श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विचत्वारिंशः सर्गः
यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत ।
नैवेक्ष्वाकुवरस्तावत्सञ्जहारात्मचक्षुषी ॥ 2.42.1 ॥
यावत्त्वित्यादि । निर्यतः निर्गच्छतः । तस्य रामस्य सम्बन्धि रजोरूपं रजस्स्वरूपं यावददृश्यत तावन्न सञ्जहार न निवर्तितवान् ॥ 2.42.1 ॥
यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् ।
तावद्व्यवर्द्धतेवास्य धरण्यां पुत्रदर्शने ॥ 2.42.2 ॥
यावद्राजेति । पश्यति रजोद्वारेणेति शेषः । पुत्रदर्शने पुत्रदर्शननिमित्तम् । धरण्यां रजो व्यवर्द्धत मन्निमित्तकेन पुत्रदर्शनेन राजा कञ्चित्कालमाप्यायितो भवेदिति मत्वेव रजो व्यवर्द्धतेत्यर्थः । अथवा अस्य देहो व्यवर्द्धत पुत्रदर्शनायोत्थाय स्थित इत्यर्थः ॥ 2.42.2 ॥
न पश्यति रजोप्यस्य यदा रामस्य भूमिपः ।
तदार्तश्च विषण्णश्च पपात धरणीतले ॥ 2.42.3 ॥
न पश्यतीति । आर्तः पीडितशरीरः । विषण्णः दुःखितः ॥ 2.42.3 ॥
तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना ।
वामं चास्यान्वगात् पार्श्वं कैकेयी भरतप्रिया ॥ 2.42.4 ॥
तस्येति । बाहुमन्वागात् उद्धरणार्थमिति भावः । भरतप्रिया प्रियभरता । पार्श्वमित्यनेन कौसल्यावत् बाहुं नालम्बितवतीति गम्यते ॥ 2.42.4 ॥
तां नयेन च सम्पन्नो धर्मेण विनयेन च ।
उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः ॥ 2.42.5 ॥
तामिति । नयेन नीत्या । विनयेन सदाचारेण ॥ 2.42.5 ॥
कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी ।
न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी ॥ 2.42.6 ॥
कैकेयीति । न भार्या न च बान्धवी, त्वमिति शेषः । न च बान्धवी पत्नीत्वसम्बन्धोपि नास्तीत्यर्थः । अण्णन्तत्वात् ङीप् ॥ 2.42.6 ॥
ये च त्वामनुजीवन्ति नाहं तेषां न ते मम ।
केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम् ॥ 2.42.7 ॥
न केवलं त्वयि सम्बन्धाभावः, त्वत्सम्बन्धिष्वपि मम सम्बन्धो नास्तीत्याह–ये चेति । नाहं तेषामिति, प्रभुरिति शेषः । न ते मम शेषभूता इत्यर्थः ॥ 2.42.7 ॥
अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् ।
अनुजानामि तत्सर्वमस्मिंल्लोके परत्र च ॥ 2.42.8 ॥
अग्निसाक्षिकमूढा कथं न भार्या स्यामित्यमाह–अगृह्णामिति । पर्यणयं प्रदक्षिणमनयम् । अनुजानामि परित्यजामीत्यर्थः । इह लोके परत्र च ऐहिकमामुष्मिकं च सर्वं त्वत्सम्बन्धेनागतं त्यजेयमित्यर्थः ॥ 2.42.8 ॥
भरतश्चेत् प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् ।
यन्मे स दद्यात्प्रीत्यर्थं मां मा तद्दत्तमागमत् ॥ 2.42.9 ॥
भरत इति । प्रतीतः प्रमुदित इत्यर्थः । पित्रर्थं यदुदकादिकं दद्यात् तद्दत्तं मां मागमत्, नोपतिष्ठेदित्यर्थः ॥ 2.42.9 ॥
अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम् ।
न्यवर्त्तत तदा देवी कौसल्या शोककर्शिता ॥ 2.42.10 ॥
अथेति । न्यवर्त्तत तेन सहेति शेषः ॥ 2.42.10 ॥
हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना ।
अन्वतप्यत धर्मात्मा पुत्रं सञ्चिन्त्य तापसम् ॥ 2.42.11 ॥
हत्वेति । तापसं तापसवेषधारिणम् ॥ 2.42.11 ॥
निवृत्त्यैव निवृत्त्यैव सीदतो रथवर्त्मसु ।
राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ॥ 2.42.12 ॥
