुरुषः शुभं वा अशुभं वा यदाचरति परस्य कर्मजं परशुभाशुभप्रापकपुण्यापुण्यात्मककर्मजम्, तदेव शुभं वा अशुभं वा फलम् आत्मनोपि लभते । तथाच ऋषेः पुत्रवियोगकरणेन ममापि पुत्रवियोगः प्राप्त इति भावः ॥ 2.63.6 ॥
गुरुलाघवमर्थानामारम्भे कर्मणां फलम् ।
दोषं वा यो न जानाति स बाल इति होच्यते ॥ 2.63.7 ॥
अन्यामपि लोकस्थितिमाह–गुरुलाघवमिति । कर्मणामारम्भे आरम्भसमये । अर्थानां फलानां गुरुलाघवं गुरुत्वं लघुत्वं च फलं दोषं वा फलं फलहानिं वा । यद्वा सुखरूपतां दुःखरूपतां वा । यो न जानाति सः बालः अज्ञ इत्युच्यते । अल्पफलकं बहुकर्मनिष्फलं च कर्मारभमाणो बुद्धिहीनः बहुफलकमल्पं कर्म सफलं कर्म चारभमाणः सुबुद्धिरित्यर्थः । तथाचात्मविनोदरूपाल्पफलं पुत्रवियोगरूपमहाफलहानिकरं मृगयाकर्म कुर्वन्नहमज्ञ एवास्मीति भावः ॥ 2.63.7 ॥
कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति ।
पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥ 2.63.8 ॥
फलतारतम्यविचारमन्तेरण कर्मणि प्रवृत्तस्योक्तं बालिशत्वं दृष्टान्तमुखेन विवृणोति–कश्चिदिति । लोके कश्चित्पुरुषः पुष्पं दृष्ट्वा फले गृध्नुः साभिलाषः सन् अधिकवर्णमहापुष्पवत्त्वात् तदनुगुणमहाफलं भविष्यतीति साभिलाष इत्यर्थः । आम्रवणं चूतवनम् । अल्पनिर्वर्णपुष्पकम् । छित्त्वा पलाशोपरोधपरिहारार्थं छित्त्वा । पलाशांश्च किंशुकानेव निषिञ्चति जलसेचनादिना पोषयति सः फलागमे फलप्राप्तिकाले सति । अनुपभोग्यफलदर्शनात् शोचति ॥ 2.63.8 ॥
अविज्ञाय फलं यो हि कर्मत्वेवानुधावति ।
स शोचेत् फलवेलायां यथा किंशुकसेचकः ॥ 2.63.9 ॥
दृष्टान्तोक्तं दार्ष्टान्तिके दर्शयति–अविज्ञायेति । भाविफलमविज्ञाय कर्मत्वेवानुधावति कर्मैवानुसरति तदनुकूलहिंसां तु न पश्यतीत्यर्थः ॥ 2.63.9 ॥
सो ऽहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम् ।
रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः ॥ 2.63.10 ॥
एवं सदृष्टान्तमुक्तस्य प्रकृतोपयोगं दर्शयति–सोहमिति । आम्रवणच्छेदनपूर्वकपलाशसेचकतुल्योहमित्यर्थः । आम्रवणं छित्त्वेत्यनेन अभिषेकविघातपूर्वकरामविवासनं लक्ष्यते । पलाशांश्च न्यषेचयमित्यनेन कैकेयीप्रियकरणं लक्ष्यते ॥ 2.63.10 ॥
लब्धशब्देन कौसल्ये कुमारेण धनुष्मता ।
कुमारः शब्दवेधीति मया पापमिदं कृतम् ॥ 2.63.11 ॥
एतद्दुःखानुभवस्य निदानं वक्तुमुपक्रमते–लब्धशब्देनेति । कुमारः शब्दवेधीति लब्ध शब्देन प्राप्तख्यातिना मया । इदं वक्ष्यमाणं पापं मुनिकुमारवधरूपं कर्म कृतमिति सम्बन्धः । यद्वा लब्धशब्देन लब्धगजतुल्यमुनिपुत्रशब्देन मया शब्दवेधी कुमार इत्यभिमानेन इदं वक्ष्यमाणं मुनिकुमारवधरूपं पापं कृतम् ॥ 2.63.11 ॥
तदिदं मे ऽनुसंप्राप्तं देवि दुःखं स्वयंकृतम् ।
सम्मोहादिह बालेन यथा स्याद्भक्षितं विषम् ॥ 2.63.12 ॥
