०५४ भरद्वाजाश्रमगमनम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुःपञ्चाशः सर्गः

यत्र भागीरथीं गङ्गां यमुनाभिप्रवर्त्तते ।

जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् ॥ 2.54.2 ॥

ते भूमिभागान् विविधान् देशांश्चापि मनोरमान् ।

अदृष्टपूर्वान् पश्यन्तस्तत्रतत्र यशस्विनः ॥ 2.54.3 ॥

यत्रेत्यादिश्लोकद्वयमेकान्वयम् । भूमिभागान् वनप्रदेशान् । देशान् वत्सदेशावान्तरदेशान् । एतदेवनानात्वमाह तत्रतत्रेति । यशस्विन इत्यनेन तत्तद्देशीयैरर्चितत्वमुक्तम् ॥ 2.54.23 ॥

यथाक्षेमेण गच्छन् स पश्यंश्च विविधान् द्रुमान् ।

निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत् ॥ 2.54.4 ॥

यथाक्षेमेणेति । यथाक्षेमेण क्षेमानतिक्रमेण । “यथा सादृश्य” इति पदार्थानतिवृत्तावव्ययीभावः । “तृतीयासप्तम्योर्बहुलम्” इत्यलुक् । क्षेमहेत्ववधानमनतिक्रम्येत्यर्थः । निवृत्तमात्रे अर्द्धमण्डलकाल इत्यर्थः ॥ 2.54.4 ॥

प्रयागमभितः पश्य सौमित्रे धूममुन्नतम् ।

अग्नेर्भगवतः केतुं मन्ये सन्निहितो मुनिः ॥ 2.54.5 ॥

प्रयागमिति । प्रयागमभितः प्रयागस्याभितः । “अभितः परितः–” इत्यादिना द्वितीया । केतुं ध्वजीभूतं धूममिति सम्बन्धः । अतः सन्निहितो मुनिरिति मन्ये ॥ 2.54.5 ॥

नूनं प्राप्ताः स्म सम्भेदं मङ्गायमुनयोर्वयम् ।

तथा हि श्रूयते शब्दो वारिणो वारिघट्टितः ॥ 2.54.6 ॥

नूनमिति । सम्भेदं सङ्गमम् “सम्भेदः सिन्धुसङ्गमः” इत्यमरः । वारिघट्टितो वारिणः शब्दः वारिजनितो वारिशब्दः । वारिणोरन्योन्यघट्टनजः शब्द इत्यर्थः ॥ 2.54.6 ॥

दारूणि परिभिन्नानि वनजैरुपजीविभिः ।

भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः ॥ 2.54.7 ॥

दारूणीति । वनजैरुपजीविभिः वनोत्पन्नैः फलमूलकाष्ठाद्युपजीविभिः दारूणि इत्यत्रापि दृश्यन्त इत्यनुषज्यते ॥ 2.54.7 ॥

धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे ।

गङ्गायमुनयोः सन्धौ प्रापतुर्निलयं मुनेः ॥ 2.54.8 ॥

धन्विनाविति । लम्बमाने अस्तगिरौ लम्बमान इव दृश्यमाने सन्धौ सङ्गमं वर्तमानं निलयम् आश्रमं तत्समीपप्रदेशं प्रापतुः ॥ 2.54.8 ॥

रामस्त्वाश्रममासाद्य त्रासयन् मृगपक्षिणः ।

गत्वा मुहूर्त्तमध्वानं भरद्वाजमुपागमत् ॥ 2.54.9 ॥

राम इति । त्रासनयन् अपूर्वदर्शनेन त्रासं जनयन् । मूहूर्तं मुहूर्तगम्यम् । भरद्वाजं भरद्वाजसमीपम् ॥ 2.54.9 ॥

ततस्त्वाश्रममासाद्य मुनेर्दर्शनकांक्षिणौ ।

सीतयानुगतौ वीरौ दूरादेवावतस्थतुः ॥ 2.54.10 ॥

तत इति । दूरादेवावतस्थतुः सायन्तनसमयत्वादग्निहोत्रावसानं प्रतीक्षमाणाववतस्थतुरित्यर्थः ॥ 2.54.10 ॥

