श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टपञ्चाशः सर्गः
प्रत्याश्वस्तो यदा राजा मोहात् प्रत्यागतः पुनः ।
अथाजुहाव तं सूतं रामवृत्तान्तकारणात् ॥ 2.58.1 ॥
प्रत्यागतः सूतस्याभिमुखागतः ॥ 2.58.1 ॥
अथ सूतो महा राजं कृताञ्जलिरुपस्थितः ।
राममेवानुशोचन्तं दुःखशोकसमन्वितम् ॥ 2.58.2 ॥
वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम् ।
विनिश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम् ॥ 2.58.3 ॥
अथेत्यादिश्लोकद्वयमेकं वाक्यम् । नवग्रहं सद्यो गृहीतम् । अस्वस्थं व्याधिग्रस्तम् ॥ 2.58.23 ॥
राजा तु रजसा धूतं ध्वस्ताङ्गं समुपस्थितम् ।
अश्रुपूर्णमुखं दीनमुवाच परमार्तवत् ॥ 2.58.4 ॥
रजसा ध्वस्ताङ्गं धूसरिताङ्गम् । धूमं कम्पितम् । परमार्तवत् परमार्त इव, दीन इत्यर्थः ॥ 2.58.4 ॥
क्वनु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः ।
सो ऽत्यन्तसुखितः सूत किमशिष्यति राघवः ॥ 2.58.5 ॥
पूर्वसर्गे यथोक्तमित्युक्तं विवरीतुं प्रश्नमवतारयति–क्वनु वत्स्यतीत्यादिना ॥ 2.58.5 ॥
दुःखस्यानुचितो दुःखं सुमन्त्रशयनोचितः ।
भूमिपालात्मजो भूमौ शेते कथमनाथवत् ॥ 2.58.6 ॥
यं यान्तमनुयान्ति स्म पदातिरथकुञ्जराः ।
स वत्स्यति कथं रामो विजनं वनमाश्रितः ॥ 2.58.7 ॥
दुःखमित्येतत् क्रियाविशेषणम् । शयनोचितः महार्हशयनोचितः ॥ 2.58.67 ॥
व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम् ।
कथं कुमारौ वैदेह्या सार्द्धं वनमुपस्थितौ ॥ 2.58.8 ॥
सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया ।
राजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ ॥ 2.58.9 ॥
सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ ।
वनान्तं प्रविशन्तौ तावश्विनाविव मन्दरम् ॥ 2.58.10 ॥
किमुवाच वचो रामः किमुवाच च लक्ष्मणः ।
सुमन्त्र वनमासाद्य किमुवाच च मैथिली ॥ 2.58.11 ॥
व्यालैरजगरादिभिः । मृगैः सिंहव्याघ्रादिदुष्टमृगैः । उपस्थितौ उपाश्रितौ । आसितमित्यादौ भावे निष्ठा ॥ 2.58.811 ॥
आसितं शयितं भुक्तं सूत रामस्य कीर्तय ।
जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥ 2.58.12 ॥
आसितं आसनम् । शायितं शयनम् । भुक्तं भोजनं च कीर्तया एतेन रामसम्बन्ध्यासनादिकीर्तनेन अहं साधुषु
ययातिरिव जीविष्यामि । ययातिः सत्सुपतेयमितीन्द्रं प्रार्थ्य स्वर्गाद्भ्रष्टः साधुसमागमं प्राप्य यथा निवृत्तदुःखो ऽभूत् तद्वदहमपि निवृत्तदुःखो भविष्यामीत्यर्थः ॥ 2.58.12 ॥
इति सूतो नरेन्द्रेण चोदितः सज्जमानया ।
उवाच वाचा राजानं सबाष्परिरब्धया ॥ 2.58.13 ॥
अब्रवीन्मां महाराज धर्ममेवानुपालयन् ।
अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च ॥ 2.58.14 ॥
इतीति । बाष्पपरिरब्धया कण्ठगतबाष्परुद्धयेत्यर्थः । अत एव सज्जमानया स्खलन्त्या “षस्ज गतौ” इति धातुः । धातोरनेकार्थत्वादत्र स्खलनार्थकः ॥ 2.58.1314 ॥
सूत मद्वचनात्तस्य तातस्य विदितात्मनः ।
शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥ 2.58.15 ॥
सूतेति । वन्द्यौ वन्दनीयौ ॥ 2.58.15 ॥
सर्वमन्तःपुरं वाच्यं सूत मद्वचनात्त्वया ।
आरोग्यमविशेषेण यथार्हं चाभिवादनम् ॥ 2.58.16 ॥
