०५० गङ्गातीरे गुहसमागमः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चाशः सर्गः

विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः ।

अयोध्याभिमुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत् ॥ 2.50.1 ॥

विशालानिति । कोसलान् यात्वा अन्तपर्यन्तदक्षिणकोसलान् यात्वेत्यर्थः ॥ 2.50.1 ॥

आपृच्छे त्वां पुरिश्रेष्ठे काकुत्स्थपरिपालिते ।

दैवतानि च यानि त्वां पालयन्त्यावसन्ति च ॥ 2.50.2 ॥

निवृत्तवनवासस्त्वामनृणो जगतीपतेः ।

पुनर्द्रक्ष्यामि मात्रा च पित्रा च सह सङ्गतः ॥ 2.50.3 ॥

निर्गमनावसरे शिष्टाचारप्राप्तस्य पुरदेवतानमस्कारस्य कार्यसङ्कटेनाकृतत्वादिदानीमयोध्याराज्यसीमान्ते स्थित्वा आरब्धस्य चतुर्द्दशवर्षावधिकव्रतस्य निर्विघ्नपरिसमाप्त्यर्थं पुरदेवतानमस्कारपूर्वकमभ्यनुज्ञां प्रार्थयते–आपृच्छ इत्यादिना । यानीति तान्यप्यापृच्छ इत्यर्थसिद्धम् ॥ 2.50.23 ॥

ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् ।

अश्रुपूर्णमुखो दीनो ऽब्रवीज्जानपदं जनम् ॥ 2.50.4 ॥

तत इति । भुजोद्यमनं रथवेगेन दूरगमनात्, अश्रुपूर्णमुखत्वं तदश्रुदर्शनात् । जनं दर्शनार्थमागतम् ॥ 2.50.4 ॥

अनुक्रोशो दया चैव यथार्हं मयि वः कृतः ।

चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥ 2.50.5 ॥

अनुक्रोश इति । अनुक्रोशः आदरः । दया अनुकम्पा । यथार्हं स्वामित्वानुगुणम् । वः युष्माभिः । कृतः कृता चेत्यपि द्रष्टव्यम् । दुःखस्य अनुभूयमानस्य दुःखस्य । चिरं चिरकालविशिष्टत्वम् । पापीयः अशोभनम् । मद्दर्शने भवतां दुःखमभिवर्द्धते अतो गम्यताम्, अर्थसिद्धये गृहकृत्यादिकरणाय ॥ 2.50.5 ॥

ते ऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम् ।

विलपन्तो नरा घोरं व्यतिष्ठन्त क्वचित्क्वचित् ॥ 2.50.6 ॥

त इति । व्यतिष्ठन्त रामदर्शनाशया शीघ्रं न जग्मुरित्यर्थः ॥ 2.50.6 ॥

तथा विलपतां तेषामतृप्तानां च राघवः ।

अचक्षुर्विषयं प्रायाद्यथार्कः क्षणदामुखे ॥ 2.50.7 ॥

तथेति । विलपतामित्यनादरे षष्ठी । अचक्षुर्विषयं चक्षुर्विषयताभावम् । क्षणदामुखे निशामुखे ॥ 2.50.7 ॥