शुभं वा अशुभं वा पुरुषकृतं कर्म लोकान्तरे जन्मान्तरे वा फलाय भवेत् मत्कृतकर्मणस्त्वत्युत्कटत्वादिहैव तत्फलं प्राप्तमित्याह–तदिदमिति । इह लोके बालेन संमोहात् भक्षितं विषं यथा दुःखरूपं स्यात्तथैव स्वयं कृतम् तदिदं दुष्कृतं मे दुःखरूपम् अनुसंप्राप्तं जातमित्यर्थः ॥ 2.63.12 ॥
यथान्यः पुरुषः कश्चित् पलाशैर्मोहितो भवेत् ।
एवं ममाप्याविज्ञातं शब्दवेध्यमयं फलम् ॥ 2.63.13 ॥
उक्तमर्थं संग्रहेण दर्शयन्नुपसंहरति–यथान्य इत्यादिना । अन्यः प्राकृतः कश्चित् पलाशैः पलाशपुष्पैः । “फले लुक्” । यथा मोहितो भवेत् यादृशं पुष्पं तादृशं फलं भविष्यतीति मोहं प्राप्तो भवेत् । एवं ममापि मयापि शब्दो वेध्यो लक्ष्यं यस्य स शब्दवेध्यः शरः शब्दवेध्यमयं शब्दवेध्यविकारभूतं तद्धेतुकमित्यर्थः । फलमविज्ञातं शब्दवेधित्वख्यातिमात्रमेव जानता मया भाव्यनर्थफलं न विज्ञातमित्यर्थः ॥ 2.63.13 ॥
देव्यनूढा त्वमभवो युवराजो भवाम्यहम् ।
ततः प्रावृडनुप्राप्ता मदकामविवर्धनी ॥ 2.63.14 ॥
एतादृशशब्दवेधनं कदा प्राप्तमित्याकाङ्क्षायामाह–देवीत्यादिना । अनूढा अकृतविवाहा । युवत्वे सति राजा युवराजः भवामि अभवम् । प्रावृट् वर्षाकालः ॥ 2.63.14 ॥
उपास्य हि रसान् भौमांस्तप्त्वा च जगदंशुभिः ।
परेताचरितां भीमां रविराविशते दिशम् ॥ 2.63.15 ॥
उपास्येति । उपास्य गृहीत्वा । रसान् जलानि । जगद्भूमिम् । परेताचरितां प्रेताचरिताम् अत एव भीमां दिशं दक्षिणामित्यर्थः । आविशते आविशते स्म ॥ 2.63.15 ॥
उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः ।
ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः ॥ 2.63.16 ॥
उष्णमिति । स्निग्धाः शीतलाः । भेकाः मण्डूकाः । सारङ्गा हरिणाश्चातका वा ॥ 2.63.16 ॥
क्लिन्नपक्षोत्तराः स्नाताः कृच्छ्रादिव पतत्ित्रणः ।
वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥ 2.63.17 ॥
क्लिन्नपक्षोत्तरा इति । क्लिन्नपक्षोत्तरा सिक्तपक्षोपरिभागाः । अत एव स्राता इव स्थिताः । वृष्टिवातावधूताग्रान् वृष्टिवाताभ्यां कम्पिताग्रानपि पादपान् । कृच्छ्रात् क्लिन्नपक्षत्वेन यत्नात् अभिपेदिरे आरूढाः ॥ 2.63.17 ॥
पतितेनाम्भसा च्छन्नः पतमानेन चासकृत् ।
आबभौ मत्तसारङ्गस्तोयराशिरिवाचलः ॥ 2.63.18 ॥
पतितेनेति । पतितेन पतमानेन च निरन्तरेणेत्यर्थः । अम्भसा वर्षजलेन छन्नः मत्त सारङ्गः मत्तगजः । “सारङ्गो हरिणे भृङ्गे चातके शबले गजे” इति निघण्टुः । अचलो गिरिः । अचलो निश्चलः निस्तरङ्गः तोयराशिः समुद्र इवाबभौ । अचलपदस्यावृत्त्या एकस्य गिरिपदस्य विशेष्यत्वम्, अन्यस्य तोयराशिविशेषणत्वमिति ध्येयम् ॥ 2.63.18 ॥
पाण्डुरारुणवर्णानि स्रोतांसि विमलान्यपि ।
सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥ 2.63.19 ॥
पाण्डुरारुणवर्णानीति । गिरिधातुभ्यो हेतुभ्यः विमलान्यपि स्रोतांसि पाण्डुरारुणवर्णानि पाण्डुरधातुसंयोगात् पाण्डुरवर्णानि अरुणधातुसंयोगात् अरुणवर्णनि । सभस्मानि दावानलभस्म सहितानि । भुजङ्गवत् नानावर्णयुक्तसर्पा इव कुटिलानि सुस्रुवुः ॥ 2.63.19 ॥
