श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षट्पञ्चाशः सर्गः
अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम् ।
प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः ॥ 2.56.1 ॥
अथेति । अनन्तरं स्वप्रबोधानन्तरम् । अवसुप्तम् ईषत्सुप्तमित्यर्थः ॥ 2.56.1 ॥
सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम् ।
सम्प्रतिष्ठामहे कालः प्रस्थानस्य परन्तप ॥ 2.56.2 ॥
सौमित्र इति । वन्यानां शुकपिकशारिकादीनाम् । वल्गु सुन्दरम् । कालः प्राप्त इति शेषः ॥ 2.56.2 ॥
स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।
जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम् ॥ 2.56.3 ॥
स इति । समये प्रबोधनसमये । तन्द्रीं जाड्यम् । जहौ तदाप्रभृतीति शेषः । पथि श्रमं तत्कृतोपचारमित्यर्थः ॥ 2.56.3 ॥
तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् ।
पन्थानमृषिणा ऽ ऽदिष्टं चित्रकूटस्य तं ययुः ॥ 2.56.4 ॥
ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह ।
सीतां कमलपत्राक्षीमिदं वचनमब्रवीत् ॥ 2.56.5 ॥
तत उत्थायेति । नद्याः कालिन्द्याः । स्पृष्ट्वेत्युपलक्षणं प्रातःकालिकस्नानादिकृत्यानाम्, तं पन्थानं पलाशवनरूपम् ॥ 2.56.45 ॥
आदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान् ।
स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये ॥ 2.56.6 ॥
आदीप्तानिति । आदीप्तानिव आ समन्ताज्ज्वलत इव । नगान् वृक्षान् । स्वैः पुष्पैः मालिनः मालावत इव स्थितान् । शिशिरात्यये वसन्तसमये ॥ 2.56.6 ॥
पश्य भल्लातकान् फुल्लान्नरैरनुपसेवितान् ।
फलत्रैरवनतान्नूनं शक्ष्यामि जीवितुम् ॥ 2.56.7 ॥
पश्येति । भल्लातकान् वीरवृक्षान् । फुल्लान् फुल्लपुष्पान् । अनुपसेवितान् दुर्गमत्वादिति भावः । जीवितुं शक्ष्यामि एवमादिजीवनसाधनस्य विद्यमानत्वादिति भावः ॥ 2.56.7 ॥
पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण ।
मधूनि मधुकारीभिः सम्भृतानि नगेनगे ॥ 2.56.8 ॥
द्रोणप्रमाणानि द्रोणम् आढकद्वयम्, तत्प्रमाणानि तत्प्रमाणमधुपूरितानि । मधूनि कुर्वन्तीति मधुकार्य्यः । कर्म्मण्यण् ङीप् । ताभिः मधुमक्षिकाभिरिति यावत् । सम्भृतानि निर्मितानि । नगेनगे वृक्षेवृक्षे । लम्बमानानि मधूनि मधुपटलानि पश्य ॥ 2.56.8 ॥
एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति ।
रमणीये वनोद्देशे पुष्पसंस्तरसङ्कटे ॥ 2.56.9 ॥
एष इति । नत्यूहः दात्यूहः । नवोद्देशे वनप्रदेशे । पुष्पसंस्तरसङ्कटे पुष्पमयास्तरणेन निबिडे ॥ 2.56.9 ॥
मातङ्गयूथानुसृतं पक्षिसङ्घानुनादितम् ।
चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् ॥ 2.56.10 ॥
समभूमितले रम्ये द्रुमैर्बहुभिरावृते ।
पुण्ये रंस्यामहे तात चित्रकूटस्य कानने ॥ 2.56.11 ॥
ततस्तौ पादचारेण गच्छन्तौ सह सीतया ।
रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् ॥ 2.56.12 ॥