विललाप च दुःखार्त्तः प्रियं पुत्रमनुस्मरन् ।
नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत् ॥ 2.42.13 ॥
वाहनानां च मुख्यानां वहतां त ममात्मजम् ।
पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥ 2.42.14 ॥
निवृत्त्येति । ग्रस्तस्य राहुग्रस्तस्य ॥ 2.42.1214 ॥
यः सुखेषूपधानेषु शेते चन्दनरूषितः ।
वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः ॥ 2.42.15 ॥
स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः ।
काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते ॥ 2.42.16 ॥
य इति । वीज्यमानः चामरव्यजनादिभिरिति शेषः । स्त्रीभिः परिचारिकाभिः ॥ 2.42.1516 ॥
उत्थास्यति च मेदिन्याः कृपणः पांसुकुण्ठितः ।
विनिश्वसन् प्रस्रवणात् करेणूनामिवर्षभः ॥ 2.42.17 ॥
उत्थास्यतीति । प्रस्रवणात् निर्झरात्, तत्समीपादित्यर्थः । “उत्सः प्रस्रवणं पारिप्रवाहो निर्झरो झरः” इत्यमरः ॥ 2.42.17 ॥
द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः ।
राममुत्थाय गच्छन्तं लोकनाथमनाथवत् ॥ 2.42.18 ॥
द्रक्ष्यन्तीति । अनाथवत् गच्छन्तमित्यन्वयः ॥ 2.42.18 ॥
सा नूनं जनकस्येष्टा सुता सुखसदोचिता ।
कण्टकाक्रमणाक्रान्ता वनमद्य गमिष्यति ॥ 2.42.19 ॥
सेति । सुखसदोचिता सुखस्य सदोचिता । कण्टकेष्वाक्रमणं पद विक्षेपः ॥ 2.42.19 ॥
अनभिज्ञा वनानां सा नूनं भयमुपैष्यति ।
श्वापदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम् ॥ 2.42.20 ॥
सकामा भव कैकेयि विधवा राज्यमावस ।
न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे ॥ 2.42.21 ॥
अनभिज्ञेति । श्वापदानर्दितं श्वापदाः व्याघ्रादिहिंस्रपशवः तेषाम् आनर्दितं शब्दम् ॥ 2.42.2021 ॥
इत्येवं विलपन् राजा जनौघेनाभिसंवृतः ।
अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम् ॥ 2.42.22 ॥
इतीति । अपस्नातः मृतस्नातः । “अपस्नातो मृतस्नातः” इत्यमरः । अरिष्टमशुभम् “अरिष्टे तु शुभाशुभे” इत्यमरः । ननु राममनुगम्य पुनः पुरप्रवेशसमये अपस्नातोरिष्टमिति कथमश्लीलमुक्तम् ? सत्यम् दशरथो हि तदानीं नूनं भयमुपैष्यतीत्यादिना सीताविपत्तिं शङ्कमानस्तद्द्वारा रामविपत्तिं तन्मुखेन स्वस्यापि विनाशं शङ्कितवान् अत एव सीताद्वारा रामविपत्तिशङ्कया सकामा भव कैकेयीत्युक्तवान्, स्वविनाशाभिप्रायेण विधवा राज्यमावसेत्युपदर्शितवांश्च । तेनापस्नातइवेत्युक्तिः राजबुद्ध्यनुसारादुचितैव ॥ 2.42.22 ॥
शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् ।
क्लान्तदुर्बलदुःखार्त्तां नात्याकीर्णमहापथाम् ॥ 2.42.23 ॥
तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् ।
विलपन् प्राविशद्राजा गृहं सूर्य इवाम्बुदम् ॥ 2.42.24 ॥
शून्येत्यादि । शून्यचत्वरवेश्मान्तां निर्जनचतुष्पथगृहद्वाराम् । संवृतापणदेवतां पिहितापणदेवतागृहद्वाराम् । क्लान्तदुर्बलदुःखार्तां चिन्तातिरेकेण क्लान्ता रामविरहेण निस्सत्त्वाः दुःखार्ताश्च जनाः यस्यां तथा । अनेन सञ्चारक्षमाः सर्वे राममनुगता इति द्योत्यते । नात्याकीर्णमहापथां क्वचित्क्वचित् दृश्यमानजनयुक्तमहापथामित्यर्थः । अवान्तरमार्गास्तु केवलं निर्जना इति भावः ॥ 2.42.2324 ॥
महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् ।
रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥ 2.42.25 ॥
कीदृशं प्राविशदित्यपेक्षयामाह–महाह्रदमिति । अक्षोभ्यं सोरगतया । प्राविशदित्यनुषङ्गः ॥ 2.42.25 ॥
अथ गद्गदशब्दस्तु विलपन् मनुजाधिपः ।
उवाच मृदु मन्दार्थं वचनं दीनमस्वरम् ॥ 2.42.26 ॥
अथेति । गद्गदः शब्दो यस्य स तथोक्तः । मृदु उपांशु । मन्दार्थमल्पार्थम्, शब्दप्रपञ्चवदित्यर्थः । अस्वरं कण्ठस्वररहितम् ॥ 2.42.26 ॥
कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम् ।
न ह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति ॥ 2.42.27 ॥
कौसल्याया इति । नयन्तु, द्वारदर्शिन इति शेषः । अन्यत्र तद्व्यतिरिक्तस्त्रीगृहे ॥ 2.42.27 ॥
इति ब्रुवन्तं राजानमनयन् द्वारदर्शिनः ।
कौसल्याया गृहं तत्र न्यवेश्यत विनीतवत् ॥ 2.42.28 ॥
इतीति । द्वारदर्शिनः मार्गप्रदर्शकाः द्वारपालकाः । न्यवेश्यत निवेशितः विनीवत् विनीतार्हम् ॥ 2.42.28 ॥
ततस्तस्य प्रविष्टस्य कौसल्याया निवेशनम् ।
अधिरुह्यापि शयनं बभूव लुलितं मनः ॥ 2.42.29 ॥
तत इति । लुलितं कलुषितमिति यावत् ॥ 2.42.29 ॥
पुत्रद्वयविहीनं च स्नुषयापि विवर्जितम् ।
अपश्यद्भवनं राजा नष्टचन्द्रमिवाम्बरम् ॥ 2.42.30 ॥
तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान् ।
उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् ॥ 2.42.31 ॥
पुत्रेति । नष्टचन्द्रमुपलक्षणमेतत्, चन्द्रनक्षत्रताराहीनमित्यर्थः ॥ 2.42.3031 ॥
सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः ।
परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् ॥ 2.42.32 ॥
सुखिता इति । तं कालं तस्मिन् काले तावत्कालमिति वा ॥ 2.42.32 ॥
अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः ।
अर्द्धरात्रे दशरथः कौसल्यामिदमब्रवीत् ॥ 2.42.33 ॥
अथेति । कालरात्र्यां संहाररात्र्याम् । प्रपन्नायां प्राप्तायाम् ॥ 2.42.33 ॥
रामं मे ऽनुगता दृष्टिरद्यापि न निवर्त्तते ।
न त्वा पश्यामि कौसल्ये साधु मा पाणिना स्पृश ॥ 2.42.34 ॥
राममिति । राममनुगता दृष्टिः, समुद्रगृहीतं पुनः किं निवर्त्तते ? मे दृष्टिः षष्टिवर्षसहस्रं कृतोपवासादिकं निवर्तते अद्यापि न निवर्त्तते तद्दर्शनाभावेपि तन्मातृत्वद्दर्शनं कर्तुमुचिते कालेपि न निवर्तते । न त्वा पश्यामि कौसल्ये रामदर्शनं विना कैकेयीमुखदर्शनपापनिवृत्तये त्वन्मुखं द्रष्टुमुत्सुको ऽस्मि तदपि न लब्धम् । साधु मा पाणिना स्पृश नित्यानुमेयानीन्द्रियाणि कार्यकल्प्यानि । रूपग्रहणाभावात् चक्षुरिन्द्रियं गतमित्यवगतम् । त्वगिन्द्रियमस्ति नवेति सम्प्रति जानीहि, साधु कैकेय्या कृतसङ्केतो रामं निर्यापितवान् अद्य किं किंचिदभिनयं करोतीति न मन्येथाः अयमज्ञानादेवं कृतवानिति समनस्कतया स्पृश । यद्वा मां पाणिना स्पृश, राममातृत्वात् तव पाणिस्पर्शनं रामस्पर्शनमिति भावः ॥ 2.42.34 ॥
तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम् ।
उपोपविश्याधिकमार्तरूपा विनिश्वसन्ती विललाप कृच्छ्रम् ॥ 2.42.35 ॥
तमिति । उपोपविश्य शयनसमीपे उपविश्येत्यर्थः ॥ 2.42.35 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥ 42 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ॥ 42 ॥