श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तपञ्चाशः सर्गः
कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह ।
रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः ॥ 2.57.1 ॥
एवं रामस्य चित्रकूटगमनपर्यन्तवृत्तान्तमभिधाय गुहसुमन्त्रादिवृत्तान्तमृषिः प्रस्तौति–कथयित्वेति । गुहो रामे दक्षिणकूलस्थे सति सुदुःखार्त्तस्सन् सुमन्त्रेण सह चिरं कथयित्वा यावद्रामो ऽक्षिपथमतिक्रामति तावत्पर्यन्तं तत्रैव स्थित्वा रामगुणान् कथयित्वेत्यर्थः । स्वगृहं जगाम तेन सह स्वगृहं जगामेत्यर्थः ॥ 2.57.1 ॥
भरद्वाजाभिगमनं प्रयागे च सहासनम् ।
आगिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम् ॥ 2.57.2 ॥
भरद्वाजाभिगमनमिति । तेषां रामादीनाम् । भरद्वाजाभिगमनं भरद्वाजसेवनम् । प्रयागे भरद्वाजेन सहासनम् । आगिरेश्चित्रकूटपर्यन्तं गमनं च तत्रस्थैः श्रृङ्गिबेरपुरस्थैश्चारैरभिलक्षितं निवेदितम्, सुमन्त्रेण सम्यग्विदितमित्यर्थः । गङ्गोत्तरणदिवसनिशा वनस्पतिमूले, द्वितीया भरद्वाजाश्रमे, तृतीया यमुनातीरे, चतुर्थे ऽहनि चित्रकूटगमनम्, पञ्चमे पुनरागम्य चारैर्निवेदनम् ॥ 2.57.2 ॥
अनुज्ञातः सुमन्त्रो ऽथ योजयित्वा हयोत्तमान् ।
अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥ 2.57.3 ॥
अनुज्ञात इति । अथ रामवृत्तान्तश्रवणानन्तरम् । अनुज्ञातः, गुहेनेति शेषः । गाढदुर्मनाः अत्यन्तदुर्मनाः ॥ 2.57.3 ॥
स वनानि सुगन्धीनि सरितश्च सरांसि च ।
पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च ॥ 2.57.4 ॥
स वनानीति । ग्रामाणि ग्रामान् ॥ 2.57.4 ॥
ततः सायाह्नसमये तृतीये ऽहनि सारथिः ।
अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ॥ 2.57.5 ॥
स शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः ।
सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः ॥ 2.57.6 ॥
कच्चिन्न सगजा साश्वा सजना सजनाधिपा ।
रामसन्तापदुःखेन दग्धा शोकाग्निना पुरी ॥ 2.57.7 ॥
तत इति । ततः ग्रामनगरातिक्रमणानन्तरम् । तृतीये ऽहनि श्रृङ्गिबेरपुरान्निर्गमापेक्षया तृतीयादिवसे । यद्वा अहनि तृतीये सायाह्नसमये । अह्नः तृतीयकालभूते सायाह्नकाले । अयोध्यां समनुप्राप्य निरानन्दां तां ददर्श ॥ 2.57.57 ॥
इति चिन्तापरः सूतो वाजिभिः शीघ्रपातिभिः ।
नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥ 2.57.8 ॥
सुमन्त्रमभियान्तं तं शतशो ऽथ सहस्रशः ।
क्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः ॥ 2.57.9 ॥
इतीति । त्वरितः प्रविवेश । नगरं जनसञ्चारशून्यं निःशब्दं वर्त्तते । राजा कामवस्थां प्राप्त इति ज्ञातुं त्वरितः प्रविष्टवानित्यर्थः ॥ 2.57.89 ॥
तेषां शशंस गङ्गायामहमापृच्छ्य राघवम् ।
अनुज्ञातो निवृत्तो ऽस्मि धार्म्मिकेण महात्मना ॥ 2.57.10 ॥
तेषामिति । गङ्गायां गङ्गातीरे । निवृत्तो ऽस्मीति तेषां शशंसेति सम्बन्धः ॥ 2.57.10 ॥
ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः ।
अहो धिगिति निश्वस्य हा रामेति च चुक्रुशुः ॥ 2.57.11 ॥
त इति । ते रामादयः ॥ 2.57.11 ॥
शुश्राव च वचस्तेषां वृन्दंवृन्दं च तिष्ठताम् ।
हताः स्म खलु येनेह पश्याम इति राघवम् ॥ 2.57.12 ॥
