०६१ कौसल्याकृतदशरथनिन्दा

श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे एकषष्टितमः सर्गः

वनं गते धर्मपरे रामे रमयतां वरे ।

कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् ॥ 2.61.1 ॥

वनमिति । स्वार्ता सुतरामार्ता ॥ 2.61.1 ॥

यद्यपि त्रिषु लोकेषु प्रथितं ते महद्यशः ।

सानुक्रोशो वदान्यश्च प्रियवादी च राघवः ॥ 2.61.2 ॥

कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया ।

दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः ॥ 2.61.3 ॥

यद्यपीति । राघवः दशरथः । सानुक्रोशः वदान्यश्च प्रियवादी चेति ते महद्यशः त्रिषु लोकेषु प्रथितम् । यद्यपि तथापि अतिशयितापयशस्करं कृत्यं कृतमिति वाक्यशेषः । तथापि दुःखितौ मार्गे दुःखितौ तौ वने कथं दुःखं सहिष्यत इति वक्ष्यमाणेनान्वयो वा । यद्वा वार्द्धके नानाव्रतोपवासादिमहाप्रयासलब्धं ज्येष्ठमपि पुत्रमभिषेककाले त्यक्त्वापि प्रतिज्ञां निरूढवानिति ते महद्यशस्त्रिषु लोकेषु यद्यपि प्रथितं भवति । राघवश्च वदान्यतया दयया प्रियवचनशीलतया मह्यं वाचा पूर्वं दत्तं राज्यं न त्यजामीतिवक्तुमक्षमतया च राज्यं दत्तवान् अतस्तस्यापि महद्यश इति युवयोरिदं युक्तमस्तु, तथापि तौ कथं दुःखं सहिष्यत इति योजना ॥ 2.61.23 ॥

सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता ।

कथमुष्णञ्च शीतञ्च मैथिली प्रसहिष्यते ॥ 2.61.4 ॥

सा नूनमिति । तरुणी आरब्धयौवना । श्यामा यौवनमध्यस्था । एतत्पदद्वयोपादानेनेषन्न्यूनयौवनमध्यं प्राप्तेत्यवगम्यते । (पाठभेदः । श्यामा तरुणी यौवनमध्यस्था तरुणी नतु यौवनारम्भस्था तरुणीत्यर्थः) ॥ 2.61.4 ॥

भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् ।

वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ॥ 2.61.5 ॥

भुक्त्वाशनमिति । सूपदंशान्वितं शोभनव्यञ्जनसहितम् । नैवारं नीवारसम्बन्धिनम् ॥ 2.61.5 ॥

गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता ।

कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् ॥ 2.61.6 ॥

क्रव्यादाः मांसभक्षकाः ॥ 2.61.6 ॥

महेन्द्रध्वजसङ्काशः क्वनु शेते महाभुजः ।

भुजं परिघसङ्काशमुपधाय महाबलः ॥ 2.61.7 ॥

महेन्द्रध्वजसङ्काश इति । महेन्द्रध्वजोनाम–इन्द्रधनुः कदाचित् ध्वजाकारेण परमाभ्युदयनिमित्ततया प्रतिभातीत्याहुः ॥ 2.61.7 ॥

पद्मवर्णं सुकेशान्तं पद्मनिश्वासमुत्तमम् ।

कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥ 2.61.8 ॥

पद्मवर्णमिति । पद्मवर्णं पद्मपत्रवर्णम् । पद्मनिश्वासं पद्मगन्धिनिश्वासम् ॥ 2.61.8 ॥

वज्रसारमयं नूनं हृदयं मे न संशयः ।

अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा ॥ 2.61.9 ॥

वज्रसारमयमिति । न फलति न स्फुटति । “ञिफला विशरणे” इति धातुः ॥ 2.61.9 ॥

यत्त्वया ऽकरुणं कर्म व्यपोह्य मम बान्धवाः ।

निरस्ताः परिधावन्ति सुखार्हाः कृपणा वने ॥ 2.61.10 ॥

यत्त्वयेति । त्वया निरस्ताः मम बान्धवाः रामादयः । व्यपोह्य नगरं त्वक्त्वा वने परिधावन्तीति यत् एतत् अकरुणं कर्म, करुणाराहित्येन कृतं कर्मेत्यर्थः ॥ 2.61.10 ॥

