श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकचत्वारिंशः
तस्मिंस्तु पुरुषव्याघ्रे विनिर्याते कृताञ्जलौ ।
आर्तशब्दो ऽथ संजज्ञे स्त्रीणामन्तःपुरे महान् ॥ 2.41.1 ॥
तस्मिन्नित्यादि । कृताञ्जलौ मातृपरिवेष्टितं पितरमुद्दिश्य कृताञ्जलौ । अन्तःपुरे स्त्रीणां दशरथेन समागतानामन्तःपुरवासिनीनां स्त्रीणाम् ॥ 2.41.1 ॥
अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः ।
यो गतिः शरणं चासीत् स नाथः क्वनु गच्छति ॥ 2.41.2 ॥
अनाथस्येति । तपस्विनः शोच्यस्य । गम्यत इति गतिः, प्राप्यइतियावत् । शरणं रक्षिता । “शरणं गृहरक्षित्रोः” इत्यमरः ॥ 2.41.2 ॥
न क्रुद्ध्यत्यभिशप्तोपि क्रोधनीयानि वर्जयन् ।
क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्वचिद्गतः ॥ 2.41.3 ॥
कौसल्यायां महातेजा यथा मातरि वर्तते ।
तथा यो वर्त्तते ऽस्मासु महात्मा क्वनु गच्छति ॥ 2.41.4 ॥
कैकेय्या क्लिश्यमानेन राज्ञा सञ्चोदितो वनम् ।
परित्राता जनस्यास्य जगतः क्वनु गच्छति ॥ 2.41.5 ॥
नेति । अभिशप्तः मिथ्याभिशंसनं प्रापितः । क्वचिदित्यस्य न क्रुद्ध्यतीत्यनेन सम्बन्धः ॥ 2.41.35 ॥
अहो निश्चेतनो राजा जीवलोकस्य सम्प्रियम् ।
धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति ॥ 2.41.6 ॥
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।
रुरुदुश्चैव दुःखार्त्ताः सस्वरं च विचुक्रुशुः ॥ 2.41.7 ॥
स तमन्तःपुरे घोरमार्तशब्दं महीपतिः ।
पुत्रशोकाभिसन्तप्तः श्रुत्वा चासीत् सुदुःखितः ॥ 2.41.8 ॥
अहो इति । निश्चेतनः बुद्धिहीनः । प्रवत्स्यति प्रवासयति ॥ 2.41.68 ॥
नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः ।
अकुर्वन्नप्रजाः कार्यं सूर्यश्चान्तरधीयत ॥ 2.41.9 ॥
नाग्निहोत्राणीति । नाहूयन्त अग्नानामन्तर्द्धानाद्धोतृ़णां व्यसनाच्चेति भावः । अन्तरधीयत निस्तेजस्को ऽभूदित्यर्थः ॥ 2.41.9 ॥
व्यसृजन् कवलान्नागा गावो वत्सान्न पाययन् ।
पुत्रं प्रथमजं लब्ध्वा जननीनाभ्यनन्दत ॥ 2.41.10 ॥
व्यसृजन्निति । पाययन् अपाययन् । आगमशासनस्यानित्यत्वादडभावः ॥ 2.41.10 ॥
त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि ।
दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ॥ 2.41.11 ॥
त्रिशङ्कुरिति । त्रिशङ्कुः इक्ष्वाकुकुलकूटस्थः । लोहिताङ्गो ऽङ्गारकः । बृहस्पतिबुधयोर्दारुणत्वं दारुणाङ्गारकसंयोगात् क्रूरस्थानगतत्वाद्वा । त्रिशङ्कोर्ग्रहत्वाभावेपि च्छत्रिणो गच्छन्तीतिवद्व्यपदेशः । त्रिशङ्कोः सोमप्राप्तिः ऋजुदेशत्वेन ज्ञेया । ननु ‘पूर्णे चतुर्दशे वर्षे पञ्चम्यां भरताग्रजः’ इति वक्ष्यमाणरीत्या तत्रैव कदाचित्पुष्ययोगसम्भावनया च पञ्चम्यामभिषेक इति सिद्धम् । तस्मिन्नेव च निर्गतः तथा च कर्कटकस्थे चन्द्रे कथं बुधसमागमः ? तस्य सूर्यसमीपवर्त्तित्वात् । उच्यते–प्राप्तिरत्र नैकराशिस्थितिः किंतु क्वचित् प्राप्तिः क्वचिद्दृष्टिरिति न दोषः, वक्रगत्या समागम इत्यप्याहुः ॥ 2.41.11 ॥
नक्षत्राणि गतार्चीषि ग्रहाश्च गततेजसः ।
विशाखास्तु सधूमाश्च नभसि प्रचकाशिरे ॥ 2.41.12 ॥