ततो धान्यधनोपेतान् दानशीनजनाञ्छिवान् ।

अकुतश्चिद्भयान् रम्यांश्चैत्ययूपसमावृतान् ॥ 2.50.8 ॥

उद्यानाम्रवणोपेतान् सम्पन्नसलिलाशयान् ।

तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥ 2.50.9 ॥

लक्षणीयान् नरेन्द्राणां ब्रह्मघोषाभिनादितान् ।

रथेन पुरुषव्याघ्रः कोसलानत्यवर्त्तत ॥ 2.50.10 ॥

दुस्त्यजामपि राज्यश्रियं तृणीकृत्य गतवान् राम इति द्योतयितुमृषिः कोसलानभिवर्णयति–तत इत्यादिना । धनधान्ययोः प्रयोजनमाह दानेति । चैत्ययूपसमावृतान् चैत्यानि देवतायतनानि यूपाः सर्वतोमुखादियागप्रख्यापकाः यूपाकारत्वेन स्थापिताः स्तम्भाः । उद्यानानि पुष्पवाटिकाः । सम्पन्नाः सम्पूर्णाः गोकुलैराकुलं निबिडं यथा भवति तथा सेवितान् । नरेन्द्राणां लक्षणीयान् एकैकशो नगरसदृशत्वेन लक्षयितुं योग्यान् । कोसलान् कोसलदेशस्थग्रामान् ॥ 2.50.810 ॥

मध्येन मुदितं स्फीतं रम्योद्यानसमाकुलम् ।

राज्यं भोग्यं नरेन्द्राणां ययौ धृतिमतां वरः ॥ 2.50.11 ॥

मध्येनेति । मध्येन मार्गेण भोग्यस्यापि राज्यस्य त्यागमृषिर्विस्मयते धृतिमतां वर इति ॥ 2.50.11 ॥

तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम् ।

ददर्श राघवो गङ्गां पुण्यामृषिनिषेविताम् ॥ 2.50.12 ॥

तत्रेत्यादि । तत्र कोसलाद्दक्षिणदेशे त्रिभिः पथिभिर्गच्छतीति त्रिपथगा ताम्, स्वर्गमर्त्यपाताललोकगामिनीमित्यर्थः । शिवतोयाम् अच्छतोयाम् ॥ 2.50.12 ॥

आश्रमैरविदूरस्थैः श्रीमद्भिः समलंकृताम् ।

काले सरोभिर्हृष्टाभिः सेविताम्भो ह्रदां शिवाम् ॥ 2.50.13 ॥

आश्रमैरित्यादि । श्रीमद्भिः धर्मसमृद्धिमद्भिः । काले क्रीडाकाले उचितकाले वा । सेवितानि प्राप्तानि अम्भांसि येषां तादृशा ह्रदाः यस्यां सा । शिवां क्रीडार्थं सेवनेपि पावनाम् ॥ 2.50.13 ॥

देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् ।

नानागन्धर्वपत्नीभिः सेवितां सततं शिवाम् ॥ 2.50.14 ॥

नानागन्धर्वपत्नीभिः गन्धर्वाणां नानात्वं देवगन्धर्वमनुष्यगन्धर्वभेदात् सेविताम् । शिवामिति पूर्ववत् । सेवितृभेदेप्येकरूपपावनत्वकथनान्नानर्थक्यम् ॥ 2.50.14 ॥

देवाक्रीडाशताकीर्णां देवो़द्यानशतायुताम् ।

देवार्थमाकाशगमां विख्यातां देवपद्मिनीम् ॥ 2.50.15 ॥

देवाक्रीडाः देवार्हक्रीडापर्वताः । देवोद्यानानि देवार्होद्यानानि । देवार्थमाकाशगमां देवपूजनार्थमाकाशं प्राप्ताम् । देवपद्मिनीं देवार्हाम्भोजयुक्तामित्यर्थः ॥ 2.50.15 ॥

जलाघाताट्टहासोग्रां फेननिर्मलहासिनीम् ।

क्वचिद्वेणीकृतजलां क्वचिदावर्त्तशोभिताम् ॥ 2.50.16 ॥

गङ्गां स्त्रीत्वेन रूपयति–जलाघातेत्यादिना । जलाघातः शिलासु जलपतनं तेन तच्छब्दो लक्ष्यते स एवाट्टहासः सघोषहासः तेनोग्राम् । फेनमेव निर्मलहासः तद्वतीम् । वेणीकृतजलां निम्नोन्नतशिलापतनेन वेण्याकारतया कृतजलाम् ॥ 2.50.16 ॥

