श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चपञ्चाशः सर्गः
उषित्वा रजनीं तत्र राजपुत्रावरिन्दमौ ।
महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति ॥ 2.55.1 ॥
उषित्वेत्यादि ॥ 2.55.1 ॥
तेषां चैव स्वस्त्ययनं महर्षिः स चकार ह ।
प्रस्थितांश्चैव तान् प्रेक्ष्य पिता पुत्रानिवान्वगात् ॥ 2.55.2 ॥
तेषामिति । तेषां प्रस्थातुमुद्युक्तानाम् । अन्वगादिति पाठः । अन्वशादिति पाठे–अनुशिष्टवान् मार्गोपदेशमकरोदित्यर्थः ॥ 2.55.2 ॥
ततः प्रचक्रमे वक्तुं वचनं स महामुनिः ।
भरद्वाजो महातेजा रामं सत्यपराक्रमम् ॥ 2.55.3 ॥
तदेव विवृणोति–तत इति ॥ 2.55.3 ॥
गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ ।
कालिन्दीमनुगच्छेतां नदीं पश्चान्मुखाश्रिताम् ॥ 2.55.4 ॥
गङ्गायमुनयोरिति । प्रथमं गङ्गायमुनयोः सन्धिमासाद्य पश्चात् पश्चान्मुखाश्रितां गङ्गाजलवेगाभिहत्या किंचित्पश्चान्मुखप्रवाहं प्राप्तां कालिन्दीं नदीम् । अनुगच्छेताम् अनुसृत्य गच्छेतां पश्चिमाभिमुखौ भूत्वा गच्छेतां, भवन्ताविति शेषः । (पाठभेदः । अभिगच्छेताम् अभिमुखं गच्छेताम्, कालिन्द्या अभिमुखीभूय गच्छेतामित्यर्थः) ॥ 2.55.4 ॥
अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् ।
तस्यास्तीर्थं प्रचरितं पुराणं प्रेक्ष्य राघवौ ॥ 2.55.5 ॥
तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् ।
ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् ॥ 2.55.6 ॥
शीघ्रस्रोतसमित्यनेन गङ्गाजलवेगप्रतिहतिस्तिमितजलव्यतिरिक्तप्रदेश उच्यते । तीर्थम् अवतरणप्रदेशम् । प्रचरितं गमनागमनाभ्यामतिक्षुण्णमित्यर्थः । आंशुमतीम् अंशुमतः सूर्यस्यापत्यभूताम् । ततः तरणानन्तरम् । न्यग्रोधं तीरस्थम् । हरितच्छदं श्यामलपत्रम् । अत एव श्यामं श्यामनामकं वृक्षैः सह विवृद्धम् । यद्वा वृक्षैः श्यामं वृक्षसहितत्वात् विशेषेण श्यामलम् । वृक्षैरित्युपलक्षणे तृतीया । आशिषः मनोरथान् । प्रयुञ्जीत प्रार्थयेत् ॥ 2.55.56 ॥
विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम् ।
तस्मै सीताञ्जलिं कृत्वा प्रयुञ्जीताशिषःः शिवाः ॥ 2.55.7 ॥
वसेद्वा अतिक्रमेत वा सीतेति शेषः । श्रान्ता चेत् किंचित्कालं वसेत्, नोचेदतिक्रमेतेत्यर्थः ॥ 2.55.7 ॥
समासाद्य तु तं वृक्षं वसेद्वातिक्रमेत वा ।
क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् ॥ 2.55.8 ॥
ततः दक्षिणतटस्थन्यग्रोधात् । यामुनैः यमुनासम्बन्धिभिः, यमुनातीरजैरित्यर्थः ॥ 2.55.8 ॥
पलाशबदरीमिश्रं रम्यं वंशैश्च यामुनैः ।
स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ।
रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः ।
इति पन्थानमावेद्य महर्षिः संन्यवर्तत ॥ 2.55.9 ॥
