श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टचत्वारिंशः सर्गः
तेषामेवं विषण्णानां पीडितानामतीव च ।
बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया ॥ 2.48.1 ॥
तेषामित्यादि । मुमूर्षया मर्त्तुमिच्छयोपलक्षितानाम् ॥ 2.48.1 ॥
अनुगम्य निवृत्तनां रामं नगरवासिनाम् ।
उद्गतानीव सत्त्वानि बभूबुरमनस्विनाम् ॥ 2.48.2 ॥
स्वंस्वं निलयमागम्य पुत्रदारैः समावृताः ।
अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः ॥ 2.48.3 ॥
सत्त्वानि प्राणाः । “द्रव्यासुव्यवसायेषु सत्त्वम्” इत्यमरः । उद्गतानीव बभूवुः मुमूर्छुरित्यर्थः । अमनस्विनां धैर्यहीनानाम् ॥ 2.48.23 ॥
न चाहृष्यन्न चामोदन् वणिजो न प्रसारयन् ।
न चाशोभन्त पुण्यानि नापचन् गृहमेधिनः ॥ 2.48.4 ॥
नेति । न चाहृष्यन् सुहृद्दर्शनेनापि हर्षं न प्रापुः । न चामोदन् अपूर्ववस्तुलाभेपि मोदं न प्रापुः । प्रसारयन् प्रासारयन्, पण्यानीति शेषः । पुण्यानि पुण्यफलभूतपुत्रकलत्रादीनि । नापचन्निति गृहमेधिनः गृहस्थाः । तेषां पचिक्रियासम्बन्धस्त्वर्धशरीरभूतपत्नीद्वारा ॥ 2.48.4 ॥
नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम् ।
पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ 2.48.5 ॥
नष्टमिति । नष्टं चिरकालनष्टं रत्नादिकम् । धनागमं निध्यादिलाभम् ॥ 2.48.5 ॥
गृहेगृहे रुदन्त्यश्च भर्तारं गृहमागतम् ।
व्यगर्हयन्त दुःखार्त्ता वाग्भिस्तोत्रैरिव द्विपान् ॥ 2.48.6 ॥
गृहेगृहइति । रुदन्त्यः सर्वाः स्त्रियः । भर्त्तारं स्वस्वभर्त्तारम् । व्यगर्हयन्त किमर्थं भवद्भिरागतमित्येवं निन्दन्तिस्म । तोत्रेः अङ्कुशैः ॥ 2.48.6 ॥
किं नु तेषां गृहैः कार्य्यं किं दारैः किं धनेन वा ।
पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम् ॥ 2.48.7 ॥
गर्हां विशदयति–किं न्वित्यादिश्लोकेन । इति व्यगर्हयन्तेत्यन्वयः ॥ 2.48.7 ॥
एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया ।
यो ऽनुगच्छति काकुत्स्थं रामं परिचरन् वने ॥ 2.48.8 ॥
आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च ।
येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि ॥ 2.48.9 ॥
एक इति । सीतया सह रामं सीतासहितं राममित्यर्थः ॥ 2.48.89 ॥
शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः ।
आपगाश्च महानूपाः सानुमन्तश्च पर्वताः ॥ 2.48.10 ॥
शोभयिष्यन्तीति । रम्यकाननाः तत्रतत्र रम्यवृक्षराजियुक्ताः । महानूपाः रम्यकच्छप्रदेशाः । “जलप्रायमनूपं स्यात्पुंसि कच्छः” इत्यमरः ॥ 2.48.10 ॥
काननं वापि शैलं वा यं रामो ऽभिगमिष्यति ।
प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् ॥ 2.48.11 ॥
काननमिति । नैनं शक्ष्यन्त्यनर्चितुम् अर्चितुं शक्ष्यन्त्येवेत्यर्थः ॥ 2.48.11 ॥
विचित्रकुसुमापीडा बहुमञ्जरिधारिणः ।
राघवं दर्शयिष्यन्ति नगा भ्रमरशालिनः ॥ 2.48.12 ॥
विचित्रेति । विचित्रकुसुमापीडाः विचित्रपुष्पशेखनराः । मञ्जरीत्यत्र छान्दसो ह्रस्वः । दर्शयिष्यन्ति, आत्मानमिति शेषः । नगाः वृक्षाः ॥ 2.48.12 ॥
अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।
दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम् ॥ 2.48.13 ॥