तस्मिन्नतिसुखे काले धनुष्मानिषुमान् रथी ।
व्यायामकृतसङ्कल्पः सरयूमन्वगां नदीम् ॥ 2.63.20 ॥
निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम् ।
अन्यं वा श्वापदं कञ्चिज्जिघांसुरजितेन्द्रियः ॥ 2.63.21 ॥
तस्मिन्नित्यादिश्लोकद्वयमेकं वाक्यम् । व्यायामकृतसङ्कल्पः मृगयाविहारे कृतसङ्कल्प इत्यर्थः । निपीयते अस्मिन्निति निपानम् नद्यवतारस्थलं तस्मिन् । श्वापदं व्याघ्रादिदुष्टमृगम् ॥ 2.63.2021 ॥
अथान्धकारे त्वश्रौषं जले कुम्भस्य पूर्यतः ।
अचक्षुर्विषये घोषं वारणस्येव नर्दतः ॥ 2.63.22 ॥
अथान्धकार इति । पूर्यत इति शत्रन्तत्वमार्षम् ॥ 2.63.22 ॥
ततो ऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम् ।
शब्दं प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ॥ 2.63.23 ॥
ततो ऽहमिति । गजप्रेप्सुः गजरूपवेध्यं प्राप्तुमिच्छुः, हननेच्छुरित्यर्थः । शब्दं प्रति शब्दं लक्ष्यं कृत्वा । अभिलक्ष्य शब्दकर्तृभूतो राज एतावन्मात्रे तिष्ठतीति लक्षीकृत्येत्यर्थः, शरमपातयमिति सम्बन्धः ॥ 2.63.23 ॥
अमुञ्चं निशितं बाणमहमाशीविषोपमम् ।
तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः ।
हाहेति पततस्तोये बाणाभिहतमर्मणः ॥ 2.63.24 ॥
अमुञ्चमिति । यत्र बाणममुञ्चं तत्र वनौकसः वनम् ओकः स्थानं यस्य तस्य, तपस्विन इति यावत् । व्यक्ता वाक् प्रादुरासीदिति सम्बन्धः ॥ 2.63.24 ॥
तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी ।
कथमस्मद्विधे शस्त्रं निपते त्तु तपस्विनि ॥ 2.63.25 ।
प्रविविक्तां नदीं रात्रावुदाहारो ऽहमागतः ।
इषुणाभिहतः केन कस्य वा किं कृतं मया ॥ 2.63.26 ॥
विशिष्यवागुदितेत्याह–तस्मिन्नित्यादि अस्मद्विधे अजातशत्रौ । प्रविविक्तां प्रकर्षेण निर्जनाम् । रात्रौ अपररात्रौ । उदकमाहारयतीत्युदाहारः “मन्थौदन–” इत्यादिना उदकशब्दस्योदादेशः । यद्यपि हारशब्दे परे उदादेशो विहितः तथापि “एकदेशविकृतमनन्यवद्भवति” इति दीर्घः छान्दसो वा । किंकृतं किमनिष्टं कृतम् ॥ 2.63.2526 ॥
ऋषेर्हि न्यस्तदण्डस्य वने वन्येन जीवतः ।
कथं नु शस्त्रेण वधो मद्विधस्य विधीयते ॥ 2.63.27 ॥
जटाभारधरस्यैव वल्कलाजिनवाससः ।
को वधेन ममार्थी स्यात् किं वास्यापकृतं मया ॥ 2.63.28 ॥
न्यस्तदण्डस्य उपरतवाङ्मनःकायसम्बन्धिपरहिंसस्य । “दण्डो ऽस्त्री शासने राज्ञां हिंसायां दमसैन्ययोः” इति विश्व । अर्थी प्रयोजनवान् ॥ 2.63.2728 ॥
एवं निष्फलमारब्धं केवलानर्थसंहितम् ।
न कश्चित् साधु मन्येत यथैव गुरुतल्पगम् ॥ 2.63.29 ॥
नाहं तथानुशोचामि जीवितक्षयमात्मनः ।
मातरं पितरं चोभावनुशोचामि मद्वधे ॥ 2.63.30 ॥
तदेतन्मिथुनं वृद्धं चिरकालभृतं मया ।
मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति ॥ 2.63.31 ॥