क्वचित्स्तिमितगम्भीरां क्वचिद्वेगजलाकुलाम् ।

क्वचिद्गम्भीरनिर्घोषां क्वचिद्भैरवनिस्वनाम् ॥ 2.50.17 ॥

क्वचिदगाधस्थले स्तिमितगम्भीरां निश्चलगम्भीराम् । गम्भीरनिर्घोषो मृदङ्गादेरिव भैरवो निस्वनो ऽशन्यादेरिव ॥ 2.50.17 ॥

देवसङ्घाप्लुतजलां निर्मलोत्पलशोभिताम् ।

क्वचिदाभोगपुलिनां क्वचिन्निर्मलवालुकाम् ॥ 2.50.18 ॥

आभोगपुलिनां परिपूर्णतायुक्तपुलिनां विशालसैकतामित्यर्थः । “आभोगः परिपूर्णता” इत्यमरः । निर्मलवालुकां निर्मलसिकताम् ॥ 2.50.18 ॥

हंससारससंघुष्टां चक्रवाकोपकूजिताम् ।

सदामत्तैश्च विहगैरभिसन्नादितान्तराम् ।

क्वचित्तीररुहैर्वृक्षैर्मालाभिरुपशोभिताम् ॥ 2.50.19 ॥

सारसो हंसविशेषः । विहगैः हंसादिभिन्नैः पक्षिविशेषैः ॥ 2.50.19 ॥

क्वचित्फुल्लोत्पलच्छन्नां क्वचित्पद्मवनाकुलाम् ।

क्वचित्कुमुदषण्डैश्च कुड्मलैरुपशोभिताम् ॥ 2.50.20 ॥

नानापुष्परजोध्वस्तां समदामिव च क्वचित् ।

व्यपेतमलसङ्घातां मणिनिर्मलदर्शनाम् ॥ 2.50.21 ॥

क्वचित् फुल्लोत्पलच्छन्नामिति पूर्वमुत्पलशोभोक्ता, अत्र तच्छन्नत्वमिति विशेषः । कुड्मलैः कह्लारादिकुड्मलैः । नानापुष्परजोभिः ध्वस्तां वर्णान्तरं प्राप्तामित्यर्थः । एवं रक्तवर्णत्वात् समदामिव स्थिताम् । व्यपेतमलसङ्घाताम् अत एव मणिनिर्मलदर्शनां वैडूर्य्यमणिवन्निर्मलदर्शनाम् ॥ 2.50.2021 ॥

दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः ।

देवोपवाह्यैश्च मुहुः सन्नादितवनान्तराम् ॥ 2.50.22 ॥

प्रमदामिव यत्नेन भूषितां भूषणोत्तमैः ।

फलैः पुष्पैः किसलयैर्वृतां गुल्मैर्द्विजैस्तथा ॥ 2.50.23 ॥

शिंशुमारैश्च नक्रैश्च भुजङ्गैश्च निषेविताम् ।

विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम् ॥ 2.50.24 ॥

वरवारणैः राजगजैः । देवोपवाह्यैः देवानां वाहनभूतैः । फलैः पुष्पैः किसलयैरेव भूषणोत्तमैरिति व्यस्तरूपकम् । यद्वा फलपुष्पादिभिर्वृताम् अत एव भूषितां प्रमदामिव स्थितामितिवार्थः । द्विजैः पक्षिभिः । शिंशुमारैः नक्रविशेषै । यद्वा शिंशुमारैः जलकपिभिः । “शिंशुमारस्त्वम्बुकपिः” इति वैजयन्ती । अत्र विष्णुपादच्युतामित्युक्त्या बालकाण्डे हिमवत्प्रभवत्वं तत्र प्रादुर्भावमात्रेणेति ज्ञेयम् ॥ 2.50.2224 ॥