प्रस्रविष्यन्ति तोयानि विमलानि महीधराः ।
विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान् ।
पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् ॥ 2.48.14 ॥
अकाल इति । दर्शयिष्यन्ति वृक्षलतादिद्वारेति भावः । अनुक्रोशात् आदरादित्यर्थः ॥ 2.48.1314 ॥
यत्र रामो भयं नात्र नास्ति तत्र पराभवः ।
स हि शूरो महाबाहुः पुत्रो दशरथस्य च ॥ 2.48.15 ॥
यत्रेति । यत्र देशे रामो वर्त्तते अत्र भयं नास्ति । तत्र पराभवोपि नास्ति ॥ 2.48.15 ॥
पुराभवति नो दूरादनुगच्छाम राघवम् ॥ 2.48.16 ॥
पुरेति । दूरात् पुराभवति भविष्यति । ततः पूर्वमेवानुगच्छाम इत्यर्थः । “यावत्पुरानिपातयोर्लट्” इति लट् ॥ 2.48.16 ॥
पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः ।
स हि नाथो जनस्यास्य स गतिः स परायणम् ॥ 2.48.17 ॥
वयं परिचरिष्यामः सीतां यूयं तु राघवम् ।
इति पौरस्त्रियो भर्तृ़न् दुःखार्तास्तत्तदब्रुवन् ॥ 2.48.18 ॥
युष्माकं राघवो़ ऽरण्ये योगक्षेमं विधास्यति ।
सीता नारीजनस्यास्य योगक्षेमं करिष्यति ॥ 2.48.19 ॥
पादच्छायेति पादसेवा लक्ष्यते । सुखा सुखसाधनभूता । गम्यत इति गतिः प्राप्यः । परायणं परमयनम् । सर्वप्रकारेणाधारभूत इत्यर्थः ॥ 2.48.1719 ॥
को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च ।
सम्प्रीयेतामनोज्ञेन वासेन हृतचेतसा ॥ 2.48.20 ॥
को न्वनेनेति । अप्रतीतेन अप्रशस्तेन, सतामयोग्येनेति यावत् । उत्कण्ठया शोकस्मरणेन सहितः सोत्कण्ठः, कृतः सोत्कठः सोत्कण्ठितः तादृशो जनो यस्य तेन । अमनोज्ञेन उद्वेगकारिणा । हृतचेतसा चित्तनाशकेन अनेन वासेन, नगरणेत्यर्थः । को नु जनः संप्रीयेत न कोपीत्यर्थः । तस्मादयं वासस्त्याज्य इति भावः ॥ 2.48.20 ॥
कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत् ।
न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः ॥ 2.48.21 ॥
कैकेय्या इति । अधर्म्यं धर्मादपेतमित्यर्थः । अनाथवत् नाथशून्यम् । भाविप्रतिसन्धानेनेदमुक्तम् । कुत इति पुत्रधनकृतपुरुषार्थस्य जीवितमूलत्वादित्यर्थः ॥ 2.48.21 ॥
यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् ।
कं सा परिहरेदन्यं कैकेयी कुलपांसनी ॥ 2.48.22 ॥
ययेति । पुत्रो रामः परिहरेत् विपद्भ्य इति शेषः । रक्षेदिति यावत् ॥ 2.48.22 ॥
कैकेय्या न वयं राज्ये भृतका निवसेम हि ।
जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे ॥ 2.48.23 ॥
या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा ।
कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम् ॥ 2.48.24 ॥
कैकेय्या इति । जीवन्त्याः कैकेय्याः राज्ये भृतकाः भृतिभुजः “भृतको भृतिभुक्” इत्यमरः । कैकेयीजीवनपर्यन्तं न तस्या राज्ये निवसेमहीति जीवन्तीशब्दस्य भावः ॥ 2.48.2324 ॥
उपद्रुतमिदं सर्वमनालम्बमनायकम् ।
कैकेय्या हि कृते सर्वं विनाशमुपयास्यति ॥ 2.48.25 ॥
उपद्रुतमिति । कैकेय्याः कृते कैकेयीनिमित्तम् ॥ 2.48.25 ॥
न हि प्रव्रजिते रामे जीविष्यति महीपतिः ।
मृते दशरथे व्यक्तं विलापस्तदनन्तरम् ॥ 2.48.26 ॥
विनाशप्रकारमुपपादयन्ति–न हीति । विलापो विनाशः ॥ 2.48.26 ॥