सः काननम्, पथिशब्दापेक्षया पुल्लिङ्गत्वम् । मार्दवयुक्तः सूक्ष्मसिकतावत्त्वात् । वनदावैर्वनाग्निभिः । “दवदावौ वनारण्यवह्नी” इत्यमरः । तथाप्यत्र दावशब्दो ऽग्निमात्रपरः । “विशिष्टवाचकानाम्” इति न्यायात् ॥ 2.55.9 ॥
अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ॥ 2.55.10 ॥
उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ।
कृतपुण्याः स्म सौमित्रे मुनिर्यन्नो ऽनुकम्पते ॥ 2.55.11 ॥
अभिवाद्येत्यर्द्धेन महर्षिं विशेषयति । तथैव गमिष्याम इत्युक्त्वा अभिवाद्य त्वमाश्रमं गच्छेति रामेण विनिवर्त्तितो महर्षिः न्यवर्ततेति सम्बन्धः ॥ 2.55.1011 ॥
इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ।
सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम् ॥ 2.55.12 ॥
अथासाद्य तु कालिन्दीं शीघ्रस्रोतोवहां नदीम् ।
चिन्तामापेदिरे सर्वे नदीजलतितीर्षवः ॥ 2.55.13 ॥
इतीति । मन्त्रयित्वा पूर्वोक्तरीत्या कृतार्थतामनुसन्धाय ॥ 2.55.1213 ॥
तौ काष्ठसङ्घाटमथो चक्रतुस्सुमहाप्लवम् ।
शुष्कैर्वंशैः समास्तीर्णमुशीरैश्च समावृतम् ॥ 2.55.14 ॥
ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ।
चकार लक्ष्मणश्छित्त्वा सीतायाः सुखमासनम् ॥ 2.55.15 ॥
तौ काष्ठसङ्घाटमिति । काष्ठसङ्घाटः काष्ठनिचयः । उशीरैः वीरणतृणमूलैः । “मूले़ ऽस्योशीरमस्त्रियाम्” इत्यमरः ॥ 2.55.1415 ॥
तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम् ।
ईषत्संलज्जमानां तामध्यारोपयत प्लवम् ॥ 2.55.16 ॥
तत्रेति । अचिन्त्याम् अचिन्त्यसौन्दर्याम् । कान्तकरग्रहादावश्यकत्वाच्चेषल्लज्जावतीम् ॥ 2.55.16 ॥
पार्श्वे च तत्र वैदेह्या वसने भूषणानि च ।
प्लवे कठिनकाजं च रामश्चक्रे सहायुधैः ॥ 2.55.17 ॥
पार्श्व इति । तत्रैव वैदेह्याः पार्श्वे कठिनकाजं कठिनकं कन्दमूलखननसाधनमायसाग्रं दारु, आजम् अजचर्म पिनद्धं पिटकम् । द्वन्द्वैकवद्भावः । चक्रे स्थापितवानित्यर्थः ॥ 2.55.17 ॥
आरोप्य प्रथमं सीतां सङ्घाट परिगृह्य तौ ।
ततः प्रतेरतुर्यत्तौ वीरौ दशरथात्मजौ ॥ 2.55.18 ॥
आरोप्येति । सङ्घाटंप्लवम् । यत्तौ प्लवचालने यतमानौ ॥ 2.55.18 ॥
कालिन्दीमध्यमायाता सीता त्वेनामवन्दत ।
स्वस्ति देवि तरामि त्वां पारयेन्मे पतिर्व्रतम् ॥ 2.55.19 ॥
यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन च ।
स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ॥ 2.55.20 ॥
कालिन्दीमथ सीता तु याचमाना कृताञ्जलिः ।
तीरमेवाभिसम्प्राप्ता दक्षिणं वरवर्णिनी ॥ 2.55.21 ॥
कालिन्दीमध्यमित्यादि । मे पतिः । व्रतं वनवाससङ्कल्पम् । पारयेत् समापयेत् । त्वामुद्दिश्य गोसहस्रेण गोसहस्रप्रदानेन सुराघटशतेन च नैवेद्येन । स्वस्ति यथा भवति तथा प्रत्यागते सति गोसहस्रप्रदानेन सुराघटशतेन च त्वां यक्ष्य इत्यादि याचमाना तीरं प्राप्तेत्यन्वयः ॥ 2.55.1921 ॥
ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम् ।