समुद्रमहिषीं गङ्गां सारसक्रौञ्चनादिताम् ।

आससाद महाबाहुः श्रृङ्गवेरपुरं प्रति ॥ 2.50.25 ॥

सारसक्रौञ्चनादितां सरो निवासो येषां ते सारसाः पक्षिविशेषाः “सो ऽस्य निवासः” इत्यण् । अतो हंससारससंघुष्टामित्यनेन न पौनरुक्त्यम् । श्रृङ्गवेरपुरं प्रति गङ्गामाससाद श्रृङ्गवेरपुरं प्रति गच्छन् गङ्गामाससादेत्यर्थः । यद्वा श्रृङ्गवेरपुरं प्रति श्रृङ्गवेरपरसमीपे गङ्गामाससादेत्यर्थः ॥ 2.50.25 ॥

तामूर्मिकलिलावर्त्तामन्ववेक्ष्य महारथः ।

सुमन्त्रमब्रवीत् सूतमिहैवाद्य वसामहे ॥ 2.50.26 ॥

तामिति । ऊर्मिकलिलावर्त्ताम् उर्मिमिश्रावर्त्ताम् ॥ 2.50.26 ॥

अविदूरादयं नद्या बहुपुष्पप्रवालवान् ।

सुमहानिङ्गुदीवृक्षो वसामो ऽत्रैव सारथे ॥ 2.50.27 ॥

अविदूरादिति । अविदूरात्समीपे इङ्गुदीवृक्षस्तापसतरुः ॥ 2.50.27 ॥

द्रक्ष्यामः सरितां श्रेष्ठां सम्मान्यसलिलां शिवाम् ।

देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥ 2.50.28 ॥

द्रक्ष्याम इति । सम्मान्येत्यस्य देवेत्यादिना सम्बन्धः ॥ 2.50.28 ॥

लक्ष्मणश्च सुमन्त्रश्च बाढमित्येव राघवम् ।

उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयैः ॥ 2.50.29 ॥

लक्ष्मण इति । बाढमित्यङ्गीकारे ॥ 2.50.29 ॥

रामो ऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः ।

रथादवातरत्तस्मात् सभार्यः सहलक्ष्मणः ॥ 2.50.30 ॥

सुमन्त्रोप्यवतीर्य्या स्मान्मोनचयित्वा हयोत्तमान् ।

वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः ॥ 2.50.31 ॥

राम इति । अभियाय प्राप्य ॥ 2.50.3031 ॥

तत्र राजा गुहो नाम रामस्यात्मसमः सखा ।

निषादजात्यो बलवान् स्थपतिश्चेति विश्रुतः ॥ 2.50.32 ॥

स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम् ।

वृद्धैः परिवृतो ऽमात्यैर्ज्ञातिभिश्चाप्युपागतः ॥ 2.50.33 ॥

तत्रेत्यादि । तत्र देशे राजा तद्देशाधिपतिः आत्मसमः प्राणसमः । निषादजात्यः निषादजातौ भवः । दिगादित्वाद्यत् । बलवान् चतुरङ्गबलवान् । स्थपतिः । निषादाधिपतिः । “स्थपतिः पुनः स्थापत्ये ऽधिपतौ तक्ष्णि” इति वैजयन्ती । ननु “हीनप्रेष्यं हीनसख्यं हीनगेहनिवेषणम्” इत्युपपातकपरिगणितं हीनजातिसख्यं महाकुलप्रसूतस्य रामस्य कथमुपपद्यत इति चेत्, सत्यम्, “निषादस्थपतिं याजयेत्” इति निषादाधिपतेर्यज्ञसम्बन्धश्रवणात् अत्यन्तानुचितं न भवतीत्यनुमन्तव्यम् । वस्तुतस्तु– “न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः । सर्ववर्णेषु ते शूद्रा ये ह्यभक्ता जनार्द्दने ॥” इत्युक्तरीत्या रामभक्तोऽयमत्युत्तम एव गुहस्य भगवत्प्रियत्वं ‘गुहेन सहितो रामो लक्ष्मणेन च सीतया’ इति दर्शितम् ॥ 2.50.3233 ॥