यदि पञ्चदशे वर्षे राघवः पुनरेष्यति ।

जह्याद्राज्यञ्च कोशञ्च भरतेनोपभुज्यते ॥ 2.61.11 ॥

चतुर्दशवर्षानन्तरं रामो राज्यं प्राप्स्यतीत्याशङ्क्य परिहरति–यदीति । पञ्चदशे वर्षे राघवो यदि पुनरेष्यति तथापि राज्यं कोशञ्च जह्यात् त्यजेत् । कुतः ? यस्मात् कारणात् भरतेनोपभुज्यते भरतेनोपभुक्ततया तेन पुनर्दत्तमपि राज्यं रामस्त्यजेदित्यर्थः । भरतो नोपलक्ष्यत इति पाठान्तरम् । राज्यं कोशं च भरतो जह्यात् इदं तु नोपलक्ष्यते यद्रामः पुनर्भरतदत्तं राज्यं प्रतिगृह्णीयादिति । यद्वा यदि राघवः पुनरेष्यति । तदा भरतः राज्यं कोशं च जह्यादिति नोपलक्ष्यते । करस्थराज्यत्यागस्यासम्भावितत्वादित्यर्थः । भरतो यदि भोक्ष्यत इति च पाठः ॥ 2.61.11 ॥

भोजयन्ति किल श्राद्धे केचित् स्वानेव बान्धवान् ।

ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥ 2.61.12 ॥

तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः ।

न पश्चात्ते ऽभिमन्यन्ते सुधामपि सुरोपमाः ॥ 2.61.13 ॥

भरतेनोपभुक्ततया पुनर्दत्तमपि राज्यं रामो न भोक्ष्यत इत्यत्र दृष्टान्तमाह–भोजयन्तीत्यादिना । किलेति वार्तायाम् । लोके केचित् ब्राह्मणाः विद्यागुण वयोभ्यधिकेषु विप्रेषु विद्यमानेषु दक्षिणाविशेषप्रापणलोभेन स्वानेव बान्धवान् श्राद्धे भोजयन्ति । ततः पश्चात्तदनन्तरं कृतकार्याः कृतश्राद्धकार्य्याः सन्दः श्राद्धावसाने द्विजर्षभान् पूर्वभुक्तविप्रापेक्षया विद्यावृत्तवयोभिः श्रेष्ठान् समीक्षन्ते इष्टपङ्क्तौ भोजयितुमिच्छन्ति । तत्र तदानीं ये गुणवन्तः वृत्तवन्तो विद्वांसः विद्यावन्तः सुरोपमाः देववत्पूज्यतमाः वृद्धाः द्विजातयः ते पश्चादिष्टपङ्क्तौ सुधामपि अमृततुल्यान्नमपि नाभिमन्यन्ते नाद्रियन्ते ॥ 2.61.1213 ॥

ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुं द्विजर्षभाः ।

नाभ्युपैतुमलं प्राज्ञाः शृङ्गच्छेदमिवर्षभाः ॥ 2.61.14 ॥

ननु कुतो नाद्रियन्ते ब्राह्मणशेषभोजने शूद्रशेषवन्निषेधाभावादित्यत्राह–ब्राह्मणेष्वित्यादिना ।