मातङ्गयूथानुसृतमिति । मातङ्गयूथानुसृतं गजकुलैर्व्याप्तम् । प्रवृद्धशिखरम् उन्नतशिखरम् ॥ 2.56.1012 ॥
तं तु पर्वतमासाद्य नानापक्षिगणायुतम् ।
बहुमूलफलं रम्यं सम्पन्नं सरसोदकम् ॥ 2.56.13 ॥
मनोज्ञो ऽयं गिरिः सौम्य नानाद्रुमलतायुतः ।
बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥ 2.56.14 ॥
मुनयश्च महात्मानो वसन्त्यस्मिन् शिलोच्चये ।
अयं वासो भवेत्तावदत्र सौम्य रमेमहि ॥ 2.56.15 ॥
इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः ।
अभिगम्याश्रमं सर्वे वाल्मीकिमभिवादयन् ॥ 2.56.16 ॥
तान् महर्षिः प्रमुदितः पूजयामास धर्मवित् ।
आस्यतामिति चोवाच स्वागतं तु निवेद्य च ॥ 2.56.17 ॥
तं त्वित्यारभ्य अभिवादयन्नित्यन्तमेकं वाक्यम् । तं त्विति । सरसोदकं स्वादूदकम् । स्वाजीवः शोभनः आजीवो जीविका यस्मिन् स तथोक्तः । शिलोच्चये पर्वते । इति इतिनिश्चित्य । आश्रमं वाल्मीकीयम् । अभिवादयन् अभ्यवादयन् । तदानीं चित्रकूटे वाल्मीकेर्वासः, भरतागमनानन्तरमृषिनिर्गमनकथनात्तत्तःप्रभृति तमसातीर इति ज्ञेयम् । अतो न बालकाण्डकथाविरोधः ॥ 2.56.1317 ॥
ततो ऽब्रवीन्महाबाहुर्लक्ष्मणं लक्ष्मणाग्रजः ।
संनिवेद्य यथान्यायमात्मानमृषये प्रभुः ॥ 2.56.18 ॥
लक्ष्मणानय दारूणि दृढानि च वराणि च ।
कुरुष्वावसथं सौम्य वासे मे ऽभिरतं मनः ॥ 2.56.19 ॥
तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान् ।
आजहार ततश्चक्रे पर्णशालामरिन्दमः ॥ 2.56.20 ॥
तत इत्यादिश्लोकद्वयमकं वाक्यम् । यथान्यायं यथाक्रमम् । आत्मानमृषये संनिवेद्य अमुकस्य पुत्रो ऽहम् अयं मद्भ्राता इयं मद्भार्या एतादृशकार्यार्थमागता वयमित्येवमुक्त्वा । वराणि जम्बूप्रभृतीनि गृहनिर्माणार्हाणि । तिन्त्रिणीमधूकादेस्त्याज्यत्वात् । आनय आवसथं कुरुष्वेति लक्ष्मणमब्रवीदिति सम्बन्धः ॥ 2.56.1820 ॥
तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम् ।
शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत् ॥ 2.56.21 ॥
तामिति । निष्ठितां निश्चलां वातादिना चालयितुमशक्यां भित्तिसहितां परिनिष्पन्नाम् । बद्धकटां कुड्यार्थे कल्पितास्तरणां बद्धबाह्यावरणां वा । “कटे वर्षावरणयोः” इति धातुः । सुदर्शनां शोभनदर्शनाम् ।
शुश्रूषमाणं परिचर्यां कुर्वन्तम् । एकाग्रम् इतःपरं किंवा आज्ञापयिष्यतीति सावधानम् ॥ 2.56.21 ॥
ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम् ।
कर्त्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः ॥ 2.56.22 ॥
ऐणेयमिति । ऐणेयम् एणसम्बन्धि । एणाढ्ढञ् आर्षः । शालां शालाधिष्ठात्रीस्तत्तद्दिग्वासिनीर्देवताः । तास्तु ‘शय्यादेशे कामलिङ्गेन देहल्यामन्तरिक्षलिङ्गेन’ इत्यादिनगरखण्डप्रतिपाद्याः । तादृशयागार्थं पूर्वं वास्तुशमनं वास्तुशान्तिः गृहप्रवेशार्हं कर्म कर्तव्यम्, गृहदेशे वर्तमानभूतपिशाचादीनां शमनं कर्तव्यमित्यर्थः । कर्तव्यं चिरजीविभिरित्यनेन अकरणे आयुः क्षयो दर्शितः । तदुक्तं ब्रह्माण्डपुराणे “न च व्याधिभयं तस्य न च बन्धुजनक्षयः । जीवेद् वर्षशतं स्वर्गकल्पमेवं वसेन्नरः ॥” इति ॥ 2.56.22 ॥