अन्तःपुरम् आरोग्यमभिवादनं च वाच्यम् । ब्रूञो द्विकर्मकत्वादप्रधानकर्मण्यन्तःपुरे प्रथमा । कृताभिहितत्वात् । एवमुत्तरश्लोके ऽपि ॥ 2.58.16 ॥
माता च मम कौसल्या कुशलं चाभिवादनम् ।
अप्रमादं च वक्तव्या ब्रूयाश्चैनामिदं वचः ॥ 2.58.17 ॥
अप्रमादं धर्मे भर्त्तरि च । इदं वक्ष्यमाणम् ॥ 2.58.17 ॥
धर्म्मनित्या यथाकालमग्न्यगारपरा भव ।
देवि देवस्य पादौ च देववत् परिपालय ॥ 2.58.18 ॥
अभिमानञ्च मानञ्च त्यक्त्वा वर्त्तस्व मातृषु ।
अनु राजानमार्यां च कैकेयीमम्बकारय ॥ 2.58.19 ॥
कुमारे भरते वृत्तिर्वर्त्तितव्या च राजवत् ।
अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥ 2.58.20 ॥
अभिमानं गर्वं “गर्वो ऽभिमानो ऽहङ्कारः” इत्यमरः । कुलाभिमानमित्यर्थः । मानः चित्तसमुन्नतिः । जेष्ठपत्नीत्वनिबन्धना चित्तसमुन्नतिमित्यर्थः । अनु राजानमार्यां च कारय, अनुकारयेत्यर्थः । “व्यवहिताश्च” इति व्यवहितप्रयोगः । अन्विति तुल्यार्थे । “पश्चात्सादृश्ययोरनु” इत्यमरः । राजानं कैकेयीं च तुल्यमनुवर्तस्वेत्यर्थः । राजवत् राज्ञीव । वृत्तिर्वर्तितव्या, उपचारः कर्तव्य इत्यर्थः । अर्थज्येष्ठाः अर्थेनैव ज्येष्ठाः न तु वयसेत्यर्थः ॥ 2.58.1820 ॥
भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च ।
सर्वास्वेव यथान्यायं वृत्तिं वर्त्तस्व मातृषु ॥ 2.58.21 ॥
भरत इति । भरतः कुशलं वाच्यः, त्वयेति शेषः । वाच्यो मद्वचनेन च मयोक्तमित्यपि वाच्य इत्यर्थः । यद्वा भरतो मद्वचनेन कुशलं वाच्यः । सर्वास्वेव मातृषु । यथान्यायं यथाक्रमम् । वृत्तिं वर्तस्व वृत्तिं कुरु, शुश्रूषस्वेत्यर्थः । इति वाच्यश्चेति द्वितीयवाच्यपदान्वयः ॥ 2.58.21 ॥
वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनन्दनः ।
पितरं यौवराज्यस्थो राज्यस्थमनुपालय ॥ 2.58.22 ॥
अतिक्रान्तवया राजा मा स्मैनं व्यवरोरुधः ।
कुमारराज्ये जीव त्वं तस्यैवाज्ञाप्रवर्तनात् ॥ 2.58.23 ॥
वक्तव्य इति । राज्यस्थं प्रधानराज्यस्थम् । मा व्यवरोरुधः अवरुद्धं मा कार्षीः । अतिक्रान्तवयस्कत्वादिति तत्र हेतुः । कुमारराज्ये यौवराज्ये । जीवभोगान् भुङ्क्ष्वेत्यर्थः । इति च वक्तव्य इत्यन्वयः ॥ 2.58.2223 ॥
अब्रवीच्चापि मां भूयो भृशमश्रूणि वर्तयन् ।
मातेव मम माता ते द्रष्टव्या पुत्रगर्द्धिनी ॥ 2.58.24 ॥
इत्येवं मां महाराज ब्रुवन्नेव महायशाः ।
रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत् ॥ 2.58.25 ॥
अब्रवीदिति । अश्रूणि वर्तयन् करिष्यमाणमातृविषयपीडस्मरणादिति हृदयम् । स्वस्य मातृविषयशुश्रूषाया अलाभाद्वा अश्रुवर्तनम् । मम माता स्वमातेव त्वया द्रष्टव्या इति भरतमुद्दिश्य मां ब्रुवन्नेव भृशमश्रूण्यवर्त्तयत् । शोकजनितरक्तिमानमाह राजीवताम्राक्ष इति । अनन्तरमश्रुमोचनं ततो वक्तव्यस्यानुचितत्वात्, अमुमाशयमुत्तरत्र सीतापहरणानन्तरमुद्घाटयिष्यति ‘सुप्तप्रमत्तकुपितानां वचनैर्भावज्ञानं द्रष्टव्यम्’ इति न्यायेन ॥ 2.58.2425 ॥
लक्ष्मणस्तु सुसंक्रुद्धो निश्वसन् वाक्यमब्रवीत् ।
केनायमपराधेन राजपुत्रो विवासितः ॥ 2.58.26 ॥
लक्ष्मणस्त्विति । तुशब्देन रामवन्न सर्वथा हृदयं जुगोपेत्युक्तम् ॥ 2.58.26 ॥
राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् ।
कृतं कार्य्यमकार्यं वा वयं येनाभिपीडिताः ॥ 2.58.27 ॥