स प्रविश्य महात्मानमृषिं शिष्यगणैर्वृतम् ।

संशितव्रतमेकाग्रं तपसा लब्धचक्षुषम् ॥ 2.54.11 ॥

हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः ।

रामः सौमित्रिणा सार्द्धं सीतया चाम्यवादयत् ॥ 2.54.12 ॥

स प्रविश्येत्यादिश्लोकद्वयम् । प्रविश्य दैवान्निर्गतशिष्यमुखेनेति शेषः । संशितव्रतं तीक्ष्णव्रतम् । एकाग्रम् एकप्रधानम्, ध्यानपरमिति यावत् । तपसा तपोवैभवेन । लब्धचक्षुषं लब्धज्ञानम् । अतीतानागतवर्तमानयावदर्थगोचरज्ञानयुक्तमित्यर्थः । दृष्ट्वैव दर्शनोत्तरकालमेवेत्यर्थः ॥ 2.54.1112 ॥

न्यवेदयत चात्मानं तस्मै लक्ष्मण पूर्वजः ।

पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ ॥ 2.54.13 ॥

भार्या ममेयं वैदेही कल्याणी जनकात्मजा ।

मां चानुयाता विजनं तपोवनमनिन्दिता ॥ 2.54.14 ॥

पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः ।

अयमन्वगमद्भ्राता वनमेव दृढब्रतः ॥ 2.54.15 ॥

न्यवेदयतेत्यादिश्लोकद्वयमेकान्वयम् । सीतालक्ष्मणयोः सर्वात्मना परतन्त्रत्वादात्मानमित्यनेन तयोरपि ग्रहणम् । कल्याणी पतिव्रतेत्यर्थः । अनुयातेति न्यवेदयतेतिसम्बन्धः ॥ 2.54.1315 ॥

पित्रा नियुक्ता भगवन् प्रवेक्ष्यामस्तपोवनम् ।

धर्ममेव चरिष्यामस्तत्र मूलफलाशनाः ॥ 2.54.16 ॥

पित्रेति । धर्मं पितृवचनपरिपालरूपम् ॥ 2.54.16 ॥

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।

उपानयत धर्मात्मा गामर्घ्यमुदकं ततः ॥ 2.54.17 ॥

नानाविधानन्नरसान् वन्यमूलफलाश्रयान् ।

तेभ्यो ददौ तप्ततपा वासं चैवाम्यकल्पयत् ॥ 2.54.18 ॥

तस्येति । गां मधुपर्काङ्गभूतमहोक्षम् । तथा च स्मृतिः– “गोमधुपर्क्कार्हो वेदाध्यायी आचार्य ऋत्विक् स्नातको राजा वा धर्मयुक्तः” इति । अर्ध्यं पूजाविधेरङ्गम् । अन्नरसान् अदनीयरसान्, रसप्रधानान् पदार्थविशेषानित्यर्थः । वन्यमूलफलाश्रयान् वन्यमूलफलप्रकृतिकान् ॥ 2.54.1718 ॥

मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः ।

राममागतमभ्यर्च्य स्वागतेनाह तं मुनिः ॥ 2.54.19 ॥

मृगपक्षिभिरिति । मृगपक्षिभिरासीनो मुनिभिश्चेत्यनेन मुनिवैभवात्तिर्यञ्चो ऽपि मुनिनिर्विशेषं सञ्जातविश्वासाः सेवन्त इति गम्यते । स्वागतेनाह स्वागतमाहेत्यर्थः । यद्वा मृगपक्षिभिः सहेति शेषः । स्वागतेनाभ्यर्च्येति सम्बन्धः ॥ 2.54.19 ॥