मृगं हत्वानय क्षिप्रं लक्ष्मणेह शुभेक्षण ।
कर्त्तव्यः शास्त्रदृष्टो हि विधिर्धर्ममनुस्मर ॥ 2.56.23 ॥
भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा ।
चकार स यथोक्तं च तं रामः पुनरब्रवीत् ॥ 2.56.24 ॥
कथं कर्त्तव्यमित्यपेक्षायामाह कर्त्तव्य इति । शास्त्रदृष्टः शास्त्रेषु निर्णीतः विधिः प्रकारः कर्त्तव्यः । धर्मं तदनुकूलधर्मशास्त्रम् । अनुस्मर अवधेहीत्यर्थः ॥ 2.56.2324 ॥
ऐणेयं श्रपयस्वैतच्छालां यक्ष्यामहे वयम् ।
त्वर सौम्य मुहूर्तो ऽयं ध्रुवश्च दिवसो ऽप्ययम् ॥ 2.56.25 ॥
ऐणेयमिति । श्रपयस्व पच । अयं मुहूर्तः ध्रुवः स्थिरः । अयं शोभनतिथिनक्षत्रयुक्तो दिवसो वासरश्च ध्रुवः, स्थिर इत्यर्थः । (पाठभेदः । अयं सौम्यमुहूर्तः शुभमुहूर्तः । अयं दिवसश्च ध्रुव यजमानस्थैर्य्यकारी) ॥ 2.56.25 ॥
स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान् ।
अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि ॥ 2.56.26 ॥
स इति । समिद्धे सम्यग्दिप्ते । जातवेदसि अग्नौ । चिक्षेप पपाचेत्यर्थः ॥ 2.56.26 ॥
तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम् ।
लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् ॥ 2.56.27 ॥
तामिति । निष्ठप्तं सोष्णं छिन्नशोणितं क्षीणशोणितम् ॥ 2.56.27 ॥
अयं कृष्णः समाप्ताङ्गः श्रृतः कृष्णमृगो यथा ।
देवतां देवसङ्काश यजस्व कुशलो ह्यसि ॥ 2.56.28 ॥
अयमिति । कृष्णः कृष्णमृगः । समाप्ताङ्गः परिपूर्णावयवः । श्रृतः पक्वः । कृष्णमृगो यथा पूर्णावयवत्वात् पाकतः श्यामत्वाच्च पूर्वावस्थ इव दृश्यत इत्यर्थः । कुशलोसि यजने समर्थोसि ॥ 2.56.28 ॥
रामः स्नात्वा तु नियतो गुणवाञ्जप्यकोविदः ।
सङ्हेणाकरोत् सर्वान् मन्त्रान् सत्रावसानिकान् ॥ 2.56.29 ॥
राम इति । गुणवान् प्रायत्यादिगुणवान् । जप्यकोविदः जप्यमन्त्रेषु समर्थः । सङ्ग्रहेण सङ्क्षेपेण । सत्रावसानिकान् सत्रं वास्तुयागः यैर्मन्त्रैरवसीयते परिसमाप्यते ते सत्रावसानाः, सत्रावसाना एव सत्रावसानिकाः । विनयादेराकृतिगणत्वात् स्वार्थे ठक् । छान्दसो वृद्ध्यभावः । अकरोत् यावता वास्तुशान्तिकर्म समाप्यते तावन्मन्त्रान् जजापेत्यर्थः । मन्त्रजपपूर्वकं कर्म्माण्यकरोदित्यर्थः ॥ 2.56.29 ॥
इष्ट्वा देवगणान् सर्वान् विवेशावसथं शुचिः ।
बभूव च मनोह्लादो रामस्यामिततेजसः ॥ 2.56.30 ॥
इष्ट्वा देवगणानिति । देवगणान् वास्तु देवताः । ह्लादः तुष्टिः ॥ 2.56.30 ॥
वैश्वदेवबलिं कृत्वा रौद्रं वैष्णवमेव च ।
वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन् ॥ 2.56.31 ॥
जपं च न्यायतः कृत्वा स्नात्वा नद्यां यथाविधि ।
पापसंशमनं रामश्चकार बलिमुत्तमम् ॥ 2.56.32 ॥
