श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनपञ्चाशः
रामो ऽपि रात्रिशेषेण तेनैव महदन्तरम् ।
जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ॥ 2.49.1 ॥
अथ रामवृत्तान्तं प्रस्तौति–रामोपीति । तेनैव रात्रिशेषेण येन रात्रिशेषेण पौरान् विहाय गतस्तेनैव । महदन्तरं महावकाशम् । महहूरमिति यावत् ॥ 2.49.1 ॥
तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा ।
उपास्य स शिवां सन्ध्यां विषयान्तं व्यगाहत ॥ 2.49.2 ॥
तथेति । गच्छतः गच्छति सति । व्यपायात् निरगात् । विषयान्तम् उत्तरकोसलदक्षिणावधिम् ॥ 2.49.2 ॥
ग्रामान् विकृष्ट सीमान्तान् पुष्पितानि वनानि च ।
पश्यन्नतिययौ शीघ्रं शनैरिव हयोत्तमैः ।
श्रृण्वन् वाचो मनुष्याणां ग्रामसंवासवासिनाम् ॥ 2.49.3 ॥
ग्रामानिति । विकृष्टसीमान्तान् विशेषेण कृष्ट सीमान्तान्, बीजावापार्थं सज्जीकृतक्षेत्रानित्यर्थः । शनैरिव ययौ उत्तमाश्वानां गतिचातुर्यात् पुष्पितवनरामणीयकदर्शनपारवश्याच्चातिशीघ्रमपि गमनं शनैरिव जानन् ययावित्यर्थः । ग्रामसंवासवासिनां ग्रामाः महाग्रामाः संवासा अल्पग्रामाः तेषु वासिनाम् । श्रृण्वन्नतिययाविति पूर्वेण सम्बन्धः ॥ 2.49.3 ॥
राजानं धिग् दशरथं कामस्य वशमास्थितम् ।
हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी ॥ 2.49.4 ॥
तीक्ष्णा सम्भिन्नमर्यादा तीक्ष्णकर्मणि वर्त्तते ॥ 2.49.5 ॥
या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् ।
वनवासे महाप्रज्ञं सानुक्रोशं जितेन्द्रियम् ॥ 2.49.6 ॥
कथं नाम महाभागा सीता जनकनन्दिनी ।
सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥ 2.49.7 ॥
अहो दशरथो राजा निःस्नेहः स्वसुतं प्रियम् ।
प्रजानामनघं रामं परित्यक्तुमिहेच्छति ॥ 2.49.8 ॥
एता वाचो मुनष्याणां ग्रामसंवासवासिनाम् ।
श्रृण्वन्नतिययौ वीरः कोसलान् कोसलेश्वरः ॥ 2.49.9 ॥
वाच एव प्रपञ्चयति–राजानमित्यादि । पापा पापस्वभावा । पापानुबन्धिनी नैरन्तर्येण पापकारिणीत्यर्थः । तीक्ष्णा क्रूरा । वनवासे वनवासनिमित्तं प्रवासयतीत्यन्वयः । अतिययौ अतिक्रम्य ययौ ॥ 2.49.49 ॥
ततो वेदश्रुतिं नाम शिववारिवहां नदीम् ।
उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् ॥ 2.49.10 ॥
तत इति । अगस्त्याध्युषितां दिशं दक्षिणां दिशम् ॥ 2.49.10 ॥
गत्वा तु सुचिरं कालं ततः शिवजलां नदीम् ।
गोमतीं गोयुतानूपामतरत् सागरंगमाम् ॥ 2.49.11 ॥
गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः ।
मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् ॥ 2.49.12 ॥
गत्वेति । गोयुतानूपां गोयुक्तकच्छप्रदेशाम् । सागरंगमामिति “गमेः सुप्युपसङ्ख्यानम्” इति खचि मुम् ॥ 2.49.1112 ॥
स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा ।
स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत् ॥ 2.49.13 ॥
स इति । महीं कोसलदेशम् । राष्ट्रावृताम् अवान्तरजनपदावृताम् । यद्यपि “इक्ष्वाकूणामियं भूमिः सशैलवनकानना” इति भूमिमात्रमिक्ष्वाकोरेव तथापि तस्य जन्मभूमिरियम् । इतरजनपदस्थाः करदा इति बोध्यम् ॥ 2.49.13 ॥
सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः ।
हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः ॥ 2.49.14 ॥
सूत इतीति । सूत इतीत्यत्र गुणाभावो वाक्यसन्धेरनित्यत्वात् । हंसमत्तस्वरः हंसस्येव मत्तः कलः स्वरो यस्य स तथा ॥ 2.49.14 ॥
कदाहं पुनरागम्य सरय्वाः पुष्पिते वने ।
मृगयां पर्यटिष्यामि मात्रा पित्रा च सङ्गतः ॥ 2.49.15 ॥
भाविपितृवियोगसूचकमौत्कण्ठ्यमाह–कदेति । पर्यटिष्यामि चरिष्यामि ॥ 2.49.15 ॥
राजर्षीणां हि लोके ऽस्मिन् रत्यर्थं मृगया वने ।
काले वृतां तां मनुजैः धन्विनामभिकांक्षिताम् ॥ 2.49.16 ॥
नात्यर्थमभिकांक्षामि मृगयां सरयूवने ।
रतिर्ह्येषातुला लोके राजर्षिगणसम्मता ॥ 2.49.17 ॥
ननु “स्त्रीद्यूतमृगयामद्यवाक्पारुष्योग्रदण्डताः । अर्थस्य दूषणं चेति राज्ञां व्यसनसप्तकम् ॥” इति निन्दिता मृगया कथं काङ्क्ष्यत इत्याशङ्क्य हिंस्रमृगनिवृत्त्यर्था कादाचित्का न गर्हिता किंतु निरन्तरैव, यथा राजसूये “तस्याः सभायामध्ये अधिदेवनमुद्धत्यावोक्ष्याक्षान्तं निर्वपेत्” इति विहितं द्यूतमित्याह–राजर्षीणामिति। हि यस्मात्कारणात्। राजर्षीणां वने मृगया रत्यर्थमस्तीति शेषः। काले श्राद्धादिकाले। मनुजैः सदाचारपरैः। वृतां स्वीकृताम्। धन्विनामभिकाङ्क्षितां चललक्ष्यवेधनार्थं धन्विभिरभिकाङ्क्षिताम् तां मृगयां नात्यर्थमभिकाङ्क्षामि किंचित् काङ्क्षामीत्यर्थः। रतिः क्रीडा ॥ 2.49.1617 ॥
स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा ।
तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन् ॥ 2.49.18 ॥
स इति । ऐक्ष्वाकः “दाण्डिनायन–” इत्यादिना निपातनात्साधुः । स रामः सूतं प्रति तं तमर्थं राजगुणादिरूपम् । अभिप्रेत्य हृदये कृत्वा । मधुरया गिरा वाक्यमुदीरयन् सन् अध्वानं ययौ । अमुमर्थमुत्तरत्र दशरथं प्रति सूतो व्यक्तीकरिष्यति ॥ 2.49.18 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनपञ्चाशः सर्गः ॥ 49 ॥
इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥ 49 ॥