राज्ञेति । येन विवासनेन वयमभिपीडिताः तद्विवासनम् अकार्यं तु अकार्यमेव । राज्ञा तु कैकेय्याः लघु शासनमाश्रित्य कार्यं वा कार्यमिव कृतं खलु । यद्वा राज्ञा खलु लघु तुच्छं कैकेय्याः शासनमाश्रित्याकार्यमेव कार्यं कृतम्, येन कार्येण वयमभिपीडिताः ॥ 2.58.27 ॥
यदि प्रव्राजितो रामो लोभकारणकारितम् ।
वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् ॥ 2.58.28 ॥
प्रतिज्ञातार्थप्रदानस्य कथमकार्यत्वम् ? तत्राह–यदीति । रामः प्रव्राजितो यदि प्रव्राजित इति यत् । एतत् लोभकारणकारितं वरदाननिमित्तं वा कैकेय्याः प्रतिश्रुतवरदाननिमित्तं वा । सर्वथा दुष्कृतं कृतम्, वरदानसमये वरद्वयस्य भरताभिषेकरामनिष्कासनरूपेण विनियोगाभावात् । यदिशब्दस्वारस्यानुरोधेनेत्थं वा योजनीयम्–लोभकारणकारितमिति क्रियाविशेषणम् । रामः लोभकारणकारितं वा वरदाननिमित्तं वापि यदि प्रव्राजितः तथापि सर्वथा दुष्कृतम् अकार्यं राज्ञा कृतम्, न राज्यं दास्यामीति प्रतिज्ञातुं शक्यत्वात् ज्येष्ठपुत्रविवासनस्यानुचितत्वाच्चेति भावः । “न त्वेकपुत्रं दद्यान्नत्वेव ज्येष्ठपुत्रम्” इति हि स्मर्यते । लोभकारणकारित इति पाठे–रामविशेषणम् । लोभरूपकारणेन प्रेरित इत्यर्थः ॥ 2.58.28 ॥
इदं तावद्यथाकाममीश्वरस्य कृते कृतम् ।
रामस्य तु परित्यागे न हेतुमुपलक्षये ॥ 2.58.29 ॥
इदमिति । रामस्य परित्यागे हेतुं नोपलक्षये, किन्तु ईश्वरस्य कृते स्वतन्त्रव्यापारे स्थितेन राज्ञेति शेषः । इदं रामप्रव्राजनं यथाकामं तावत् यथेच्छमेव कृतम् । यद्वा इदं रामविवासनम् ईश्वरस्य कृत ईश्वरप्रयोजनाय । यथाकामं कृतं केवलमीश्वरप्रेरणेन शास्त्रमनवेक्ष्य कृतमित्यर्थः । हि यस्माद्रामस्य परित्यागे हेतुं नोपलक्षये । परित्यागहेतुदोषसद्भावे हि पुत्रविवासनं शास्त्रीयं स्यात् । अयं चोपसंहारश्लोकः ॥ 2.58.29 ॥
असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात् ।
जनयिष्यति सङ्क्रोशं राघवस्य विवासनम् ॥ 2.58.30 ॥
यथेष्टकरणं चेत् कथमनुतप्तवान् राजेत्यत्राह–असमीक्ष्येति । विरुद्धम् अत एव असमीक्ष्य अनालोच्य बुद्धिलाघवात् समारब्धं कृतम् । राघवस्य विवासनं संक्रोशं दुःखम् । जनयिष्यति जनयति, अतो राज्ञोनुताप इति भावः ॥ 2.58.30 ॥
अहं तावन्महाराजे पितृत्वं नोपलक्षये ।
भ्राता भर्त्ता च बन्धुश्च पिता च मम राघवः ॥ 2.58.31 ॥
पिता कथं निन्द्य इत्यत्राह–अहमिति । ‘गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ॥’ इति वचनादिति भावः। भ्राता राघव एव मम पिता “ज्येष्ठो भ्राता पितृसमः” इत्युक्तेः। तस्य पितृत्वाभावेपि भर्तृत्वमस्त्येवेत्याशङ्क्याह भर्ता चेति। स्वामीत्यर्थः। किं बहुना बन्धुः सर्वविधोऽपि राघव एव। एतेन परमैकान्तिभिः प्राकृत पित्रादयः परित्याज्याः भगवानेव निरुपाधिकः पिता भर्ता बन्धुश्चेत्युक्तं भवति ॥ 2.58.31 ॥
सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् ।
सर्वलोको ऽनुरज्येत कथं त्वा ऽनेन कर्मणा ॥ 2.58.32 ॥
कथं मुख्यं पितरं विहाय गौणमनुवर्तसे ? तत्राह–सर्वलोकप्रियमिति । अनेन कर्मणा प्रियपुत्रप्रव्राजनरूपक्रूरकर्मणा । सर्वलोकहिते रतं सर्वलोकप्रियं रामं त्यक्त्वा अनेन कर्मणोपलक्षितं सर्वलोकाहिते रतं सर्वलोकाप्रियमित्यर्थः । त्वा त्वां प्रति । सर्वलोकः कथमनुरज्येत ?