ततो निषादाधिपतिं दृष्ट्वा दूरादुपस्थितम् ।

सह सौमित्रिणा रामः समागच्छद्गुहेन सः ॥ 2.50.34 ॥

तत इति । दूरादुपस्थितं दृष्ट्वा समागच्छदित्यनेन प्रत्युत्थानाभिगमनोक्तिः । लक्ष्मणेन सह समागच्छत् लक्ष्मणवत्तस्मिन् भ्रातृत्वबुद्धिमकरोदित्यर्थः । समित्येकीभावे ॥ 2.50.34 ॥

तमार्तः संपरिष्वज्य गुहो राघवमब्रवीत् ।

यथायोध्या तथेयं ते राम किं करवाणि ते ॥ 2.50.35 ॥

ईदृशं हि महाबाहो कः प्राप्स्यत्यतिथिं प्रियम् ॥ 2.50.36 ॥

तमिति । आर्तः धृतवल्कलदर्शनेन सन्तप्तः । अनेन रामस्य पूर्वमेव मृगया व्यापारादिना सख्यमस्तीति गम्यम् । इयमस्मत्पुरी ॥ 2.50.3536 ॥

ततो गुणवदन्नाद्यमुपादाय पृथग्विधम् ।

अर्ध्यं चोपानयत् क्षिप्रं वाक्यं चेदमुवाच ह ॥ 2.50.37 ॥

तत इति । आद्यशब्देन पेयादिकमुच्यते । पृथग्विधं मांसादिभेदेन बहुविधम् ॥ 2.50.37 ॥

स्वागतं ते महाबाहो तवेयमखिला मही ।

वयं प्रेष्या भवान् भर्त्ता साधु राज्यं प्रशाधि नः ॥ 2.50.38 ॥

स्वागतमिति । इयं मही अटवीराज्यम् ॥ 2.50.38 ॥

भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् ।

शयनानि च मुख्यानि वाजिनां खादनं च ते ॥ 2.50.39 ॥

भक्ष्यमिति । भक्ष्यं खाद्यं व्यञ्जनादि । भोज्यम् अन्नम् । पेयं पानकादि । लेह्यं रसायनादि । खादनं घासः ॥2.50.39 ॥

गुहमेवं ब्रुवाणं तु राघवः प्रत्युवाच ह ।

अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम् ।

पद्भ्यामभिगमाच्चैव स्नेहसन्दर्शनेन च ॥ 2.50.40 ॥

गुहमिति । अर्चितत्वेपि केचिन्न तन्मात्रेण तुष्यन्ति न तथा वयमित्याह–हृष्टाश्चेति । स्नेहसन्दर्शनेन राज्यं प्रशाधीति वाक्यकृतेन स्नेहप्रदर्शनेन ॥ 2.50.40 ॥

भुजाभ्यां साधु पीनाभ्यां पीडयन् वाक्यमब्रवीत् ॥ 2.50.41 ॥

दिष्ट्या त्वां गुह पश्यामि ह्यरोगं सह बान्धवैः ।

अपि ते कुशलं राष्ट्रे मित्रेषु च धनेषु च ॥ 2.50.42 ॥

भुजाभ्यामिति । साधु पीडयन् सम्यगालिङ्गन् पीनाभ्यामित्यनेन सुखहेतुत्वमुच्यते ॥ 2.50.4142 ॥

यत्त्विदं भवता किञ्चित् प्रीत्या समुपकल्पितम् ।

सर्वं तदनुजानामि न हि वर्त्ते प्रतिग्रहे ॥ 2.50.43 ॥

यत्त्विति । अनुजानामि मम सर्वं सम्यक्कृतमित्यनुजानामि । प्रतिग्रहे न वर्त्ते प्रतिग्रहधर्मं नाश्रितवानस्मीति भावः ॥ 2.50.43 ॥