तृप्तेष्वपि ब्राह्मणेषु पूर्वभक्तानां ब्राह्मणत्वेपीत्यर्थः । प्राज्ञाः द्विजर्षभाः ऋषभाः श्रृङ्गच्छेदमिव निजावमानहेतुं पश्चाद्भोक्तुमिच्छाम् अभ्युपैतुम् नालम्, न क्षमन्त इत्यर्थः । यद्वा श्रृङ्गमग्रं श्रृङ्गे च्छेदो यस्य तत् श्रृङ्गच्छेदं छिन्नाग्रं तृणम् । यथा वृषभा वृषभान्तरजग्धाग्रं तृणं भोक्तुं नालम्, तद्वदित्यर्थः । श्रृङ्गच्छेदमिति वृषभभक्षिताग्रतृणनामेत्यप्याहुः ॥ 2.61.14 ॥

एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते ।

भ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमंस्यते ॥ 2.61.15 ॥

उक्तमर्थं दार्ष्टान्तिके योजयति–एवमित्यादिना । एवं पूर्वोक्तद्विजर्षभवत् । कनीयसा कनिष्ठेन । विशांपते हे

प्रजानाथ वरिष्ठः गुणैः श्रेष्ठः । किमर्थं नावमंस्यते कस्मैप्रयोजनाय न तिरस्करिष्यति । सर्वात्मना तिरस्करिष्यत्येवेत्यर्थः ॥ 2.61.15 ॥

न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति ।

एवमेव नरव्याघ्रः परलीढं न मन्यते ॥ 2.61.16 ॥

न परेणेति । परेण अन्येन वृकगोमाय्वादिना आहृतं भक्षितशेषत्वेनानीतम् । परलीढं परेणास्वादितम् । परभुक्तशेषमिति यावत् । न मन्यते न बहुमन्यते ॥ 2.61.16 ॥

हविराज्यं पुरोडाशः कुशा यूपाश्च खादिराः ।

नैतानि यातयामानि कुर्वन्ति पुनरध्वरे ॥ 2.61.17 ॥

हविरिति । हविः चरुप्रमुखम्, पुरोडाशाः पिष्टादिविकाराः । खादिरा इत्येतत् पालाशादीनामुपलक्षणम् । यातयामानि परिभुक्तानि यागे विनियुक्तानीति यावत् । “जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्” इत्यमरः । अध्वरे यागान्तरे । पुनर्न कुर्वन्ति न विनियुञ्जते । “मन्त्राः कृष्णाजिनं दर्भाः” इत्याद्ययातयामत्वबोधकवचनेषु दर्भादिशब्दाः कुशादिव्यतिरिक्तपराः ॥ 2.61.17 ॥

तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव ।

नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम् ॥ 2.61.18 ॥

तथेति । आत्तम् उपभुक्तपूर्वम् । हृतसारां गृहीतसारांशाम् । अभिमन्तुम् अभिलषितुम् । नष्टसोममिवाध्वरमिति अन्येन सोमपाने कृते सत्ररूपमध्वरं तदक्षमतायां यथान्यो नाभिलषति तद्वदित्यर्थः ॥ 2.61.18 ॥

नैवंविधमसत्कारं राघवो मर्षयिष्यति ।

बलवानिव शार्दूलो वालधेरवमर्शनम् ॥ 2.61.19 ॥

नैवंविधमिति । वालधेः पुच्छस्य अवमर्शनम् अवमत्यस्पर्शनम् ॥ 2.61.19 ॥

नैतस्य सहिता लोका भयं कुर्युर्महामृधे ।

अधर्मं त्विह धर्मात्मा लोकं धर्मेण योजयेत् ॥ 2.61.20 ॥

ननु वयं किं कुर्मः पौरुषधर्मबलाभ्यां हीनः स्वयमेव गत इत्यत्राह–नैतस्येति । सहिताः मिलिताः लोकाः चतुर्दशभुवनस्थाः सुरासुरादयः । महामृधे महायुद्धे । एतस्य रामस्य भयं न कुर्युः, भयं कर्तुं न शक्नुयुरित्यर्थः । किन्तु अधर्मम् अधर्ममार्गस्थं लोकं जनं धर्मेण योजयेत् । “चातुर्वर्ण्यञ्च लोके ऽस्मिन् स्वेस्वे धर्मे नियोक्ष्यति” इत्युक्तो रामः स्वयमधर्मं कथं कुर्यादित्यर्थः ॥ 2.61.20 ॥

नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः ।

युगान्त इव भूतानि सागरानपि निर्दहेत् ॥ 2.61.21 ॥

नन्विति । युगान्तः युगान्तकालः । भूतानि पञ्चमहाभूतानि ॥ 2.61.21 ॥

स तादृशः सिंहबलो वृषभाक्षो नरर्षभः ।

स्वयमेव हतः पित्रा जलजेनात्मजो यथा ॥ 2.61.22 ॥

स तादृश इति । तादृशः अवाङ्मनसगोचरपराक्रमयुक्तः । जलजेन मत्स्येन । मत्स्यो ह्यात्मजानेव भक्षयतीति प्रसिद्धम् ॥ 2.61.22 ॥

द्विजातिचरितो धर्मः शास्त्रदृष्टः सनातनः ।

यदि ते धर्मनिरते त्वया पुत्रे विवासिते ॥ 2.61.23 ॥

इयता प्रबन्धेनोक्तमुपसंहरति–द्विजातिचरित इति । धर्मनिरते पुत्रे त्वया विवासिते सति । द्विजातिचरितः शिष्टत्रैवर्णिकाचरितः शास्त्रदृष्टः सनातनो धर्मः ते यदि अस्ति किमित्यर्थे ऽव्ययमिदम् ॥ 2.61.23 ॥

गतिरेका पतिर्नार्या द्वितीया गतिरात्मजः ।

तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते ॥ 2.61.24 ॥

एवं राजकृतानीत्या स्वहानिमाह–गतिरित्यादि । एका मुख्या, प्रथमेत्यर्थः । द्वितीया भर्त्रभावो गतिरित्यर्थः । ज्ञातयः पित्रादयः तृतीया भर्तृपुत्राभावे गतिरित्यर्थः । चतुर्थी स्वातन्त्र्यरूपा । तथाच स्मृतिः “पिता रक्षति कौमारे भर्ता रक्षति यौवने । वार्द्धके तनयो रक्षेन्न स्त्री स्वातन्त्र्यमर्हति ॥” इति ॥ 2.61.24 ॥

तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः ।

न वनं गन्तुमिच्छामि सर्वथा निहता त्वया ॥ 2.61.25 ॥

तत्रेति । तत्र तासुगतिषु त्वं भर्ता न भवसि, सपत्नीपरतन्त्रत्वात् । मे ज्ञातिरपि नास्ति । दूरस्थत्वादिति भावः । न वनं गन्तुमिच्छामि सभर्तृकत्वात् । निहता अस्मीति शेषः ॥ 2.61.25 ॥

हतं त्वया राज्यमिदं सराष्ट्रंहतस्तथात्मा सह मन्त्रिमिश्च ।

हता सपुत्रास्मि हताश्च पौराः सुतश्च भार्या च तव प्रहृष्टौ ॥ 2.61.26 ॥

न केवलमहमेका हता अन्येपीत्याह–हतमिति । राज्यं कोसलराज्यम् । राष्ट्राणि अन्यानित्वन्मित्रपालितानि । सुतः भरतः । तत्रैव तव सुताभिमानात् । भार्या कैकेयी, तद्वचनकरणात् ॥ 2.61.26 ॥

इमां गिरं दारुणशब्दसंश्रितां निशम्य राजापि मुमोह दुःखितः ।

ततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस्तदा स्मरन् ॥ 2.61.27 ॥

इमामिति । प्रविवेश तत्र मग्न इत्यर्थः । दुष्कृतं स्मरन् एतादृशदुःखस्य निदानभूतं किं कर्म पूर्वं कृतमिति स्मरन्नित्यर्थः ॥ 2.61.27 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे एकषष्टितमः सर्गः ॥ 61 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकषष्टितमः सर्गः ॥ 61 ॥