शुश्रावेति । वृन्दंवृन्दं च तिष्ठतां सङ्घशः तिष्ठताम् । हता इति ये वयम् इह अस्मिन् रथे राघवं न पश्यामः इति अस्माद्धेतोः ते हताः स्मेति सम्बन्धः ॥ 2.57.12 ॥
दानयज्ञविवाहेषु समाजेषु महत्सु च ।
न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा ॥ 2.57.13 ॥
दानयज्ञविवाहेष्विति । दानादिषु अन्तरा मध्ये नायकमणिवत् वर्तमानं रामम् पुनः जातु कदाचिदपि न द्रक्ष्यामः किमिति काकुः । येन केनापि दाने क्रियमाणे रामः स्वयं तत्र गत्वा तिष्ठति । किमर्थम् ? देशे काले पात्रे च दापयितुम् । यज्ञेपि गच्छति । किमर्थम् ? न्यायार्जितधनैः कारयितुं तत्तत्कर्मसन्देहविच्छेदविस्मृतज्ञापनादिकं कर्तुं च । विवाहे च मध्ये गच्छति । किमर्थम् ? उभयवर्गसङ्घटनायासंमतानामभिमतद्रविणप्रदानाय अस्खलितं कर्मणामनुष्ठापनाय च । समाजेषु महत्सु अन्यत्रापि महासदस्सु, दीर्घसत्रेष्वपीत्यर्थः । यत्रकुत्राप्यदृष्टकार्येष्विति वा । अत्र सर्वत्र हेतुर्धार्मिकमिति ॥ 2.57.13 ॥
किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् ।
इति रामेण नगरं पितृवत्परिपालितम् ॥ 2.57.14 ॥
किमिति । अस्य जनस्य किं समर्थं किं क्षेमंकरं वस्तु किं प्रियं किं सुखावहमिति, रामेण तत्तदभिमतवस्तुप्रदात्रा रामेण पित्रेव नगरं परिपालितम् । नगरशब्देन नगरस्थजना लक्ष्यन्ते । इति वचः शुश्रावेति पूर्वेण सम्बन्धः ॥ 2.57.14 ॥
वातायनगतानां च स्त्रीणामन्वन्तरापणम् ।
रामशोकाभितप्तानां शुश्राव परिदेवनम् ॥ 2.57.15 ॥
वातायनगतानामिति । अन्वन्तरापणं शुश्राव । उभयपार्श्वस्थानामापणानां मध्येमध्ये शुश्रावेत्यर्थः । विभक्त्यर्थे ऽव्ययीभावः ॥ 2.57.15 ॥
स राजमार्गमध्येन सुमन्त्रः पिहिताननः ।
यत्र राजा दशरथस्तदेवोपययौ गृहम् ॥ 2.57.16 ॥
स राजमार्गमध्येनेति । पिहिताननः जनदर्शनाक्षमतया ॥ 2.57.16 ॥
सो ऽवतीर्य्य रथाच्छीघ्रं राजवेश्म प्रविश्य च ।
कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः ॥ 2.57.17 ॥
सो ऽवतीर्येति । राजनिर्गमाभावेन महाजनसङ्कुलत्वम् ॥ 2.57.17 ॥
हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् ।
हाहाकार कृता नार्यो रामादर्शनकर्शिताः ॥ 2.57.18 ॥
हर्म्यैरिति । हर्म्यैर्धनिनां वासैः । विमानैः सप्तभूमिगृहैः । “विमानो ऽस्त्री देवयाने सप्तभूमिगृहे ऽपि च” इति वैजयन्ती । प्रासादैः महाराजार्हगृहविशेषैः । उपलक्षिताः नार्यः समागतं रामेण विना समागतं सुमन्त्रमवेक्ष्य हाहाकारकृताः कृत हाहाकाराः, बभूवुरिति शेषः ॥ 2.57.18 ॥
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।
अन्योन्यमभिवीक्षन्ते ऽव्यक्तमार्ततराः स्त्रियः ॥ 2.57.19 ॥
ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः ।
रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ॥ 2.57.20 ॥
आयतैरिति । अव्यक्तम् अस्पष्टमिति क्रियाविशेषणम् ॥ 2.57.1920 ॥
सह रामेण निर्यातो विना राममिहागतः ।
सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ॥ 2.57.21 ॥
यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् ।
आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ 2.57.22 ॥
सत्यरूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् ।