कुशचीराजिनधरं फलमूलाशिनं च माम् ।

विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् ॥ 2.50.44 ॥

राज्यान्नाद्यपरिग्रहे हेतुं दर्शयति–कुशचीराजिनधरमिति । कुशं पवित्रमेखलादिरूपम् । चीरं वल्कलम् । अजिनं कृष्णाजिनम् । धर्मे प्रणिहितं पितृवाक्यपरिपालनादिधर्मे सावधानम् । वनं गोचरः सञ्चारविषयो यस्य तम् ॥ 2.50.44 ॥

अश्वानां खादनेनाहमर्थी नान्येन केनचित् ।

एतावतात्र भवता भविष्यामि सुपूजितः ॥ 2.50.45 ॥

अश्वानामिति । अश्वानां खादनेन ग्रासेन अर्थी प्रयोजनवान्, अश्वघास एव प्रयोजनमित्यर्थः । अत्र अस्मिन्समये ॥ 2.50.45 ॥

एते हि दयिता राज्ञः पितुर्दशरथस्य मे ।

एतैः सुविहितैरश्वैर्भविष्याम्यहमर्चितः ॥ 2.50.46 ॥

एते हीति । सुविहितैः पोषितैः ॥ 2.50.46 ॥

अश्वानां प्रतिपानं च खादनं चैव सोन्वशात् ।

गुहस्तत्रैव पुरुषांस्त्वरितं दीयतामिति ॥ 2.50.47 ॥

अश्वानामिति । स गुहस्तत्रैव तदानीमेव । पुरुषान् स्वभृत्यान् प्रति । अश्वानां खादनं प्रतिपानं क्षीरादिकञ्च त्वरितं दीयतामित्यन्वशात् ॥ 2.50.47 ॥

ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम् ।

जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ॥ 2.50.48 ॥

तत इति । उत्तरासङ्गः उत्तरीयम् । अन्वास्य उपास्य । अनेन स्नानमाक्षिप्यते । भोज्यमाहारम् ॥ 2.50.48 ॥

तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ।

सभार्यस्य ततो ऽभ्येत्य तस्थौ वृक्षमुपाश्रितः ॥ 2.50.49 ॥

तस्येति । शय्याकाले पादप्रक्षालनं राज्ञोपचाराद्वा स्वशेषवृत्त्यनुरूपत्वाद्वा । यद्वा प्रक्षालनं रामकर्तृकम्, तदाचमनस्याप्युपलक्षणम् । प्रक्षाल्याचम्य शयानस्य शयाने सतीत्यर्थः । भावलक्षणे षष्ठी । ततस्तस्मात् शयनप्रदेशात् । अभ्येत्य गुहाभिमुखमेत्य वृक्षमेवोपाश्रितस्तस्थौ ॥ 2.50.49 ॥

गुहोपि सह सूतेन सौमित्रिमनुभाषयन् ।

अन्वजाग्रत्ततो राममप्रमत्तो धनुर्द्धरः ॥ 2.50.50 ॥

तथा शयानस्य ततो ऽस्य धीमतो यशस्विनो दाशरथेर्महात्मनः ।

अदृष्टदुःखस्य सुखोचितस्य सा तदा व्यतीयाय चिरेण शर्वरी ॥ 2.50.51 ॥

गुहो ऽपीति । सौमित्रिमनुभाषयन् रामगुणान् प्रस्तुत्य सौमित्रिं वाचयन्नित्यर्थः । अन्वजाग्रत् जाग्रतं

सौमित्रिमन्वजाग्रत्, किमर्थम् ? राममुद्दिश्य रामं संरक्षितुमित्यर्थः । धनुर्द्धर इत्यनेन लक्ष्मणेप्यतिशङ्का गुहस्य द्योत्यते ॥ 2.50.5051 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चाशः सर्गः ॥ 50 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चाशः सर्गः ॥ 50 ॥