गुरुतल्पगं गुरुदारगम् । “तल्पं शय्याट्टदारेषु” इत्यमरः ॥ 2.63.2931 ॥
वृद्धौ च मातापितरावहं चैकेषुणा हतः ।
केन स्म निहताः सर्वे सुबालेनाकृतात्मना ॥ 2.63.32 ॥
हत इत्येतन्मातापितरावित्यत्र वचनविपरिणामेन योजनीयम् । सर्वे निहता इत्युक्तिर्मातापितृजीवनहेतुभूतस्य स्वस्य वधात् । अकृतात्मना अनिश्चितबुद्धिना । इति वागभूदिति पूर्वेणान्वयः ॥ 2.63.32 ॥
तां गिरं करुणां श्रुत्वा मम धर्मानुकांक्षिणः ।
कराभ्यां सशरं चापं व्यथितस्यापद्भुवि ॥ 2.63.33 ॥
तामिति । सशरं चापमित्यनेन शरे मुक्तेपि हस्तलाघवाच्छरान्तरं धनुषि संहितवानित्यवगम्यते । करुणां गिरं श्रुत्वा करुणाजनकं वचः श्रुत्वा, स्थितस्येति शेषः ॥ 2.63.33 ॥
तस्याहं करुणं श्रुत्वा निशि लालपतो बहु ।
सम्भ्रान्तः शोकवेगेन भृशमासं विचेतनः ॥ 2.63.34 ॥
तस्येति । लालपत इति यङ्लुगन्ताच्छतृप्रत्ययः । प्रलपत इत्यर्थः । विलपनमित्यर्थसिद्धम् ॥ 2.63.34 ॥
तं देशमहमागम्य दीनसत्त्वः सुदुर्मनाः ।
अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् ॥ 2.63.35 ॥
अवकीर्णजटाभारं प्रविद्धकलशोदकम् ।
पांसुशोणितदिग्धाङ्गं शयानं शल्यपीडितम् ॥ 2.63.36 ॥
तमिति । दीनसत्त्वः दीनहृदयः । सुदुर्मनाः अत्यन्तदुःखितमनाः । प्रविद्धकलशोदकं पर्यस्तकलशोदकमित्यर्थः । नतु ध्वस्तकलशोदकमिति । “ततस्तं घटमादाय पूर्णं परमवारिणा” इति वक्ष्यमाणविरोधात् । पांसुशोणितदिग्धाङ्गं पांसुविशिष्टशोणितेन लिप्ताङ्गम् । शल्यपीडितं शराग्रपीडितम् ॥ 2.63.3536 ॥
स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसम् ।
इत्युवाच ततः क्रूरं दिधक्षन्निव तेजसा ॥ 2.63.37 ॥
स मामुद्वीक्ष्येति । त्रस्तं भीतम् अत एवास्वस्थचेतसं व्याकुलचित्तम् ॥ 2.63.37 ॥
किं तवापकृतं राजन् वने निवसता मया ।
जिहीर्षुरम्भो गुर्वर्थं यदहं ताडितस्त्वया ॥ 2.63.38 ॥
एकेन खलु बाणेन मर्मण्यभिहते मयि ।
द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥ 2.63.39 ॥
किं तवेति । जिहीर्षुः आहर्तुमिच्छुः । गुर्वर्थं मातापितृनिमित्तम् ॥ 2.63.38.39 ॥
तौ कथं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ ।
चिरमाशाकृतां तृष्णां कष्टां सन्धारयिष्यतः ॥ 2.63.40 ॥
ताविति । आशाकृतां पुत्रो मे जलमाहरिष्यतीत्याशासहिताम् । तृष्णां पिपासाम् । कष्टां दुःसहाम् ॥ 2.63.40 ॥
न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा ।
पिता यन्मां न जानाति शयानं पतितं भुवि ॥ 2.63.41 ॥
न नूनमिति । तपसः श्रुतस्य वेत्यत्र मामकस्येति विशेषणं देयम् ॥ 2.63.41 ॥
जान्ननपि च किं कुर्यादशक्तिरपरिक्रमः ।
भिद्यमानमिवाशक्तस्त्रातुमन्यो नगो नगम् ॥ 2.63.42 ॥
जानन्निति । अपरिक्रमः असञ्चारः, पङ्गुरिति यावत् । भिद्यमानं वातादिनेति शेषः ॥ 2.63.42 ॥
पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव ।
