श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षट्चत्वारिंशः सर्गः
ततस्तु तमसातीरं रम्यमाश्रित्य राघवः ।
सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत् ॥ 2.46.1 ॥
सीतामुद्वीक्ष्य लक्ष्मणं प्रति कथनं वक्ष्यमाणस्यानुत्कण्ठाकारणस्य सीताविषयेपि तुल्यत्वज्ञापनाय ॥ 2.46.1 ॥
इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम् ।
वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि ॥ 2.46.2 ॥
इयमिति । वनवासस्य पूर्वा प्रथमा । अद्येयं निशा इदानीमुपस्थिता रात्रिः । प्रहितागतप्रया । अतः स त्वम् उत्कण्ठितुं नार्हसि । सीतामुद्वीक्ष्य सौमित्रिमब्रवीदित्यस्यैवं वाभिप्रायःअतिसुकुमारी सीता कथं पद्भ्यामेव वनं गच्छेदिति नोत्कण्ठितुमर्हसीति ॥ 2.46.2 ॥
पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः ।
यथानिलयमायद्भिर्निलीनानि मृगद्विजैः ॥ 2.46.3 ॥
पश्येति । शून्यानि निष्प्रभाणि । यथानिलयं यथास्थानम् । आयद्भिरागच्छद्भिः । मृगद्विजैर्निलीनानि । व्याप्तानि तात्कालिकतच्छब्देः रुदन्तीव । निष्प्रभत्वेन रोदनोत्प्रेक्षा ॥ 2.46.3 ॥
अद्यायोध्या तु नगरी राजधानी पितुर्मम ।
सस्त्रीपुंसागतानस्मान् शोचिष्यति न संशयः ॥ 2.46.4 ॥
वनरोदनोत्प्रेक्षया उद्बुद्धसंस्कारो नगरवृत्तान्तं स्मरति–अद्येति । स्त्रीपुंसेति “अचतुरविचतुरसुचतुरस्त्रीपुंस” इत्यादिना निपातनादकारान्तत्वम् ॥ 2.46.4 ॥
अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः ।
त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा ॥ 2.46.5 ॥
शोचनहेतुमाह–अनुरक्ता इति । गुणैर्हेतुभिः राजानं प्रत्यनुरक्ता हि राजानमित्युपादानमौद्धत्यपरिहाराय ॥ 2.46.5 ॥
पितरं चानुशोचामि मातरं च यशस्विनीम् ।
अपि वा ऽन्धौ भवेतां तु रुदन्तौ तावभीक्ष्णशः ॥ 2.46.6 ॥
पितरमिति । रुदन्ताविति सन्ततरोदनवशेनान्धौ स्यातामित्यर्थः ॥ 2.46.6 ॥
भरतः खलु धर्मात्मा पितरं मातरं च मे ।
धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति ॥ 2.46.7 ॥
भरतस्यानृशंसत्वं विचिन्त्याहं पुनःपुनः ।
नानुशोचामि पितरं मातरं चापि लक्ष्मण ॥ 2.46.8 ॥
एवमपि काचित्प्रत्याशास्तीत्याह–भरत इति ॥ 2.46.78 ॥
त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम् ।
अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता ॥ 2.46.9 ॥
त्वया चोदितमेव कृतमित्याह–त्वयेति । कार्यम् अवश्यकर्त्तव्यम् । तत्र हेतुः अन्वेष्टव्येति ॥ 2.46.9 ॥
अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम् ।
एतद्धि रोचते मह्यं वन्ये ऽपि विविधे सति ॥ 2.46.10 ॥
एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः ।
अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह ॥ 2.46.11 ॥
अद्भिरिति । अद्भिरेव वत्स्यामि अपएवाहारीकृत्य वत्स्यामि । वनवासोपक्रमदिवसत्वादस्य पुण्यक्षेत्रत्वाच्चोपवासः । एतद्धि रोचते नान्यत्, अनुरक्तजनदुःखस्मरणादिति भावः ॥ 2.46.1011 ॥
सो ऽश्वान् सुमन्त्रः संयम्य सूर्ये ऽस्तं समुपागते ।
प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः ॥ 2.46.12 ॥
स इति । प्रभूतयवसान् पर्याप्ततृणान् “यवसं तृणमर्ज्जुनम्” इत्यमरः । प्रत्यनन्तरः प्रतिगतमनन्तरकृत्यं येन स तथोक्तः । अवगतानन्तरकार्य इत्यर्थः । सन्निहित इत्यर्थ इत्येके ॥ 2.46.12 ॥