ते विषं पिबतालोड्य क्षीणपुण्याः सुदुर्गताः ।
राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत ॥ 2.48.27 ॥
त इति । ते यूयम् । आलोड्य अमुमर्थमालोच्य । सुदुर्गताः सुदरिद्राः, रामरूपधनहीना इत्यर्थः । अश्रुतिं यत्र गते नामापि न श्रूयते तं देशमित्यर्थः ॥ 2.48.27 ॥
मिथ्या प्रव्राजितो रामः सभार्य्यः सह लक्ष्मणः ।
भरते सन्निसृष्टाः स्मः सौनिके पशवो यथा ॥ 2.48.28 ॥
पितृवचननिर्देशेन कैकेयीप्रियचिकीर्षया च क्रियमाणे प्रव्रजने को दोष इत्यत्राह–मिथ्याप्रव्राजित इति । मिथ्याप्रव्राजितः कपटेन प्रव्राजितः । सन्निसृष्टाः निक्षिप्ताः, राज्ञेति शेषः । सौनिके पशुमारके ॥ 2.48.28 ॥
पूर्णचन्द्राननः श्यामो गूढजत्रुररिन्दमः ।
आजानुबाहुः पद्माक्षो रामो लक्ष्मणपूर्वजः ॥ 2.48.29 ॥
पूर्वाभिभाषी मधुरः सत्यवादी महाबलः ।
सौम्यश्च सर्वलोकस्य चन्द्रवत्प्रियदर्शनः ॥ 2.48.30 ॥
नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः ।
शोभयिष्यत्यरण्यानि विचरन् स महारथः ॥ 2.48.31 ॥
विश्लेषासहिष्णुतया रामस्त्वकार्यं कृतवानित्यभिधाय तद्गुणकीर्तनेनाप्यायनं कुर्वन्ति–पूर्णेत्यादिना । गूढजत्रुः गूढे निमग्ने जत्रुणी असंसन्धी यस्य स तथोक्तः । “स्कन्धो भुजशिरो ऽसों ऽस्त्री सन्धी तस्यैव जत्रुणी” इत्यमरः । पूर्वाभिभाषी स्वसौहार्द्दभव्यत्वप्रदर्शनाय सर्वत्र पूर्वभाषणशीलः ॥ 2.48.2931 ॥
तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः ।
चुक्रुशुर्दुःखसन्तप्ता मृत्योरिव भयागमे ॥ 2.48.32 ॥
ता इति । मृत्योर्भयागमे मरणसमये ॥ 2.48.32 ॥
इत्येवं विलपन्तीनां स्त्रीणां वेश्मसु राघवम् ।
जगामास्तं दिनकरो रजनी चाभ्यवर्त्तत ॥ 2.48.33 ॥
इतीति । विलपन्तीनां विलपन्तीषु सतीष्वित्यर्थः । राघवमुद्दिश्येति शेषः ॥ 2.48.33 ॥
नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा ।
तिमिरेणाभिलिप्तेव सा तदा नगरी बभौ ॥ 2.48.34 ॥
नष्टेति । नष्टज्वलनसम्पाता नष्टाग्निप्रणयना । प्रशान्ताध्यायसत्कथा अध्यायो वेदः, सत्कथा पुराणादिः निवृत्तवेदाध्ययनपुराणपाठेत्यर्थः ॥ 2.48.34 ॥
उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया ।
अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ॥ 2.48.35 ॥
उपशान्तेति । उपशान्तवणिक्पण्या उपशान्तानि वणिजां पण्यानि यस्यां सा पण्यकल्पनाशून्येत्यर्थः ॥ 2.48.35 ॥
तथा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते ।
विलप्य दीना रुरुदुर्विचेतसः सुतैर्हि तासामधिको हि सो ऽभवत् ॥ 2.48.36 ॥
तथेति । सुतैः सुतेभ्यः । पञ्चम्यर्थे तृतीया । भ्रातृभ्यश्चेत्यपि द्रष्टव्यम् ॥ 2.48.36 ॥
प्रशान्तगीतोत्सवनृत्तवादना व्यपास्तहर्षा पिहितापणोदया ।
तदा ह्ययोध्या नगरी बभूव सा महार्णवः संक्षपितोदको यथा ॥ 2.48.37 ॥
प्रशान्तेति । पिहितापणोदया पिहितः आपणोदयः आपणस्थवस्तुसमृद्धिर्यस्याः सा तथोक्ता । आपणोदयस्य पिहितत्वमापणाविधानात् । संक्षपितोदकः संशोषितोदक इत्यर्थः ॥ 2.48.37 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टचत्वारिंशः सर्गः ॥ 48 ॥
इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टचत्वारिंशः सर्गः ॥ 48 ॥