कश्चिद्भरततुल्यो ऽनुरज्यताम्, नतु सर्वोपीति भावः । सर्वलोकनिरुपाधिकबन्धुं त्यक्त्वा सोपाधिकबन्धुं त्वां कथमाश्रयेयमिति हृदयम् ॥ 2.58.32 ॥
सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्म्मिकम् ।
सर्वलोकं विरुद्ध्येमं कथं राजा भविष्यसि ॥ 2.58.33 ॥
अनेनेत्युक्तं प्रपञ्चयति–सर्वप्रजाभिराममिति । कथं राजा भविष्यसीत्येवं राजानं ब्रूहीत्यब्रवीदिति पूर्वेणान्वयः । सुमन्त्रप्रेषणवेलायां लक्ष्मणादिवाक्याश्रवणेप्यत्र सिद्धवदनुवादसामर्थ्यात् तदानीमेवमुक्तमित्यवगन्तव्यम् ॥ 2.58.33 ॥
जानकी तु महाराज निश्वसन्ती मनस्विनी ।
भूतोपहतचित्तेव विष्ठिता विस्मिता स्थिता ॥ 2.58.34 ॥
जानकी त्विति । तुशब्देन लक्ष्मणाद्वैषम्यमुच्यते । लक्ष्मणो रामशोकविकारमालक्ष्य हृदयनिहितं वचसोद्घाटितवान् । सीता तु न तथेति मयोच्यमानं सीताशोकानुभावमाकार्ण्य क्षुब्धहृदयेन त्वया न भवितव्यमिति द्योतयितुं महाराजेति सम्बोधनम् । हृदयस्थशोकातिरेकेण । निश्वसन्ती मनस्विनी गम्भीरमनस्का । भूतोपहतचित्तेव विष्ठिता स्तिमिता । विस्मिता विस्मितेवोत्फुल्लनयना स्थिता ॥ 2.58.34 ॥
अदृष्टपूर्वव्यसमा राजपुत्री यशस्विनी ।
तेन दुःखेन रुदती नैव मां किञ्चिदब्रवीत् ॥ 2.58.35 ॥
अदृष्टपूर्वव्यसनेति । अदृष्टपूर्वव्यसना अननुभूतपूर्वव्यसना । तत्र हेतुः राजपुत्रीति । यशस्विनीति तदानीमप्यनुदितकैकेयीनिन्दात्वेन कीर्तिमती । तेन दुःखेन भर्तृदुःखदर्शनजदुःखेन । रुदती रोदनानुभाववती सती मां किञ्चिदपि नैवाब्रवीत्, केनचित्सम्भाषणस्याप्यसह्यत्वात् ॥ 2.58.35 ॥
उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता ।
मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा ॥ 2.58.36 ॥
तथैव रामो ऽश्रुमुखः कृताञ्जलिः स्थितोभवल्लक्ष्मणबाहुपालितः ।
तथैव सीता रुदती तपस्विनी निरीक्षते राजरथं तथैव माम् ॥ 2.58.37 ॥
उद्वीक्षमाणेति । ततो भर्तारमश्रुमुखमुद्वीक्षमाणा सती परिशुष्यता मुखेन उपलक्षिता मां प्रयान्तमुद्वीक्ष्य सहसा बाप्पं मुमोच । रथे गते कथं पद्भ्यामेव क्रूरं कान्तारं चरिष्यति राम इति हृदयं धारयितुमशक्ता अश्रूणि मुमोचेत्यर्थः ॥ 2.58.3637 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥ 58 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥ 58 ॥