न त्वामनुदहेत् क्रुद्धो वनं वह्निरिवैधितः ॥ 2.63.43 ॥
पितुरिति । राघवेति संबोधनात् सरयूतीरे बहुशो मृगयापर्यटनेन पूर्वमेव दशरथं ज्ञातवानित्यवगम्यते । न त्वामनुदहेदिति अन्यथा दहेदिति भावः ॥ 2.63.43 ॥
इयमेकपदी राजन् यतो मे पितुराश्रमः ।
तं प्रसादय गत्वा त्वं न त्वां स कुपितः शपेत् ॥ 2.63.44 ॥
इयमिति । एकपदी एकपदन्यासमात्रयुक्ता सरणिरित्यर्थः । “वर्तन्येकपदी” इत्यमरः । यतः यत्रैकपद्याम् ॥ 2.63.44 ॥
विशल्यं कुरु मां राजन् मर्म मे निशितः शरः ।
रुणद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा ॥ 2.63.45 ॥
सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति ।
इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥ 2.63.46 ॥
विशल्यमिति । मर्म रुणद्धि पीडयतीत्यर्थः । मृदु सिकतामयम् । सोत्सेधम् औन्नत्यवत् । अम्बुरयः नदीवेगः ॥ 2.63.4546 ॥
दुःखितस्य च दीनस्य मम शोकातुरस्य च ।
लक्षयामास हृदये चिन्तां मुनिसुतस्तदा ॥ 2.63.47 ॥
दुःखितस्येति । दुःखितस्य महदकृत्यं प्राप्तमिति दुःखितस्य । शोकातुरस्य ब्रह्महत्या भविष्यतीति भिया शोकेन पीडितस्य ॥ 2.63.47 ॥
ताम्यमानः स मां कृच्छ्रादुवाच परमार्तवत् ।
सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ॥ 2.63.48 ॥
ताम्यमान इति । क्षयं गतः नाशं प्राप्तुमुपक्रान्तः ॥ 2.63.48 ॥
संस्तभ्य शोकं धैर्येण स्थिरचित्तो भवाम्यहम् ।
ब्रह्महत्याकृतं पापं हृदयादपनीयताम् ॥ 2.63.49 ॥
न द्विजातिरहं राजन् माभूत्ते मनसो व्यथा ।
शूद्रायामस्मि वैश्येन जातो जनपदाधिप ॥ 2.63.50 ॥
संस्तभ्येत्यादिश्लोकद्वयस्य इति मामुवाचेत्यनेनान्वयः । स्थिरचित्तो भवाम्यहमित्यत्र स्थिरचित्तो भवानघेति च पाठः । शूद्रायां वैश्येन जातः करण इत्यर्थः । “शूद्राविशोस्तु करणः” इत्यमरः ॥ 2.63.4950 ॥
इतीव वदतः कृच्छ्राद्बाणाभिहतमर्मणः ।
विघूर्णतो विचेष्टस्य वेपमानस्य भूतले ॥ 2.63.51 ॥
तस्य त्वानम्यमानस्य तं बाणमहमुद्धरम् ।
स मामुद्वीक्ष्य सन्त्रस्तो जहौ प्राणांस्तपोधनः ॥ 2.63.52 ॥
इतीति । विघूर्णतः कदाचिदतीव वेपमानस्येत्यर्थः । विचेष्टस्य कदाचिदिति शेषः । वेपमानस्य कदाचिदीषत्कम्पमानस्येत्यर्थः । आनम्यमानस्य व्यथया सङ्कुचिताङ्गस्येत्यर्थः । नानद्यमानस्येति पाठे–अतिशयेन नदत इत्यर्थः । उद्धरम् उदहरम् । अडभावो ऽनित्यत्वात् ॥ 2.63.5152 ॥
जलार्द्रगात्रं तु विलप्य कृच्छ्रान्मर्मव्रणं सन्ततमुच्छ्वसन्तम् ।
ततः सरय्वां तमहं शयानं समीक्ष्य भद्रे ऽस्मि भृशं विषण्णः ॥ 2.63.53 ॥
जलार्द्रगात्रमिति । अयं श्लोकः प्रथमदृष्टानुवादः । मर्मणि प्राणस्थाने व्रणः यस्य तम् । सरय्वां सरयूतीरे । विषण्णोस्मि विषण्णो ऽभवम् ॥ 2.63.53 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिषष्टितमः सर्गः ॥ 63 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिषष्टितमः सर्गः ॥ 63 ॥