तीरजैर्बहुभिर्वृक्षैः सन्तेरुर्यमुनां नदीम् ॥ 2.55.22 ॥
तत इति । वृक्षैरिति उपलक्षणे तृतीया ॥ 2.55.22 ॥
ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुना वनात् ।
श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम् ॥ 2.55.23 ॥
न्यग्रोधं तमुपागम्य वैदेही वाक्यमब्रवीत् ॥ 2.55.24 ॥
ते तीर्णा इति । यमुनावनात् यमुनातीरवनात् ॥ 2.55.2324 ॥
नमस्ते ऽस्तु महावृक्ष पारयेन्मे पतिर्व्रतम् ।
कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् ।
इति सीता ऽञ्जलिं कृत्वा पर्यगच्छद्वनस्पतिम् ॥ 2.55.25 ॥
नमस्त इत्यादि । पर्यगच्छत् प्रदक्षिणं चकार ॥ 2.55.25 ॥
अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ।
दयितां च विधेयां च रामो लक्ष्मणमब्रवीत् ॥ 2.55.26 ॥
अवलोक्येति । अवलोक्य, सीतायाः श्रान्त्यश्रान्ती परीक्ष्येत्यर्थः । आयाचन्तीं मनोरथान् प्रार्थयन्तीम् ॥ 2.55.26 ॥
सीतामादाय गच्छ त्वमग्रतो भरताग्रज ।
पृष्ठतो ऽहं गमिष्यामि सायुधो द्विपदां वर ॥ 2.55.27 ॥
सीतामादायेति । भरताग्रजेति बहुव्रीहिः । अग्रतो गच्छेत्यनेन सीतायाः पुरतो गच्छेत्युक्तम् ॥ 2.55.27 ॥
यद्यत्फलं प्रार्थयते पुष्पं वा जनकात्मजा ।
तत्तत् प्रदद्या वैदेह्या यत्रास्या रमते मनः ॥ 2.55.28 ॥
गच्छतोस्तु तयोर्मध्ये बभूव जनकात्मजा ।
मातङ्गयोर्मध्यगता शुभा नागवधूरिव ॥ 2.55.29 ॥
अग्रतो गमनफलमाह– यद्यत्फलमित्यादिश्लोकेन ॥ 2.55.2829 ॥
एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम् ।
अदृष्टपूर्वां पश्यन्ती रामं पप्रच्छ सा ऽबला ॥ 2.55.30 ॥
एकैकमिति । पप्रच्छ कैषां संज्ञेति पृष्टवतीत्यर्थः ॥ 2.55.30 ॥
रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् ।
सीतावचनसंरब्ध आनयामास लक्ष्मणः ॥ 2.55.31 ॥
रमणीयानिति । पादपानित्यनेन स्तबकविशिष्टाः पादपावयवा उच्यन्ते । सीतावचनसंरब्धः सीतावचनेन त्वरितः ॥ 2.55.31 ॥
विचित्रवालुकजलां हंससारसनादिताम् ।
रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् ॥ 2.55.32 ॥
विचित्रवालुकजलामिति । नदीं यमुनाम् । सुदूरं तत्तीरे गमनात्तद्दर्शनम् ॥ 2.55.32 ॥
क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ ।
बहून् मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने ॥ 2.55.33 ॥
क्रोशमात्रमिति । मेध्यान् शुचीन् भक्ष्यानिति यावत् । चेरतुः भक्षितवन्तौ । “चर गतिभक्षणयोः” ॥ 2.55.33 ॥
विहृत्य ते बर्हिणपूगनादिते शुभे वने वानरवारणायुते ।
समं नदीवप्रमुपेत्य सम्मतं निवासमाजग्मुरदीनदर्शनाः ॥ 2.55.34 ॥
विहृयेति । पूगः समूहः । समम् अनिम्नोन्नतम् । नदीवप्रं नदीतीरम् । संमतं निवासं सीताभिमतं वासस्थानम् ॥ 2.55.34 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥ 55 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥ 55 ॥