उपास्य तु शिवां सन्ध्यां दृष्ट्वा रात्रिमुपस्थिताम् ।
रामस्य शयनं चक्रे सूतः सौमित्रिणा सह ॥ 2.46.13 ॥
उपास्येति । उपासनं नमस्कारः । सूतजातेरपि नमस्कारमात्रं सम्भवति ॥ 2.46.13 ॥
तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम् ।
रामः सौमित्रिणा सार्द्धं सभार्यः संविवेश ह ॥ 2.46.14 ॥
सभार्यं सम्प्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः ।
कथयामास सूताय रामस्य विविधान् गुणान् ॥ 2.46.15 ॥
तामिति । वृक्षदलैः सौमित्रिणा सार्द्धं सूतेन कृतां वीक्ष्य इत्यन्वयः ॥ 2.46.1415 ॥
जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः ।
सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् ॥ 2.46.16 ॥
जाग्रत इति । तां रात्रिमिति अत्यन्तसंयोगे द्वितीया । सर्वां रात्रिं जाग्रतः सूतस्य सूताय । रामस्य गुणान् कालक्षेपार्थं ब्रुवतः सौमित्रेः सौमित्रौ ब्रुवति सति । रविरुदितः उदितुमारब्धः, उषःकालो ऽभूदित्यर्थः । यद्वा उदयपर्यन्तं गमनकालेपि गुणा न ब्रवीदिति भावः ॥ 2.46.16 ॥
गोकुलाकुलतीरायास्तमसाया विदूरतः ।
अवसत्तत्र तां रात्रिं रामः प्रकृतिभिः सह ॥ 2.46.17 ॥
पूर्वकथाशेषं प्रस्तौति–गोकुलेति । विदूरतः अदूरतः । प्रकृतिभिः पौरश्रेणिभिः । “राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोपि च” इत्यमरः ॥ 2.46.17 ॥
उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य च ।
अब्रवीद्भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम् ॥ 2.46.18 ॥
उत्थायेति । निशाम्य दृष्ट्वा ॥ 2.46.18 ॥
अस्मद्व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्वपि ।
वृक्षमूलेषु संसुप्तान् पश्य लक्ष्मण साम्प्रतम् ॥ 2.46.19 ॥
अस्मदिति । अस्मद्व्यपेक्षान् अस्मास्वेव विशेषेणापेक्षावतः ॥ 2.46.19 ॥
यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्त्तने ।
अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥ 2.46.20 ॥
यथेति । पौराः अस्मन्निवर्त्तने यथा येन प्रकारेण नियमं कुर्वन्ति तेन प्रकारेण प्राणानपि असिष्यन्ति त्यक्ष्यन्ति । निश्चयं तु निवर्तननिश्चयं तु न त्यक्ष्यन्तीति सम्बन्धः ॥ 2.46.20 ॥
यावदेव तु संसुप्तास्तावदेव वयं लघु ।
रथमारुह्य गच्छाम पन्थानमकुतोभयम् ॥ 2.46.21 ॥
यावदिति । यावदेव यावत्येव काले । तावदेव तावत्येवकाले । लघु क्षिप्रम् । रथमारुह्य गच्छाम ।
“लघुक्षिप्रमरं द्रुतम्” इत्यमरः ॥ 2.46.21 ॥
अतो भूयो ऽपि नेदानीमिक्ष्वाकुपुरवासिनः ।
स्वपेयुरमुरक्ता मां वृक्षमूलानि संश्रिताः ॥ 2.46.22 ॥
अत इति । इक्ष्वाकुपुरवासिनः मामनुरक्ताः इदानीमिव भूयः पुनर्वृक्षमूलानि संश्रिताः न स्वपेयुः अतो रथमारुह्य गच्छामेति पूर्वेण सम्बन्धः ॥ 2.46.22 ॥
पौरा ह्यात्मकृताद्दुःखाद्विप्रमोक्ष्या नृपात्मजैः ।
न ते खल्वात्मना योज्या दुःखेन पुरवासिनः ॥ 2.46.23 ॥
अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम् ।
रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति ॥ 2.46.24 ॥
अथ रामो ऽब्रवीच्छ्रीमान् सुमन्त्रं युज्यतां रथः ।
गमिष्यामि ततो ऽरण्यं गच्छ शीघ्रमितः प्रभो ॥ 2.46.25 ॥
सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः ।
योजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत् ॥ 2.46.26 ॥
पौरा इति । आत्मकृतात् स्वकृतात् । आत्मना स्वेन ॥ 2.46.2326 ॥
अयं युक्तो महाबाहो रथस्ते रथिनां वर ।
तमारोह सुभद्रं ते ससीतः सहलक्ष्मणः ॥ 2.46.27 ॥
अयमिति । युक्तः सज्जः ॥ 2.46.27 ॥
तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः ।
शीघ्रगामाकुलावर्त्तां तमसामतरन्नदीम् ॥ 2.46.28 ॥
तमिति । सपरिच्छदः धनुःकवचादिसहितः । आकुलावर्त्ताम् आवर्त्ताकुलाम् ॥ 2.46.28 ॥
स संतीर्य्य महाबाहुः श्रीमान् शिवमकण्टकम् ।
प्रापद्यत महामार्गमभयं भयदर्शिनाम् ॥ 2.46.29 ॥
स संतीर्येति । महामार्गं प्रापद्यत जलस्थितरथादवतीर्य पद्भ्यामेव महामार्गं प्रापदित्यर्थः । भयदर्शिनां श्वापदादीनाम् । अभयं तत्सम्बन्धिभयरहितमित्यर्थः ॥ 2.46.29 ॥
मोहनार्थं तु पौराणां सूतं रामो ऽब्रवीद्वचः ।
उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे ॥ 2.46.30 ॥
मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः ।
यथा न विद्युः पौरा मां तथा कुरु समाहितः ॥ 2.46.31 ॥
मोहनार्थमिति । मोहनं वञ्चनम् । ननु सदयस्य रामस्य स्वविरहासहिष्णूनां स्वस्मिन्निरतिशयप्रेमभाजां वञ्चनमनुचितम् । उच्यते–नेदं वञ्चनम् । व्रणचिकित्सान्यायेन नागरिकाणामुन्मस्तकानन्देन सत्ता न भवेदिति सुसात्म्यानुभवप्रदानार्थं वनवासव्याजेन विश्लेषस्य सङ्कल्पिततया हितव्यापारत्वेन वञ्चनत्वासम्भवात् । यदि रामस्य तथा सङ्कल्पो न भवेत्तर्हि कथं निश्शेषसर्वजननिद्राकरणम्, सुमन्त्रलक्ष्मणवत्तेष्वेकस्यापि निर्निद्रत्वापत्तेः । मोहनमेवाह उदङ्मुख इत्यादि । पौराणां मोहनार्थमुदङ्मुखः प्रयाहि अयोध्यां प्रति रामो निवृत्त इति पौराणां भ्रान्तिमुत्पादयितुमुदङ्मुखो याहीत्यर्थः । स्वस्य रथेनोदङ्मुखं गत्वा मार्गान्तरेण वनगमनस्य कर्तुं शक्यत्वेपि अयोध्याभिमुखगमने व्रतभङ्ग स्यादिति धिया सुमन्त्रमभिमुखो याहीत्युक्तवान् । तथा कुर्विति पौराणां मोहनार्थं सूतमब्रवीदिति सम्बन्धः ॥ 2.46.3031 ॥
रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः ।
प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् ॥ 2.46.32 ॥
रामस्येति । प्रत्यागम्येति मार्गान्तरेण प्रत्यागम्येत्यर्थः ॥ 2.46.32 ॥
तौ संप्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्द्धनौ ।
प्रचोदयामास ततस्तुरङ्गमान् स सारथिर्येन पथा तपोवनम् ॥ 2.46.33 ॥
ताविति । सम्प्रयुक्तं सम्यगानीतं रथं समास्थितौ, अभूतामिति शेषः । येन पथा तपोवनं प्राप्यते तेन प्रचोदयामास ॥ 2.46.33 ॥
ततः समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ ।
उदङ्मुखं तं तु रथं चकार स प्रयाणमाङ्गल्यनिमित्तदर्शनात् ॥ 2.46.34 ॥
तत इति । सः सुमन्त्रः । प्रयाणमाङ्गल्यानिमित्तदर्शनात् प्रयाणानुकूलमङ्गलसूचकनिमित्तदर्शनाद्धेतो रथमुदङ्मुखं चकार निमित्तस्वीकारार्थमुदङ्मुखं चकारेत्यर्थः । ततः निमित्तस्वीकारानन्तरम् । रथमास्थाय वनं ययावितिसम्बन्धः । प्रयाणे दक्षिणपादोद्धारवत् उदङ्मुखगमनं मङ्गलायेति भावः ॥ 2.46.34 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षट्चत्वारिंशः सर्गः ॥ 46 ॥
इति श्रीगोविन्दराज0 श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ॥ 46 ॥