प्रतिगृह्य च तामर्चामुपविष्टं स राघवम् ।

भरद्वाजो ऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा ॥ 2.54.20 ॥

मुनिराहेत्येतद्विवृणोति–प्रतिगृह्येति ॥ 2.54.20 ॥

चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम् ।

श्रुतं तव मया चेदं विवासनमकारणम् ॥ 2.54.21 ॥

अवकाशो विविक्तो ऽयं महानद्योः समागमे ।

पुण्यश्च रमणीयश्च वसत्विह भवान् सुखम् ॥ 2.54.22 ॥

एवमुक्तस्तु वचनं भरद्वाजेन राघवः ।

प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः ॥ 2.54.23 ॥

चिरस्य चिरम् ॥ 2.54.2123 ॥

भगवन्नित आसन्नः पौरजानपदो जनः ।

सुदर्शमिह मां प्रेक्ष्य मन्ये ऽहमिममाश्रमम् ॥ 2.54.24 ॥

आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः ।

अनेन कारणेनाहमिह वासं न रोचये ॥ 2.54.25 ॥

एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम् ।

रमेत यत्र वैदेही सुखार्हा जनकात्मजा ॥ 2.54.26 ॥

भगवन्नित्यादि । इतः एतदाश्रमापेक्षया । इह आश्रमे । सुदर्शं सुखेन द्रष्टुं शक्यम् । प्रेक्ष्य ज्ञात्वा वैदेहीं मां च प्रेक्षको जनः इममाश्रममागमिष्यतीत्यहं मन्ये । अनेनकारणेन इह वासं न रोचय इत्यन्वयः । मां प्रेक्षक इत्यत्र “अकेनोर्भविष्यदाधमर्ण्ययोः” इति षष्ठीप्रतिषेधः । एकान्ते पौरजनाविदिते । पश्य चिन्तय ॥ 2.54.2426 ॥

एतच्छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः ।

राघवस्य ततो वाक्यमर्थग्राहकमब्रवीत् ॥ 2.54.27 ॥

एतदिति । अर्थग्राहकम् अर्थबोधकं यथा भवति तथा । यद्वा अर्थग्राहकं बह्वर्थवत् अब्रवीत् ॥ 2.54.27 ॥

दशक्रोश इतस्तात गिरिर्यस्मिन्निवत्स्यसि ।

महर्षिसेवितः पुण्यः सर्वतः सुखदर्शनः ॥ 2.54.28 ॥

गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः ।

चित्रकूट इति ख्यातो गन्धमादनसन्निभः ॥ 2.54.29 ॥

दशक्रोश इत्यादि । यस्मिन् गिरौ निवत्स्यसि स गिरिरितो दशक्रोशः, दशक्रोशावस्थित इत्यर्थः । गन्धमादनसन्निभः गन्धमादनपर्वतसन्निभः । अतीतानागतवर्त्तमानज्ञो महर्षिः गोलाङ्गूलानुचरितो वानरर्क्षनिषेवित इति केवलत्रिवर्गाभिधानेन एतत्सजातीया एव रामस्य सहाया अपि भविष्यन्तीति सूचितवानिति गम्यते ॥ 2.54.2829 ॥

यावता चित्रकूटस्य नरः श्रृङ्गाण्यवेक्षते ।

कल्याणानि समाधत्ते न पापे कुरुते मनः ॥ 2.54.30 ॥

यावतेति । नरः यावता दूरेण चित्रकूटस्य शृङ्गाण्यवेक्षते तावता कल्याणानि पुण्यकर्माणि समाधत्ते प्राप्नोति । यद्वा समाधत्ते आचरति पापे मनो न कुरुते, तत्र वसन् किमुतेति भावः । यद्वा यावता कालेन ॥ 2.54.30 ॥

ऋषयस्तत्र बहवो विहृत्य शरदां शतम् ।

तपसा दिवमारूढाः कपालशिरसा सह ॥ 2.54.31 ॥

ऋषय इति । तत्र चित्रकूटे । शरदां शतं तपसा विहृत्यक्रीडन्त इव महत्तपः परिसमाप्येत्यर्थः । कपालशिरसा सह दिवमारूढाः तपश्चरणेन निरन्तरकपालासनेन प्रक्षीणत्वक्शिरोरुहतया कपालावशिष्टशिरसा सह दिवमारूढा इत्यर्थः । कपालशिरसेत्येतच्छरीरोपलक्षणम् । सशरीराः स्वर्गं गता इत्यर्थः । यद्वा कपालशिरा इति कस्यचिदृषेः संज्ञा । कपालशिरसा कपालरूपशिरोयुक्तेनेत्यध्याहृतशरीरपदविशेषणमित्येके । कपालमात्रावशिष्टं शिरो यस्मिन्निति तपोविशेषणमित्येके ॥ 2.54.31 ॥