वैश्वदेवबलिमिति । वैश्वदेवबलिं वैश्वदेवबलिहरणे । रौद्रं रुद्रदेवताकम् । वैष्णवं विष्णुदेवताकं च यागम् । वास्तुसंशमनीयानि गृहारिष्टशामकानि । मङ्गलानि मङ्गलकराणि पुण्याहवाचनशान्तिजपादीनि । स्नात्वेति पुनःस्नानकरणं “ततः सर्वौषधीस्नानं यजमानस्य कारयेत्” इति स्मरणादित्याहुः । वस्तुतस्तु रौद्रयागकरणात् पुनःस्नानम् । रौद्रकर्मकरणे अपउपस्पृश्येति विधानादिति ज्ञेयम् । पापसंशमनं पापशब्देन पापप्रधानानि दिवाचरनक्तंचराणि क्रूरभूतान्युच्यन्ते । तेषां संशमनम् । यद्वा पापसंशमनं “पञ्च सूना गृहस्थस्य” इत्याद्युक्तरीत्या सूनारूपपापशमनम् । वैश्वदेवबलिमित्यत्र भूतबलिमात्रोक्तिः । अत्र तद्व्यतिरिक्तः पित्रादिविषयः । यद्वा पूर्वं वैश्वदेवरूपबलिमित्यर्थः । अत्र सर्वभूतबलिः । यद्वा पूर्वोक्तस्य सर्वस्योपसंहारः ॥ 2.56.3132 ॥
वेदिस्थलविधानानि चैत्यान्यायतनानि च ।
आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥ 2.56.33 ॥
वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्मांसैर्यथाविधि ।
अद्भिर्जपैश्च वेदोक्तैर्दर्भैश्च ससमित्कुशैः ॥ 2.56.34 ॥
तौ तर्पयित्वा भूतानि राघवौ सह सीतया ।
तदा विविशतुः शालां सुशुभां शुभलक्षणौ ॥ 2.56.35 ॥
वेदीति । वेदिस्थलविधानानि बलिहरणादिवेदिस्थलसंस्थानानि । “वेदिः परिष्कृता भूमिः” इत्यमरः । चैत्यानि गन्धर्वाद्यावासस्थानानि । आयतनानि विष्ण्वा़द्यावासस्थलानि । (पाठभेदः । चैत्यानि देवतास्थानानि । आयतनानि अग्न्यगाराणि । अनुरूपाणि आश्रमस्यानुरूपाणि सूक्ष्माणीत्यर्थः । स्थापयामास मन्त्रतस्तत्तद्देवतानां तत्रतत्रावस्थानं कल्पितवानित्यर्थः) ॥ 2.56.3335 ॥
तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां निवाताम् ।
वासाय सर्वे विविशुः समेताः सभां यथा देवगणाः सुधर्माम् ॥ 2.56.36 ॥
तामिति । वृक्षपर्णच्छदनां वृक्षपर्णरूपाच्छादनपटलयुक्ताम् । यथाप्रदेशं शास्त्रोक्तप्रदेशमनतिक्रम्य । “आग्नेय्यां पाकशाला” इत्यादिशास्त्रम् । सुधर्मां देवसभाम् “स्यात्सुधर्मा देवसभा” इत्यमरः ॥ 2.56.36 ॥
अनेकनानामृगपक्षिसङ्कुले विचित्रपुष्पस्तबकैर्द्रुमैर्युते ।
वनोत्तमे व्यालमृगानुनादिते तदा विजर्ह्रुः सुसुखं जितेन्द्रियाः ॥ 2.56.37 ॥
अनेकेति । पुष्पस्तबकपदं कर्णावतंसादिपदवन्निर्वाह्यम् । व्यालाः सर्प्पाः राजा वा । जितेन्द्रिया इत्यनेन विहारो ग्राम्यभिन्नजलक्रीडापुष्पापचयादिरिति सूच्यते ॥ 2.56.37 ॥
सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम् ।
ननन्द हृष्टो मृगपक्षिजुष्टां जहौ च दुःखं पुरविप्रवासात् ॥ 2.56.38 ॥
सुरम्यमिति । तां प्रसिद्धाम् । सुतीर्थां शोभनजलावतरणप्रदेशाम् । हृष्टः पुलकितः । पुरविप्रवासात्
जनितमिति शेषः ॥ 2.56.38 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥ 56 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षट्पञ्चाशः सर्गः ॥ 56 ॥