विशाखाः इक्ष्वाकुदेशनक्षत्रम् । सधूमा इत्यनेन भाविराजविपत् सूच्यते ॥ 2.41.12 ॥
कालिकानिलवेगेन महोदधिरिवोत्थितः ।
रामे वनं प्रव्रजिते नगरं प्रचचाल तत् ॥ 2.41.13 ॥
कालिकेति । कालिकानिलवेगेन मेघजालयुक्तप्रभञ्जनवेगेन । “मेघजाले च कालिका” इत्यमरः । प्रचचाल व्यसनातिशयात्प्रकम्पितमभूत् ॥ 2.41.13 ॥
दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः ।
न ग्रहो नापि नक्षत्रं प्रचकाशे न किञ्चन ॥ 2.41.14 ॥
दिश इति । ग्रहः जात्येकवचनम्, नवग्रहा इत्यर्थः । नक्षत्रम् अश्विन्यादि । न किंचित् प्रचकाशे सप्तर्षिध्रुवादिकं न प्रचकाश इत्यर्थः ॥ 2.41.14 ॥
अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत् ।
आहारे वा विहारे वा न कश्चिदकरोन्मनः ॥ 2.41.15 ॥
अकस्मादिति । अकस्मात् रामप्रव्राजनव्यतिरिक्तबन्धुविश्लेषणादिकारणं विनेत्यर्थः ॥ 2.41.15 ॥
शोकपर्यायसन्तप्तः सततं दीर्घमुच्छ्वसन् ।
अयोध्यायां जनः सर्वः शुशोच जगतीपतिम् ॥ 2.41.16 ॥
बाष्पपर्याकुलमुखो राजमार्गगतो जनः ।
न हृष्टो लक्ष्यते कश्चित्सर्वः शोकपरायणः ॥ 2.41.17 ॥
न वाति पवनः शीतो न शशी सौम्यदर्शनः ।
न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत् ॥ 2.41.18 ॥
शोकेति । शोकपर्यायसन्तप्तः शोकपरम्परासन्तप्तः ॥ 2.41.1618॥
अनर्थिनः सुताः स्त्रीणां भर्त्तारो भ्रातरस्तथा ।
सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन् ॥ 2.41.19 ॥
अनर्थिन इति । सुताः स्त्रीणामनर्थिनः मातृ़णां स्तन्यं नापेक्षन्त इत्यर्थः । भर्तारः स्त्रीणामनर्थिनः । भ्रातरः अनर्थिनः अन्योन्यमिति शेषः । सर्वे अनुरक्ताः सर्वे ॥ 2.41.19 ॥
ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः ।
शोकभारेण चाक्रान्ताः शयनं न जहुस्तदा ॥ 2.41.20 ॥
ये त्विति । शयनं मूर्च्छाशयनमित्यर्थः । येत्वित्यनेन पूर्वेभ्यो वैलक्षण्यमुच्यते । चक्रवर्ती गतिमनुमेने । श्रीकौसल्या मङ्गलाशासनमकरोत् । तथा न भवन्ति सुहृदः । तेषामेकोपि न किंचिदकार्षीत् । रामस्य सुहृदः पित्रोरपि गोप्यं रामो येभ्यः प्रकाशयति तादृशाः सुशोभनहृदयाः सुहृदः, आत्मानं त्यक्त्वा राममेव रक्षन्त इत्यर्थः । सर्वे त इति तेषु कश्चिदप्यन्यादृशो नास्तीति भावः । यदि सुहृदस्तर्हि पादौ संगृह्य रामो निवर्त्यतामित्यत्राह–मूढचेतसः प्रसन्नबुद्धिभिः कर्तव्यं कथं बुद्धिहीनाः कुर्वन्तीति भावः । ज्ञानभ्रंशस्य हेतुमाह शोकेति । पर्वतेनेव शोकभारेणाक्रान्ताः शयनं न जहुः, पर्वताक्रान्ताः कथमुत्तिष्ठेयुरिति भावः । तदा पारवश्यकाले, न तु स्वयं । स्वबुद्ध्या शयाना ह्युत्तिष्ठन्ति ॥ 2.41.20 ॥
ततस्त्वयोध्या रहिता महात्मना पुरन्दरेणेव मही सपर्वता ।
चचाल घोरं भयशोकपीडिता सनागयोधाश्वगणा ननाद च ॥ 2.41.21 ॥
तत इति । पुरन्दरेणेव महीति त्रैलोक्याधिपतित्वादुक्तम् । यद्वा पुरन्दरेण गोत्रभिदा हेतुना पर्वतसहिता मही यथा चलति तद्रक्षक रामविश्लेषेण गजाश्वसहितायोध्या भयेन चचालेत्यर्थः ॥ 2.41.21 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकचत्वारिंशः ॥ 41 ॥
इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥ 41 ॥