प्रविविक्तमहं मन्ये तं वासं भवतः सुखम् ।

इह वा वनवासाय वस राम मया सह ॥ 2.54.32 ॥

प्रविविक्तमिति । प्रविविक्तं प्रकर्षेण विजनम् ॥ 2.54.32 ॥

स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम् ।

सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥ 2.54.33 ॥

स राममिति । सर्वकामैः प्रतिजग्राह अतिथियोग्यसत्कारैर्वशीकृतवानित्यर्थः । (पाठभेदः । प्रतिजग्राह उपचचार) ॥ 2.54.33 ॥

तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः ।

प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥ 2.54.34 ॥

सीतातृतीयः काकुत्स्थः परिश्रान्तः सुखोचितः ।

भरद्वाजाश्रमे रम्ये तां रात्रिमवसत्सुखम् ॥ 2.54.35 ॥

प्रभातायां रजन्यां तु भरद्वाजमुपागमत् ।

उवाच नरशार्दूलो मुनिं ज्वलिततेजसम् ॥ 2.54.36 ॥

तस्येति । प्रपन्ना प्राप्ता ॥ 2.54.3436 ॥

शर्वरीं भगवन्नद्य सत्यशील तवाश्रमे ।

उषिताः स्मेह वसतिमनुजानातु नो भवान् ॥ 2.54.37 ॥

शर्वरीमिति । वसतिमनुजानातु पूर्वोक्तां वसतिं प्रतिगन्तुमनुज्ञां करोत्वित्यर्थः ॥ 2.54.37 ॥

रात्र्यां तु तस्यां व्युष्टायां भरद्वाजो ऽब्रवीदिदम् ।

मधुमूलफलोपेतं चित्रकूटं व्रजेति ह ॥ 2.54.38 ॥

रात्र्यामिति । व्रजेत्यब्रवीदित्यन्वयः । हेति पादपूरणे हर्षे वा ॥ 2.54.38 ॥

वासमौपयिकं मन्ये तव राम महाबल ।

नानानगगणोपेतः किन्नरोरगसेवितः ॥ 2.54.39 ॥

मयूरनादाभिरुतो गजराजनिषेवितः ।

गम्यतां भवता शैलश्चित्रकूटः स विश्रुतः ।

पुण्यश्च रमणीयश्च बहुमूलफलायुतः ॥ 2.54.40 ॥

तत्र कुञ्जरयूथानि मृगयूथानि चाभितः ।

विचरन्ति वनान्ते ऽस्मिन् तानि द्रक्ष्यसि राघव ॥ 2.54.41 ॥

वासमिति । तत्रेति शेषः । औपयिकं युक्तम् । “युक्तमौपयिकम्” इत्यमरः । नानानगगणोपेतः नानावृक्षनिचयोपेतः ॥ 2.54.3941 ॥

सरित्प्रस्रवणप्रस्थान् दरीकन्दरनिर्द्दरान् ।

चरतः सीतया सार्द्धं नन्दिष्यति मनस्तव ॥ 2.54.42 ॥

सरित्प्रस्रवणप्रस्थानिति । सरितो नद्यः प्रस्रवणानि तनुतरजलप्रवाहाः प्रस्थाः सानवः स्तान् । दरीकन्दरनिर्द्दरान् दर्यः पाषाणसंश्लेषस्थानानि कन्दराः गुहाः । निर्द्दराः विदीर्णपाषाणसन्धयः तान् ॥ 2.54.42 ॥

प्रहृष्टकोयष्टिककोकिलस्वनैर्विनादितं तं वसुधाधरं शिवम् ।

मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैः सुरम्यमासाद्य समावसाश्रमम् ॥ 2.54.43 ॥

प्रहृष्टेति । कोयष्टिकाः टिट्टिभकाः । “कोयष्टिकष्टिट्टिभकः” इत्यमरः ॥ 2.54.43 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥ 54 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुःपञ्चाशः सर्गः ॥ 54 ॥