प्रदीप्त इव शोकेन विवेश सहसा गृहम् ॥ 2.57.23 ॥
सह रामेणेत्यादिश्लोकत्रयमेकं वाक्यम् । यत्रेति । विभक्तिप्रतिरूपको निपातः प्रथमार्थे वर्त्तते । यथा “क इत्था वेद यत्र सः” इत्यत्र यथा येन प्रकारेण । अस्मज्जीवितं दुर्जीवं दुःखेन जीवनार्हं मन्ये, एवमेव कौसल्या, पुत्रे निर्याते सति आच्छिद्य प्रसह्य जीवति यत्र जीवतीति यत् तत् न सुकरं दुस्सम्पादं ध्रुवं मन्य इत्येकैकव्यक्त्यपेक्षया एकवचनम्, विभक्तिप्रतिरूपकमव्ययं वा । निशामयन् निशमयन् । दीर्घश्छान्दसः । श्रृण्वन्नित्यर्थः ॥ 2.57.2123 ॥
स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम् ।
पुत्रशोकपरिद्यूनमपश्यत् पाण्डरे गृहे ॥ 2.57.24 ॥
अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च ।
सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥ 2.57.25 ॥
स प्रविश्येति । परिद्यूनं क्षीणम् । “दिवो विजिगीषायाम्” इति निष्ठानत्वम् । पाण्डर इति विशेषणाद्राजलक्ष्मीर्नास्तीत्युच्यते ॥ 2.57.2425 ॥
स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्तचेतनः ।
मूर्च्छितो न्यपतद्भूमौ रामशोकाभिपीडितः ॥ 2.57.26 ॥
स तूष्णीमिति । तूष्णींभावे हेतुः विभ्रान्तचेतन इति ॥ 2.57.26 ॥
ततो ऽन्तःपुरमाविद्धं मूर्च्छिते पृथिवीपतौ ।
उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥ 2.57.27 ॥
सुमित्रया तु सहिता कौसल्या पतितं पतिम् ।
उत्थापयामास तदा वचनं चेदमब्रवीत् ॥ 2.57.28 ॥
तत इति । आविद्धं शोकेनाभिहतम्, अभूदिति शेषः । मूर्च्छिते आविद्धमासीत् पतिते बाहू उद्धृत्य चुक्रोशेति विशेषः ॥ 2.57.2728 ॥
इमं तस्य महाभाग दूतं दुष्करकारिणः ।
वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ॥ 2.57.29 ॥
इममिति । दूतं सन्देशहरम् । दुष्करकारिणः दुष्करकार्य्यकारिणः ॥ 2.57.29 ॥
अद्येममनयं कृत्वा व्यपत्रपसि राघव ।
उत्तिष्ठ सुकृतं ते ऽस्तु शोके न स्यात् सहायता ॥ 2.57.30 ॥
अद्येममिति । इममनयं पुत्रविवासनम् । सुकृतं शोभनम् । शोके विषये सहायता न स्यात्, शोकानुवर्तनं मा कृथा इत्यर्थः ॥ 2.57.30 ॥
देव यस्या भयाद्रामं नानुपृच्छसि सारथिम् ।
नेह निष्ठति कैकेयी विस्रब्धं प्रतिभाष्यताम् ॥ 2.57.31 ॥
व्यसनानुशयकृततूष्णींभावे हेत्वन्तरं कल्पयति–देवेति । कैकेयी, सेति शेषः । विस्रब्धं सविश्वासम्, निःशङ्कमिति यावत् ॥ 2.57.31 ॥
सा तथोक्त्वा महाराजं कौसल्या शोकलालसा ।
धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी ॥ 2.57.32 ॥
सेति । बाष्पेण विप्लुतं विलुप्तं सगद्गदं यथा भवति तथा भाषिणी ॥ 2.57.32 ॥
एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि ।
पतिं चावेक्ष्य ताः सर्वाः सुस्वरं रुरुदुः स्त्रियः ॥ 2.57.33 ॥
एवमिति, पतितमिति शेषः ॥ 2.57.33 ॥
ततस्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धास्तरुणाश्च मानवाः ।
स्त्रियश्च सर्वा रुरुदुः समन्ततः पुरं तदासीत् पुनरेव सङ्कुलम् ॥ 2.57.34 ॥
तत इति । समीक्ष्नय श्रुत्वा । पुनरेव सङ्कुलं रामगमनकाल इव व्याकुलमासीत् ॥ 2.57.34 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥ 57 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥ 57 ॥